Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.159

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.159.1

निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् ।
अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः ॥ ३.१५९.१ ॥

那罗刹被杀之后,贡蒂之子、威严的国王重新来到那罗延的净修林,在那里定居。

3.159.2

स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः ।
द्रौपद्या सहितः काले संस्मरन्भ्रातरं जयम् ॥ ३.१५९.२ ॥

他召集了所有兄弟,与德罗波蒂一起,适时地思念着兄弟胜者(阿周那),说出了这些话。

3.159.3

समाश्चतस्रोऽभिगताः शिवेन चरतां वने ।
कृतोद्देशः स बीभत्सुऋ पञ्चमीमभितः समाम् ॥ ३.१५९.३ ॥

在林中漫游的人们平安度过了四年;比毗跋苏(阿周那)在第五年前后确定了自己的目标。

3.159.4

प्राप्य पर्वतराजानं श्वेतं शिखरिणांवरम् ।
पुष्पितैर्द्रुमषण्डैश्च मत्तकोकिलाषट्पदैः ॥ ३.१५९.४ ॥

他们来到山王,那座白色的、最好的有山峰的山,山中满是开花的树林,醉意盎然的杜鹃与蜜蜂。

3.159.5

मयूरैश्चातकैश्चापि नित्योत्सवविभूषितम् ।
व्याघ्रैर्वरहैर्महिषैर्गवयैर्हरिणैस्तथा ॥ ३.१५९.५ ॥

装饰着孔雀与恰塔卡鸟,常年如节日一般;还有老虎、优良的野猪、水牛、野牛和鹿。

3.159.6

श्वापदैर्व्यालरूपैश्च रुरुभिश्च निषेवितम् ।
फुल्लैः सहस्रपत्रैश्च शतपत्रैस्तथोत्पलैः ॥ ३.१५९.६ ॥

常有猛兽、蛇形生物和鹿群出没;盛开着千瓣莲、百瓣莲和青莲。

3.159.7

प्रफुल्लैः कमलैश्चैव तथा नीलोत्पलैरपि ।
महापुणअयं पवित्रं च सुरासुरनिषेवितम्।
तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः ॥ ३.१५९.७ ॥

那处盛开着莲花与青莲、极为圣洁清净、为天神与阿修罗所常至的地方,那些想要目睹相会的人也在那里定下了行程。

3.159.8

कृतश्च समयस्तेन पार्थेनामिततेजसा ।
पञ्चवर्षाणि वत्स्याभि विद्यार्थीति पुरा मयि ॥ ३.१५९.८ ॥

无量光辉的般度之子先前与我约定:“我将在那里居住五年,求取学问。”

3.159.9

अत्रगाण्डीवधन्वानमवाप्तास्त्रमरिंदमम् ।
देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् ॥ ३.१५९.९ ॥

我们将在此看到他——持甘狄拔弓的、已获得神兵的、降伏敌人的人,从天界重新回到这个世界。

3.159.10

इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः ।
कारणं चैव तत्तेवामाचचक्षे तपस्विनाम् ॥ ३.१५९.१० ॥

说罢,般度之子向所有婆罗门告辞,并向那些苦行者说明了其中的缘由。

3.159.11

तमुग्रतपसः प्रीताः कुत्वापार्थं प्रदक्षिणम् ।
ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च ॥ ३.१५९.११ ॥

他们向这位苦行严峻的人行右绕之礼,婆罗门们心中欢喜,以吉祥与安康祝福他。

3.159.12

सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ ।
क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ॥ ३.१५९.१२ ॥

此番苦难不久将结出幸福的果实,啊,婆罗多族之雄牛。啊,通晓法者,你将依刹帝利之法渡过此难,然后护持大地。

3.159.13

तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् ।
प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परंतपः ॥ ३.१५९.१३ ॥

