Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.142

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.142.1

अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च ।
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर ॥ ३.१४२.१ ॥

噜哒罗啊,那里有隐藏的生灵和强大的罗刹;只有凭借火与苦行的力量才能前往。

3.142.2

सन्निवर्तय कौन्तेय क्षुत्पिपासे बलाश्रयात् ।
ततो बलं च दाक्ष्यं च संश्रयस्व वृकोदर ॥ ३.१४२.२ ॥

贡蒂之子啊,依靠你的力量驱除饥渴;然后,噜哒罗啊,依托力量与技能。

3.142.3

ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति ।
बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति ॥ ३.१४२.३ ॥

贡蒂之子啊,你已听闻仙人关于凯拉萨山的话语;请以智慧思量,黑公主将如何前往。

3.142.4

अथवा सहदेवेन धौम्येन च समं विभो ।
सूतैः पौरोगवैश्चैव सर्वैश्च परिचारकैः ॥ ३.१४२.४ ॥

或者,啊,伟大者,与萨诃提婆、达乌米亚一同返回,连同御者、厨师和所有侍从。

3.142.5

रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि ।
सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण ॥ ३.१४२.५ ॥

与战车、马匹,以及其他无法忍受路途艰辛的婆罗门们一同,所有人一起返回吧,啊,怖军,大眼睛的人啊。

3.142.6

त्रयो वयं गमिष्यामो लध्वाहारा यतव्रताः ।
अहं च नकुलश्चैव लोमशश्च महातपाः ॥ ३.१४२.६ ॥

我们三人将前往,饮食清淡,恪守誓约——我、那库拉,以及大苦行者洛摩舍。

3.142.7

ममागमनमाकाङ्क्षन्ग्गाद्वारे समाहितः ।
वसेह द्रौपदीं रक्षन्यावदागमनं मम ॥ ३.१४२.७ ॥

等待我的归来,在门口的山道上保持警觉,守护德罗波蒂,直到我回来。

3.142.8

राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत ।
व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया ॥ ३.१४२.८ ॥

婆罗多啊,公主因疲劳而痛苦,因悲伤而憔悴,然而这位吉祥的女子仍在前行,只为渴望见到那白马之主。

3.142.9

तवचाप्यरतिस्तीव्रा वर्तते तमपश्यतः ।
गुडाकेशं महात्मानं संग्रामेष्वपलायिनम्।
किं पुनः सहदेवं च मां च कृष्णां च भारत ॥ ३.१४२.९ ॥

婆罗多啊,你因未见那在战斗中从不逃避的大德古达科沙(阿周那)而心中焦躁难安。何况是萨诃提婆、我和克利史那(德罗波蒂)呢,婆罗多啊!

3.142.10

द्विजाः कामं निवर्तन्तां सर्वे च परिचारकाः ।
सूताः पौरोगवाश्चैव यं च मन्येत नो भवान् ॥ ३.१४२.१० ॥

若婆罗门愿意,就让他们回去吧;所有侍从、车夫和厨师也都回去,还有你认为对我们合适的人,也都回去。

3.142.11

न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् ।
शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विपमेषु च ॥ ३.१४२.११ ॥

在这充满罗刹的山上,在难以通行、崎岖险恶之处,我绝不愿意把你丢在这里。

3.142.12

इयं चापि महाभागा राजपुत्री पतिव्रता ।
त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् ॥ ३.१४२.१२ ॥

这位大福的、忠于丈夫的公主,若没有你,她是不敢返回的,人中之虎啊。

3.142.13

तथैवसहदेवोऽयं सततं त्वामनुव्रतः ।
न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै ॥ ३.१४२.१३ ॥

同样,这位偕天也始终追随你。他绝不会回头,因为他明白你的心意,而我也明白他的心意。

3.142.14

अपिचात्र महाराज सव्यसाचिदिदृक्षया ।
सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह ॥ ३.१४२.१४ ॥

而且,大王,因想见善用双臂的萨维亚萨钦(阿周那),我们都急切渴望;所以我们将一同前往。

3.142.15

यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः ।
पद्भिरेव गमिष्यामो मा राजन्विमना भव ॥ ३.१४२.१५ ॥

如果这座多洞穴的山不能用战车通过,我们就步行前往。大王,不要沮丧。

3.142.16

अहं वहिष्ये पाञ्चालीं यत्रयत्र न शक्ष्यति ।
इति मे वर्तते बुद्धिर्मा राजन्विमना भव ॥ ३.१४२.१६ ॥

