摩诃婆罗多 · 章 3.138
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.138.1
चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः ।
जगाम माधवे मासि रैभ्याश्रमपदं प्रति ॥ ३.१३८.१ ॥
那时,无畏而漫游的耶婆克利在摩陀婆月前往罗婆耶的修行处。
3.138.2
स ददर्शाश्रमे रम्ये पुष्पतद्रुमभूषिते ।
विचरन्तीं स्नुषां तस्य किन्नरीमिव भारत ॥ ३.१३८.२ ॥
在那片被开花树木装点的优美修行处,他看见其儿媳如紧那罗女般漫步,婆罗多啊。
3.138.3
यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिनि ।
निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः ॥ ३.१३८.३ ॥
耶婆克利对她说:'夫人,服侍我吧。'这无耻之人被欲望夺去了心智,对那充满羞涩的她如此说道。
3.138.4
सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती ।
तेजस्वितां च रैभ्यस् तथेत्युक्त्वा जगाम ह ॥ ३.१३८.४ ॥
她了解了他的行为,又畏惧那诅咒和罗婆耶的威光,便说:'就这样吧',然后离去了。
3.138.5
तत एकान्तमानीय लज्जयामास भारत ।
आजगाम तदा रैभ्यः स्वमाश्रममरिंदम ॥ ३.१३८.५ ॥
此后他将她带至僻静处,使她蒙羞,婆罗多啊。那时罗婆耶回到了自己的修行处,征服敌人者啊。
3.138.6
रुदतीं च स्नुषां दृष्ट्वा भार्यामार्ता परावसोः ।
सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर ॥ ३.१३८.६ ॥
看到儿媳哭泣悲伤,帕罗婆娑之妻以温柔的话语安慰她,并询问她,坚战啊。
3.138.7
सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा ।
प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तथाऽऽत्मना ॥ ३.१३८.७ ॥
这位吉祥的女子把耶婆克利多所说的一切都告诉了他,也讲了耶婆克利多自己经过深思后如何回答。
3.138.8
शृण्वानस्यैव रैभ्यस्य यवक्रेस्तद्विचेष्टनम् ।
दहन्निव तदा चेतः क्रोधः समभवन्महान् ॥ ३.१३८.८ ॥
瑞布耶听着,看到耶婆克利的烦乱,心中仿佛被焚烧,于是一股巨大的愤怒在他心中升起。
3.138.9
स तदा मन्युनाऽऽविष्टस्तपस्वी कोपनो भृशम् ।
अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते ॥ ३.१३८.९ ॥
那时,被愤怒完全笼罩的苦行者,极其易怒,剪下一绺发辫,投入准备妥当的火中献祭。
3.138.10
ततः समभवन्नारी तस्या रूपेण संमिता ।
अवलुप्यापरां चापि जुहावाग्नौ जटां पुनः ॥ ३.१३८.१० ॥
于是产生了一位与她容貌相等的女子。他又剪下另一绺发辫,再次投入火中献祭。
3.138.11
ततः समभवद्रक्षो दीप्तास्यं घोरदर्शनम् ।
अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे ॥ ३.१३८.११ ॥
于是产生了一个面目燃烧、形貌可怖的罗刹。此时二人对瑞布耶说:“我们该做什么事?”
3.138.12
तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति ।
जग्मतृस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया ॥ ३.१३८.१२ ॥
愤怒的仙人对他们二人说:“让耶婆克利被杀死。”二人说“好”,便怀着杀死耶婆克利多的念头前去了。
3.138.13
ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना ।
कमण्डलुं जहारास्य मोहयित्वा तु भारत ॥ ३.१३८.१३ ॥
于是这位大德所造的克利提亚靠近他,迷惑了他,夺走了他的水罐,婆罗多啊。
3.138.14
उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम् ।
तत उद्यतशूलः स राक्षसः समुपाद्रवत् ॥ ३.१३८.१४ ॥
于是那罗刹举起长矛,冲向失去水罐的不净者耶婆克里多。
3.138.15
तमाद्रवन्तं संप्रेक्ष्य शूलहस्तं जिघांसया ।
यवक्रीः सहसोत्थाय प्राद्रवद्यत्रवै सरः ॥ ३.१३८.१५ ॥
见他手持长矛、怀着杀意向自己冲来,耶婆克里突然起身,朝湖泊所在的方向逃去。
3.138.16
जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः ।
जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः ॥ ३.१३८.१६ ॥
耶婆克里见湖中无水,又急忙前行;所有的河流也都已干涸。
3.138.17
स काल्यमानो घोरेण शूलहस्तेन रक्षसा ।
अग्निहोत्रे पितुर्भीतः सहसा प्रविवेश ह ॥ ३.१३८.१७ ॥
被手持长矛的可怕罗刹逼迫,耶婆克里心生恐惧,突然闯入了父亲的火祭坛。
3.138.18
स वै प्रविशमानस्तु शुद्रेणान्धेन रक्षिणा ।
निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव ॥ ३.१३८.१८ ॥
然而,国王啊,他正要进入时,门口一名盲眼首陀罗守卫便强行抓住了他,他就这样站立在那里。
3.138.19
निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः ।
ताडयामास शूलेन स भिन्नहृदयोऽपतत् ॥ ३.१३८.१९ ॥
耶婆克利多被首陀罗抓住,罗刹以长矛刺他,他的心被刺穿,倒地而亡。
3.138.20
यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत् ।
अनुज्ञातस्तु रैभ्येण तया नार्या सहावसत् ॥ ३.१३८.२० ॥
杀死耶婆克利多后,罗刹来到莱布耶身边;得到莱布耶的许可,他与那名女子同住。