国王接受了那些苦行者的话,与婆罗门和兄弟们一同出发;他是烧灼敌人的人。

3.159.14

द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तदा ।
राक्षसैरनुयातो वै लोमशेनाभिरक्षितः ॥ ३.१५९.१४ ॥

那时,这位光荣者与德劳帕蒂同行,海迪姆贝亚等罗刹跟随其后,并由洛摩萨保护。

3.159.15

क्वचित्पद्भ्यां ततोऽगच्छद्राक्षसैरुदह्यते क्वचित् ।
तत्रतत्र महातेजा भ्रातृभिः सह सुव्रतः ॥ ३.१५९.१५ ॥

有时他步行,有时罗刹将他抬着;到处,那位大光辉、誓愿坚定的人与兄弟们同行。

3.159.16

ततो युधिष्ठिरो राजा बहुन्क्लेशान्विचिन्तयन् ।
सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् ॥ ३.१५९.१६ ॥

于是国王坚战思虑诸多苦难,朝北方前行,那里充满狮子、老虎和大象。

3.159.17

अवेमाण कैलासं मैनाकं चैव पर्वतम् ।
गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् ॥ ३.१५९.१७ ॥

凝望着凯拉萨和迈纳卡山、乾陀摩陀那的山麓,以及岩石堆积的弥卢山。

3.159.18

उपर्युपरि शैलस्य बहीश्च सरितः शिवाः ।
पृष्ठं हिमवतः पुण्यं ययौ सप्तदशेऽहनि ॥ ३.१५९.१८ ॥

在山上不断向上,渡过许多吉祥的河流,他在第十七天到达了喜马拉雅神圣的脊背。

3.159.19

ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकम् ।
पृष्ठे हिमवतः पुण्ये नानाद्रुमलतावृते ॥ ३.१५९.१९ ॥

大王啊,般度五子看见近旁喜马拉雅神圣山脊上的乾陀摩陀那山,它被各种树木和藤蔓覆盖。

3.159.20

सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः ।
समावृतं पुण्यतममाश्रमं वृषपर्वणः ॥ ३.१५९.२० ॥

他们看见了毗湿波婆伐那最神圣的苦行林,周围是从水涡中生出的盛开树木。

3.159.21

तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः ।
पाण्डवा वृषपर्वाणमवदन्त गतक्लमाः ॥ ३.१५९.२१ ॥

般度五子走近那位正直的王仙,这些降伏敌人、不再疲倦的人对毗湿波婆伐那说话。

3.159.22

अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् ।
पूजिताश्चावसंस्तत्रसप्तरात्रमरिंदमाः ॥ ३.१५९.२२ ॥

那位王仙像对待自己的儿子一样欢迎婆罗多族的雄牛;受到敬重的降敌者在那里住了七夜。

3.159.23

अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम् ।
आमन्त्र्य वृषपर्वाणं प्रस्थानं प्रत्यरोचयन् ॥ ३.१५९.२३ ॥

到了第八天,他们向这位闻名于世的仙人毗湿波婆伐那辞行,决定启程。

3.159.24

एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणि ।
न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान्।
पारिबर्हं चतं शेषं परिदाय महात्मने ॥ ३.१५९.२४ ॥

他们逐一将那些婆罗门托付给毗湿波婆伐那作为寄存之物,按时以亲属般的礼遇尊敬他们,并把其余的随从交给这位大德,然后启程。

3.159.25

ततस्ते यज्ञपात्राणि रत्नान्याभरणानि च ।
न्यदधुःपाण्डवा राजन्नाश्रमे वृषपर्वणः ॥ ३.१५९.२५ ॥

大王啊,于是般度之子们把祭器、珠宝和饰物存放在跋利舍跋婆的净修林中。

3.159.26

अतीतानागते विद्वान्कुशलः सर्वधर्मवित् ।
अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् ॥ ३.१५९.२६ ॥

他博学、精通一切法,知晓过去与未来,如同教导自己的儿子一般教导婆罗多族的俊杰。

3.159.27

तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् ।
कुष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः ॥ ३.१५९.२७ ॥