无论潘遮莉(德罗波蒂)走不动的地方,我都会背着她。这是我的决心。大王,不要沮丧。

3.142.17

सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ ।
दुर्गे संतारयिष्यामि यत्राशक्तौ भविष्यतः ॥ ३.१४२.१७ ॥

还有这两位柔弱的英雄,给人欢乐的摩德利之子,在他们力不能及的险路上,我会把他们背过去。

3.142.18

एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् ।
यत्त्वमुत्सहसे वोढुं पाञ्चालीं विपुलेऽध्वनि ॥ ३.१४२.१८ ॥

婆罗多,愿你的力量随着你这番话而增长——你既然愿意在这漫长的道路上背负潘遮莉。

3.142.19

यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते ।
बलं तव यशश्चैवधर्मः कीर्तिश्च वर्धताम् ॥ ३.१४२.१९ ॥

愿孪生兄弟也得吉祥。此力量、名声、法与荣誉只在你身上,别处没有。愿它们增长。

3.142.20

यत्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया ।
मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः ॥ ३.१४२.२० ॥

大臂者啊,既然你愿与两位兄弟及黑公主同行,愿你不致疲倦,也不致败北。

3.142.21

ततः कृष्णाऽब्रवीद्वाक्यं प्रहसन्ती मनोरमा ।
गमिष्यामि न संताप कार्यो मां प्रति भारत ॥ ३.१४२.२१ ॥

于是可爱的克里希纳微笑着说:"婆罗多啊,我将前往;不要为我担忧。"

3.142.22

तपसा शक्यते गन्तुं पर्वतो गन्धमादनः ।
तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् ॥ ३.१४२.२२ ॥

唯凭苦行才能抵达乾陀摩陀那山。凭苦行,俱蔑哩之子啊,我们都将努力。

3.142.23

नकुलः सहदेवश्च भीमसेनश् पार्थिव ।
अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् ॥ ३.१४२.२३ ॥

国王啊,那古拉、萨哈德瓦、比玛森,我和你,俱蔑哩之子啊,我们都将见到白驾(阿周那)。

3.142.24

एवं संभाषमाणास्ते सुबाहुविषयं महत् ।
ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् ॥ ३.१४२.२४ ॥

如此交谈着,他们欢喜地望见了苏巴呼广阔的国土,那里大象与骏马众多,国王啊。

3.142.25

किराततङ्गणाकीर्णं पुलिन्दशतसंकुलम् ।
हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम्।
सुबाहुश्चापि तान्दृष्ट्वा पूजयाप्रत्यगृह्णत ॥ ३.१४२.२५ ॥

此地住满拘罗陀与当伽那等部族,聚集着数百名补林陀人,诸天常临于雪山,充满种种奇观。苏巴呼见到他们,便以礼相待接纳了他们。

3.142.26

विषयान्ते कुलिन्दानामीश्वरः प्रीतिपूर्वकम् ।
तत्र ते पूजितास्तेन सर्व एव सुखोपिताः ॥ ३.१४२.२६ ॥

在拘林陀国的边境,那里的主君满怀情意地接待了他们。他们在那里受到他的尊敬,一行人都住得舒适安乐。

3.142.27

प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति ।
इन्द्रसेनमुखांश्चापि भृत्यान्पौरोगवांस्तथा ॥ ३.१४२.२७ ॥

在晴朗的太阳升起时,他们向雪山进发,并带着以因陀罗斯那为首的仆从和厨师们一同前行。

3.142.28

सूदांश्च पारिबर्हांश्च द्रौपद्याः सर्वशो नृप ।
राज्ञः कुलिन्दाधिपतेः परिदाय महारथाः ॥ ३.१४२.२८ ॥

大王啊,德劳帕蒂的全部厨师和搬运仆役,都是由拘林陀之主的国王所赠予的;那些大车勇士便这样出发了。

3.142.29

पद्भिरेव महावीर्या ययुः कौरवनन्दनाः ।
ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः।
तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम् ॥ ३.१४२.२९ ॥

般度之子们这些拘卢族的喜乐、大力者,只得步行而去。他们与黑公主一同缓缓前行,离开那片土地时心中十分欢喜,想要见到财胜(阿周那)。