摩诃婆罗多 · 章 3.156
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.156.1
ततस्तानि महार्हाणि दिव्यानि भरतर्षभ ।
बहूनि बहुरूपाणि विरजांसि समाददे ॥ ३.१५६.१ ॥
于是,婆罗多族的雄牛啊,他拿起了那些极其珍贵、神圣、形态多样、纯净无垢的众多之物。
3.156.2
ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः ।
प्रादुरासीद्वरस्पर्शः संग्राममभिचोदयन् ॥ ३.१५६.२ ॥
于是一股强大迅疾的风起,低吹卷起碎石,触之宜人,催动着战事。
3.156.3
पपात महती चोल्का सनिर्घाता महाभया ।
निष्प्रभश्चाभवत्सूर्यंश्छन्नरश्मिस्तमोवृतः ॥ ३.१५६.३ ॥
一颗巨大的流星伴着雷鸣般的巨响坠落,极其可怖;太阳失去光辉,光芒隐没,被黑暗笼罩。
3.156.4
निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते ।
चचाल पृथिवी चापि पांसुवर्षं पपात च ॥ ३.१५६.४ ॥
当毗摩展现其勇猛时,雷鸣变得可怕;大地震动,尘土如雨般落下。
3.156.5
सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः ।
तमोवृतमभूत्सर्वं न प्राज्ञायत किंचन। ॥ ३.१५६.५ ॥
四方变得血红,野兽与飞鸟以刺耳的声音鸣叫;一切都被黑暗笼罩,什么也分辨不清。
3.156.6
अन्ये च बहवो भीमा उत्पातास्तत्र जज्ञिरे ।
तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः।
उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति ॥ ३.१५६.६ ॥
那里又出现了许多其他可怕的凶兆。见此奇异景象,法之子坚战,言辞最为出众者,说道:"谁将战胜我们?"
3.156.7
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः ।
यथा रूपाणि पश्यामि सुव्यक्तो नः पराक्रमः ॥ ३.१५६.७ ॥
般度之子们,愿你们吉祥。好战而骄傲的你们,准备好吧;我看到这些凶兆的形态,我们的勇力将清楚地显现。
3.156.8
एवमुक्त्वा ततो राजा वीक्षांचक्रे समन्ततः ।
अपश्यमानो भीमं तु धर्मपुत्रो युधिष्ठिरः ॥ ३.१५६.८ ॥
说完这话,国王环顾四方;但未见到怖军,法之子坚战(继续寻找)。
3.156.9
ततः कृष्णां यमौ चापि समीपस्थानरिंदमः ।
पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे ॥ ३.१५६.९ ॥
于是这位降伏敌人者询问身旁的黑公主和双生子,关于他那在战斗中行事可怖的兄弟怖军。
3.156.10
कच्चिन्न भीमः पाञ्चालि किंच कृत्यं चिकीर्षति ।
कृतवानपि वा वीर साहसं साहसप्रियः ॥ ३.१५६.१० ॥
般遮罗公主啊,怖军是想要做什么事吗,还是已经做了?勇士啊,他喜好冒险,或许已经做了某种冒险之举。
3.156.11
इमे ह्यकस्मादुत्पाता महासमरशंसिनः ।
दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः ॥ ३.१५६.११ ॥
这些凶兆突然出现,预示着一场大战,四面八方都显露出强烈的恐怖。
3.156.12
तं तथावादिनं कृष्णा प्रत्युवाच मनस्विनी ।
प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी ॥ ३.१५६.१२ ॥
对这样说话的他,心志高尚的黑公主回答道——这位正宫王后,愿为所爱之人做喜悦之事,笑容美丽。
3.156.13
यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना ।
तन्मया भीमसेनस्य प्रीतयाऽद्योपपादितम् ॥ ३.१५६.१३ ॥
啊国王,摩多利湿婆(风神)所带来的那朵妙香花,我今日为了对毗摩森那的爱而得到了它。
3.156.14
अपि चोक्तो मया वीरो यदिपश्येर्बहून्यपि ।
तानि सर्वाणअयुपादाय शीघ्रमागम्यतामिति ॥ ३.१५६.१४ ॥
我曾对那位英雄说:‘即使你看见许多,也都带回来,快点回来。’
3.156.15
स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः ।
प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः ॥ ३.१५६.१५ ॥
啊国王,那位大臂的般度之子,为了让我欢喜,定是从此处向东北方去取那些花了。
3.156.16
उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत् ।
गच्छाम सहितास्तूर्णं येन यातो वृकोदरः ॥ ३.१५६.१६ ॥
她这样说了之后,国王对双生子说:“我们一同快去狼腹(毗摩)所去的地方吧。”
3.156.17
वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् ।