得到许可后,这些大德英雄与黑公主及诸位大德婆罗门一同向北方出发。

3.159.28

तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतीन् ।
उपन्यस् महातेजा विप्रेभ्यः पाण्डवांस्तदा ॥ ३.१५९.२८ ॥

光辉伟大的跋利舍跋婆随着那些启程的国王而去;此时,他已将般度之子托付给婆罗门。

3.159.29

अनुसंसार्य कौन्तेयानाशीर्भिरभिनन्द्य च ।
वृषपर्वा निववृतेपन्थानमुपदिश्य च ॥ ३.१५९.२९ ॥

他陪送贡蒂之子一程,以祝福向他们致意,并指明道路,然后跋利舍跋婆返回了。

3.159.30

नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः ।
पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः ॥ ३.१५९.३० ॥

在那条有各种鹿群出没的路上,真勇的贡蒂之子坚战与兄弟们一同徒步出发了。

3.159.31

नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु ।
पर्वतं विविशुस्ते तं चतुर्थेऽहनि पाण्डवाः ॥ ३.१५९.३१ ॥

般度之子们居住在山坡上,在众多树木丛中,于第四天进入了那座山。

3.159.32

महाभ्रघनसंकाशं सलिलोपहितं शुभम् ।
मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् ॥ ३.१५९.३२ ॥

那座山如同巨大的浓云,充满清水,吉祥,以宝石和黄金装饰而美丽,高低错落。

3.159.33

रम्यं हिमवतः प्रस्थं बहुकन्दरनिर्झरम् ।
शिलाविभङ्गविकटं लतापादपसङ्कुलम् ॥ ३.१५९.३३ ॥

喜马拉雅的可爱山坡,多有洞穴与瀑布,碎石嶙峋,藤蔓与树木密布。

3.159.34

ते समासाद्यपन्थानं यतोक्तं वृषपर्वणा ।
अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् ॥ ३.१५९.३४ ॥

他们到达了毗首波婆所说的道路,依所指方向前行,观看各种山峰。

3.159.35

उपर्युपरि शैलस्य गुहाः परमदुर्गमाः ।
सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः ॥ ३.१५९.३५ ॥

山峰之上有极难到达的洞穴;他们轻易地穿过了这些极为艰险的许多洞穴。

3.159.36

धौम्यः कृष्णा च पार्ताश्च लोमशश्च महानृषिः ।
आगच्छन्सहितास्तत्रन कश्चिदपि हीयते ॥ ३.१५९.३६ ॥

达乌米亚、克里希纳(德罗波蒂)、普利塔之子们与大仙人罗摩沙一同来到那里;他们中没有一人落后。

3.159.37

ते मृगद्विजसंघुष्टं नानाद्रुमलतायुतम् ।
शाखामृगगणैश्चैव सेवितं सुमनोरमम् ॥ ३.१५९.३७ ॥

他们来到那片森林,鹿鸣鸟啼之声回荡其间,遍布各种树木藤蔓,猴群栖息,令人心旷神怡。

3.159.38

पुण्यं पद्मसरोपेतं सपल्वलमहावनम् ।
उपतस्थुर्महाभागा माल्यवतं महागिरिम् ॥ ३.१५९.३८ ॥

这些大福之人来到了圣洁的大山摩尔耶梵特,那里有莲花湖、池塘和广阔的森林。

3.159.39

ततः किंपुरुषावासं सिद्धचारणसेवितम् ।
ददृशुर्हृषरोमाणाः पर्वतं गन्धमादनम् ॥ ३.१५९.३९ ॥

于是他们看到了金刚人(Kiṃpuruṣa)的住所、悉陀与遮罗所常至的香醉山,他们汗毛竖起。

3.159.40

विद्याधरानुचरितं किन्नरीभिस्तथैव च ।
गजसङ्घसमावासं सिंहव्याघ्रगणायुतम् ॥ ३.१५९.४० ॥

乃持明者所游历之地,亦有紧那罗女,是象群的居所,充满狮虎之群。

3.159.41

शरभोन्नादसंघुष्टं नानमृगनिषेवितम् ॥ ३.१५९.४१ ॥

回荡着沙罗婆猛兽的吼声,各种鹿群栖息其间。

3.159.42

ते गन्धमादनवनं तन्नन्दनवनोपमम् ।
मुदिताः पाण्डुतनया मनोनयननन्दनम् ॥ ३.१५९.४२ ॥

般度之子欢喜地来到香醉林,它如同帝释天的南达那园,令心与眼俱感喜悦。

3.159.43

विविशुः क्रमशो वीरा अरण्यं शुभकाननम् ।
द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः ॥ ३.१५९.४३ ॥

众英雄依次进入这片美丽的森林,与德罗波蒂以及那些伟大的婆罗门同行。

3.159.44

शृण्वन्तः प्रीतिजननान्वल्गून्मन्दकलाञ्शुभान् ।
श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् ॥ ३.१५९.४४ ॥

聆听从鸟儿口中发出的悦耳、甜美、柔和、动人、令人愉悦的声音。

3.159.45

सर्वर्तुफलभाराञ्यान्सर्वर्तुकुसुमोज्ज्वलाम् ।
पश्यन्तः पादपांस्चापि फलभारावनामितान् ॥ ३.१५९.४५ ॥

看着那些树木,四季果实累累,四季花开灿烂,因果实的重量而低垂。

3.159.46

आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान् ।
मुञ्जातकांस्तथाञ्जीरान्दाडिमान्बीजपूरकान् ॥ ३.१५९.४६ ॥

芒果树、阿姆拉塔迦树、盛开的椰子树、丁杜迦树、穆尼迦塔迦树、无花果树、石榴树和香橼树。

3.159.47

पनसाँल्लिकुचान्मोचाः खर्जूरानम्लवेतसान् ।
परावतांस्तथा क्षौद्रानीपांश्चापि मनोरमान् ॥ ३.१५९.४७ ॥

菠萝蜜树、利库迦树、香蕉、椰枣树、酸味毗多沙树、波罗跋多树、产蜜的树木,以及令人愉悦的伊波树。

3.159.48

बेल्वान्कपित्थाञ्जम्बूश्च काश्मरीर्ब्रदरीस्तथा ।
पुक्षानुदुम्बरवटानश्वत्थान्क्षीरिकास्तथा ॥ ३.१५९.४८ ॥

木苹果树、贝尔树、蒲桃树、迦湿弥罗树、枣树、普克沙树、优昙婆罗无花果树、榕树、菩提树,以及产乳的乳汁树。

3.159.49

मल्लातकानामलकीर्हरीतकबिभीतकान् ।
इङ्गुदान्करमर्दांश्च तिन्दुकांश् महाफलान् ॥ ३.१५९.४९ ॥

他们在那里看到了摩罗多迦、阿摩勒、诃梨勒、毗醯勒树,英古提、迦罗摩尔达以及结大果的丁杜迦树。

3.159.50

एतानन्यांश्च विविधान्गन्धमादनसानुषु ।
फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरूपन् ॥ ३.१५९.५० ॥

在香山的山坡上,有这些以及其他各种树木,结满了如甘露般甜美的果实。

3.159.51

तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा ।
पुन्नागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान्।
पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा ॥ ३.१५९.५१ ॥

同样还有瞻卜迦、无忧树、刺李树、伯古罗树、普纳伽树、七叶树、卡尼卡拉树,与刺李树并存的波拉喇树,美丽的库塔迦树,曼陀罗和青莲。

3.159.52

पारिजातान्कोविदारान्देवदारुद्रुमांस्तथा ।
पारिजातान्कोविदारान्देवदारुद्रुमांस्तथा।
शालांस्तालांस्तमालांश्च पिप्पलान्हिङ्गुकांस्तथा ॥ ३.१५९.५२ ॥