त्वमप्यमरसंकाश वह कृष्णां घटोत्कच ॥ ३.१५६.१७ ॥
让罗刹们背负婆罗门,因为他们疲惫而消瘦;而你,如神一般的伽陀迦恰,也背负克里希那(德罗波蒂)吧。
3.156.18
व्यक्तं दूरमितो भीमः प्रविष्ट इतिमे मतिः ।
चिरं चतस्य कालोऽयं स च वायुसमो जवे ॥ ३.१५६.१८ ॥
我认为毗摩已经远远地从此处进入了;他离去已久,而他的速度与风相等。
3.156.19
तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने ।
उत्पतेदपिचाकाशं निपतेच्चयथेच्छकम् ॥ ३.१५६.१९ ॥
这位迅捷者在大地上跳跃时如同毗娜塔之子迦卢达,他能跃入天空,也能随意落下。
3.156.20
तमन्वियाम भवतां प्रभावाद्रजनीचराः ।
पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् ॥ ३.१५६.२० ॥
请凭你们的神力追随他吧,夜行者们;从前他并不冒犯成就的仙人和宣说梵的智者。
3.156.21
तथेत्युक्त्वा तु ते सर्वेहैडिम्बप्रमुखास्तदा ।
उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ ॥ ३.१५६.२१ ॥
他们说道:「就这样吧。」于是以希迪姆巴为首的众人,知晓俱毗罗湖泊所在之处,哦,婆罗多雄牛。
3.156.22
आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः ।
लोमशेनैव सहिताः प्रययुः प्रीतमानसाः ॥ ३.१५६.२२ ॥
带着般度五子和那许多婆罗门,与罗摩夏一同,他们心怀喜悦地出发了。
3.156.23
ते सर्वे त्वरिता गत्वा ददृशुस्तत्र कानने ।
पद्मसौगन्धिकवतींनलिनीं सुमनोरमाम् ॥ ३.१५६.२३ ॥
他们都急速前往,在那片森林里看见了那充满莲花与香睡莲的、极其迷人的那利尼湖。
3.156.24
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् ।
ददृशुर्निहतांश्चैव यक्षांश्च विपुलेक्षणान् ॥ ३.१५६.२४ ॥
他们看见伟大的怖军站在湖岸边,也看见被杀的大眼夜叉。
3.156.25
भिन्नकायाक्षिबाहूरुन्संचूर्णितशिरोधरान् ।
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् ॥ ३.१५६.२५ ॥
他们看见那些身体、眼睛、手臂和大腿折断、脖颈与头颅被压碎的夜叉,也看见伟大的毗摩站在那条河的岸边。
3.156.26
सक्रोधं स्तव्धनयनं संदष्टदशनच्छदम् ।
उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् ॥ ३.१५६.२६ ॥
怒火满腔,双目凝视,牙齿咬着嘴唇,双臂高举着铁棒,站在河岸上。
3.156.27
प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम् ।
तं दृष्ट्वा धर्मराजस्तु परिष्वज्याथ भारत ॥ ३.१५६.२७ ॥
在众生毁灭之时,手持刑杖的死神一般的他映入眼帘,法王便拥抱了他,婆罗多啊。
3.156.28
उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम् ।
साहसं वत भद्रं ते देवानामपि चाप्रियम्।
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥ ३.१५६.२८ ॥
他以温和的语气说道:"贡蒂之子啊,你做了什么?这是鲁莽之举,愿你吉祥;这也连诸神都不喜欢。若你想让我欢喜,就不要再这样做了。"
3.156.29
अनुशिष्य तु कौन्तेयं पद्मानि परिगृह्य च ।
तस्यामेव नलिन्यां तु विजह्ररमरोपमाः ॥ ३.१५६.२९ ॥
他们教导了贡蒂之子,取了莲花,便在那座莲花池中嬉戏,如同天神一般。
3.156.30
एतस्मिन्नैव काले तु प्रगृहीतशिलायुधाः ।
प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः ॥ ३.१५६.३० ॥
就在此时,那园林的守卫者们现身了,身躯庞大,手持石块与兵器。
3.156.31
ते दृष्ट्वाधर्मराजानं महर्षिं चापि लोमशम् ।
नकुलं सहदेवं च तथाऽन्यान्ब्राह्मणर्षभान् ॥ ३.१५६.३१ ॥
他们看见了法王、大仙罗摩莎、无拘和偕天,以及其他婆罗门中的俊杰,
3.156.32
विनयेन नताः सर्वेप्रणिपत्य च भारत ।
सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः ॥ ३.१५६.३२ ॥
婆罗多啊,他们都谦恭地俯首致礼;经法王安慰后,夜行者们平静下来。
3.156.33
विदिताश्चकुबेरस्य तत्रते कुरुपुङ्गवाः ।
ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः।
प्रतीक्षमाणआ बीभत्सुं गन्धमादनसानुषु ॥ ३.१५६.३३ ॥
他们为俱毗罗所认出,在紧那罗神山(乾陀摩陀那)的山坡上,怀着喜悦等待毗跋蹉(阿周那),并未久留。