有波利耶多罗树、高维达罗树和天生树,还有娑罗树、多罗树、多摩罗树、毕钵罗树和阿魏树。

3.159.53

चकोरैः शतपत्रैश् भृङ्गराजैस्तथा शुकैः ।
कोकिलैः कलविङ्कैश्च हारितैर्जीवजीवकैः ॥ ३.१५९.५३ ॥

那里满是遮克罗鹧鸪、百羽鸟、蜂王鸟,以及鹦鹉、杜鹃、麻雀、哈利多鸟和命命鸟。

3.159.54

प्रियकैश्चातकैश्चैव तथाऽन्यैर्विविधैः खगैः ।
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् ॥ ३.१५९.५४ ॥

那里栖息着普里耶迦鸟、遮塔迦鸟及其他各种鸟类,它们以悦耳的甜美声音鸣叫。

3.159.55

सरांसि च मनोज्ञानि समन्ताज्जलचारिभिः ।
कुमुदैः पुण्डरीकैश्च तृथा कोकनदोत्पलैः।
कहारैः कमलैश्चैव आचितानि समन्ततः ॥ ३.१५९.५५ ॥

四周是美丽的湖泊,充满水中生物,覆盖着睡莲、白莲、红蓮、青莲、睡莲与荷花。

3.159.56

कादम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः ।
कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च ॥ ३.१५९.५६ ॥

与卡丹巴鸟、车克拉瓦卡鸟、鹗、水鸡、卡兰达瓦鸭、潜鸟、天鹅、白鹭和摩德古鸟相伴。

3.159.57

एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ।
हृष्टैस्तथा तामरसरसासवमदालसैः ॥ ३.१५९.५७ ॥

四周充满这些及其他水中生物,欢快而因莲花蜜的醉意而慵懒。

3.159.58

पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ।
मञ्जुस्वरैर्मधुकरैर्विरुतान्कमलाकरान् ॥ ३.१५९.५८ ॥

莲池被从莲心落下的花粉和花蕊染成红色,回荡着甜美歌声的蜜蜂之音。

3.159.59

अपश्यंस्ते नरव्याघ्रा गन्धमादनसानुषु ।
तथैव पद्मषण्डैश्च मण्डितांश्च समन्ततः ॥ ३.१५९.५९ ॥

那些人中猛虎在乾陀摩陀那山坡上,同样看到四周以莲花丛装饰的湖泊。

3.159.60

शिखण्डिनीभिः सहिताँल्लतामण्डलकेषु च ।
मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् ॥ ३.१५९.६० ॥

他们看见孔雀与雌孔雀在藤蔓环绕之处,被爱欲深深撩动,因云鼓的巨响而激动。

3.159.61

कृत्वैव केकामधुरं संगीतं मधुरस्वरम् ।
चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् ॥ ३.१५९.६१ ॥

以孔雀鸣叫般甜美的歌声歌唱,声音悦耳,展开斑斓的尾羽,因嬉戏与情欲而慵懒。

3.159.62

मयूरान्ददृशुर्हृष्टान्नृत्यतो वनलालसान् ।
कांश्चित्प्रियाभिः सहितान्रममाणान्कलापिनः ॥ ३.१५९.६२ ॥

他们看见欢快的孔雀在林中起舞,贪恋着丛林;有的与心爱的伴侣一同嬉戏,羽翼华美。

3.159.63

वल्लीलतासंकटेषु कुटजेषु स्थितांस्तथा ।
कांश्चिच्च कुटजानां तु विटपेषूत्कटानिव ॥ ३.१५९.६३ ॥

有的站在藤蔓缠绕的库塔佳树丛中,有的则立于库塔佳树的枝头,仿佛骄傲地挺立。

3.159.64

कलापरुचिराटोपनिचितान्मुकुटानिव ।
विवरेषु तरूणां च रुचिरान्ददृशुश्च ते ॥ ३.१५९.६४ ॥

羽尾华丽如冠冕,在树木的缝隙间美丽非凡,他们看见了它们。

3.159.65

सिन्धुवारांस्तथोदारान्मन्मथस्येव तोमरान् ।
सुवर्णवर्णकुसुमान्गिरीणां सिखरेषु च।
कर्णिकारान्विकसितान्कर्णपूरानिवोत्तमान् ॥ ३.१५९.६५ ॥

华美的辛度瓦拉花,宛如爱神的长矛;山巅上盛开着金色花朵的卡尼卡拉树,宛如上好的耳环。

3.159.66

तथाऽपश्यन्कुरबकान्वनराजिषु पुष्पितान् ।
कामवश्यौत्सुक्यकरान्कामस्येव शरोत्करान् ॥ ३.१५९.६६ ॥

他们又看见林间成行盛开的库拉巴卡花,它们唤起爱欲支配下的渴慕,宛如爱神箭矢的堆积。

3.159.67

तथैव वनराजीनामुदारान्रचितानिव ।
विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव ॥ ३.१५९.६७ ॥

同样,他们看见森林行列中光彩夺目的提拉卡树,仿佛被排列整齐,宛如提拉卡印记。

3.159.68

तथानङ्गशराकारान्सहकारान्मनोरमान् ।
अपश्यन्भ्रामरान्राजन्मञ्जरीभिर्विराजितान् ॥ ३.१५९.६८ ॥

同样,他们看见形如爱神之箭的迷人芒果树,大王啊,树上群蜂环绕,花穗光彩照人。

3.159.69

हिरण्यसदृशैः पुष्यैर्दावाग्निसदृशैरपि ।
लोहितैरञ्जनाभैश्च वैदूर्यसदृशैरपि।
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥ ३.१५९.६९ ॥

开满花朵的树木,花色如金、如林火、如红色,如黑色眼膏,又如琉璃,在山坡上格外耀眼。

3.159.70

तथा सालांस्तमालांश्च पाटलाबकुलानपि ।
माला इव समासक्ताः शैलानां शिखरेषु च ॥ ३.१५९.७० ॥

同样,娑罗、多摩罗、波吒罗和婆古罗树,如花环般簇拥在山峰之上。

3.159.71

विमलस्फाटिकाभानि पाण्डुरच्छदनैर्द्विजैः ।
कलहंसैरुपेतानि सारसाभिरुतानि च ॥ ३.१५९.७१ ॥

[它们]清澈如纯净水晶,栖息着白羽的鸟与天鹅,回荡着鹤的鸣声。

3.159.72

सरांसि बहुशः पार्था पश्यन्तः शैलसानुषु ।
पद्मोत्पलविमिश्राणि सुखशीतजलानि च ॥ ३.१५९.७२ ॥

普利塔之子看见山坡上许多湖泊,其中混杂着莲花与青莲,水清凉宜人。

3.159.73

एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः ।
गन्वन्त्यथ माल्यानि रसवन्ति फलानि च ॥ ३.१५९.७३ ॥

如此,英雄们依次前行,四处观望;随后他们看见了如花环般的花朵与多汁的果实。

3.159.74

सरांसि च मनोज्ञानि वृक्षांश्चातिमनोरमान् ।
विविशुः पाण्डवाः सर्वेविस्मयोत्फुल्ललोचनाः ॥ ३.१५९.७४ ॥

般度之子们睁大惊奇的双眼,走进那些迷人的湖泊与极为秀美的树木之间。

3.159.75

कमलोत्पलकह्लारपुण्डरीकसुगन्धिना ।
सेव्यमाना वने तस्मन्सुखस्पर्शेन वायुना ॥ ३.१५९.७५ ॥

那片森林里充满莲花、蓝睡莲、白睡莲与白莲的芬芳,被宜人触感的微风轻拂。

3.159.76

ततो युधिष्ठिरो भीममाहेदं प्रीतिमद्वचः ।
अहो श्रीमदिदं भीम गन्धमादनकाननम् ॥ ३.१५९.७६ ॥

于是坚战以欢喜的言语对怖军说:“啊,怖军!这座乾陀摩陀那的森林何等壮丽!”

3.159.77

वने ह्मस्मिन्मनोरम्ये दिव्या काननजा द्रुमाः ।
लताश्च विविधाकाराः पत्रपुष्पफलोपगाः।
भान्त्येते पुष्पविकचाः पुंस्कोकिलकुलाकुलाः ॥ ३.१५९.७७ ॥

确实,在这片迷人的森林里,天界般的林中生树与形态各异的藤蔓,枝叶、花朵、果实俱全,盛开的花朵闪耀,满是雄杜鹃的鸟群。

3.159.78

नात्र कण्टकिनः केचिन्न च विद्यन्त्यपुष्पिताः ।
स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ॥ ३.१५९.७८ ॥

这里没有带刺的树,也没有不开花的树;在乾陀摩陀那的山坡上,都是叶片光滑、结满果实的树木。

3.159.79

भ्रमरारावमधुरा नलिनीः फुल्लपङ्कजाः ।
विलोड्यमाना पश्येमाः करिभिः सकरेणुभिः ॥ ३.१५९.७९ ॥

看这些莲池,蜜蜂的嗡鸣使其甜美,盛开着莲花,被大象与母象一同搅动。

3.159.80

पश्येमां नलिनीं चान्यां कमलोत्पलमालिनीम् ।
स्रग्धरां विग्रहवतीं साक्षाच्छ्रियमिवापराम् ॥ ३.१५९.८० ॥

再看这另一座莲池,它佩戴着莲花与睡莲的花环,仿佛真身显现的另一位吉祥天女。

3.159.81

नानाकुसुमगन्धाढ्यास्तस्येमाः काननोत्तमे ।
उपगीयमाना भ्रमरै राजन्ते वनराजयः ॥ ३.१५९.८१ ॥

在那片殊胜的森林中,这些林木成行,满溢着种种花朵的芬芳,被蜜蜂吟唱,熠熠生辉。

3.159.82

पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः ।
अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ॥ ३.१५९.८२ ॥

看啊,怖军,四面展开的这些美好之地,诸神的游乐园,我们在此已达到超人的境界而臻于圆满,哦,狼腹。

3.159.83

लताभिः पुष्पिताग्राभिः पुष्पिताः पादपोत्तमाः ।
संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु ॥ ३.१५९.८३ ॥

哦,阿周那,花开的良木与梢头开花的藤蔓相互缠绕,在香醉山的山坡上熠熠生辉。

3.159.84

शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् ।
नदतां शृणु निर्घोषं भीम पर्वतसानुषु ॥ ३.१५९.८४ ॥

怖军啊,请听那些与孔雀母在山坡上徘徊、鸣叫的公孔雀的啼声。

3.159.85

चकोराः शतपत्राश्च मत्तकोकिलशारिकाः ।
पत्रिणः पुष्पितानेतान्संपतन्ति महाद्रुमान् ॥ ३.१५९.८५ ॥

鹧鸪、百羽鸟、醉酒的杜鹃与八哥——这些有翼的鸟落在开花的大树上。

3.159.86

रक्तपीतारुणाः पार्थ पादपाग्रगताः खगाः ।
परस्परमुदीन्ते बहवो जीवजीवकाः ॥ ३.१५९.८६ ॥

普利塔之子啊,许多红、黄、赤色的鸟站在树梢上,彼此互相凝望——这是命命鸟。

3.159.87

हरितारुणवर्णानां शाड्वलानां समीपतः ।
सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ॥ ३.१५९.८७ ॥

在绿色与赤色相间的草地附近,可以看见仙鹤——即便在山间泉水旁也能看到。

3.159.88

वदन्ति मधुरा वाचः सर्वभूतमनोरमाः ।
भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्रिणः ॥ ३.१५९.८८ ॥

它们以甜美的声音鸣叫,令一切众生心生欢喜;还有如黑蜂王般有轮纹的、脊背如铁的鸟。

3.159.89

चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः ।
एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः ॥ ३.१५९.८९ ॥

四牙象,如莲花般光彩,与母象一起,搅动着这片琉璃色的大湖。

3.159.90

बहुतालसमुत्सेघाः शैलशृङ्गपरिच्युताः ।
नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्ति च ॥ ३.१५९.९० ॥

水流高如许多棕榈树,从山峰之上坠落,也从各处泉眼倾泻而下。

3.159.91

भास्कराभप्रभा भीमाः शारदाभ्रघनोपमाः ।
शोभयन्ति महाशैलं नानारजतधातवः ॥ ३.१५९.९१ ॥

光辉如日,可畏,如秋日浓云,种种银色矿脉装点着这座大山。

3.159.92

क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसन्निभाः ।
धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ॥ ३.१५९.९२ ॥

有处如黑眼膏之色,有处如金色;有处为雌黄矿脉,有处为朱砂矿脉。

3.159.93

मनःशिलागुहाश्चैव संध्याभ्रनिकरोपमाः ।
शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः ॥ ३.१५९.९३ ॥

还有雄黄洞穴,如傍晚云堆,色如兔血;有处为赭石矿脉。

3.159.94

सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः ।
एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ॥ ३.१५९.९४ ॥

如白云与黑云,光如初升之日,这些种种大光辉之物装点着此山。

3.159.95

गन्धर्वाः सह कान्ताभिर्यथेष्टं भीमविक्रमाः ।
दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह ॥ ३.१५९.९५ ॥

乾闼婆与其爱妻,随心所欲,威勇可畏,在山峰之上可以看到,阿周那,与紧那罗在一起。

3.159.96

गीतानां समतालानां तथासाम्नां च निःखनः ।
श्रूयते बहुधा भीम सर्वभूतमनोहरः ॥ ३.१५९.९६ ॥

歌声、等拍之乐,以及娑摩颂歌之声,多方传来,可畏者啊,令一切众生之心欢悦。

3.159.97

महागङ्गामुदीक्षख पुण्यां देवनदीं शुभाम् ।
कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम् ॥ ३.१५९.९७ ॥

请看那伟大的恒河,那神圣吉祥的天河,群群迦罗哈恒天鹅环绕,仙人与紧那罗常常往来。

3.159.98

धातुभिश्च सरिद्भिश्च किन्नरैर्मृगपक्षिभिः ।
गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः ॥ ३.१५९.९८ ॥

满是矿脉与河流,有紧那罗、鹿与鸟,有乾闼婆与阿普萨拉斯,还有令人心旷神怡的林木。

3.159.99

व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः ।
उपेतं पश्य कौन्तेय शैलराजमरिंदम ॥ ३.१५९.९९ ॥

看那山中之王,四面环绕着形状各异的百头毒蛇。俱卢之子啊,降伏敌人者啊!

3.159.100

ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् ।
नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परंतपाः ॥ ३.१५९.१०० ॥

那些心怀喜悦的勇士抵达了至高的归宿,然而他们对山中之王的景象仍不满足,啊,焚敌者!

3.159.101

उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः ।
आर्ष्टिपेणस् राजर्षेराश्रमं ददृशुस्तदा ॥ ३.१५९.१०१ ॥

那时他们看到了王仙阿尔什提舍那的修行处,那里以花环与果树装点。

3.159.102

ततस्ते तिग्मतपसं कृशं धमनिसंततम् ।
पारगं सर्वविद्यानामार्ष्टिषेणमुपागमन् ॥ ३.१५९.१०२ ॥

于是他们走近阿尔什提舍那,他苦行严酷,身形枯瘦、青筋暴露,已精通一切学问。