摩诃婆罗多 · 章 3.160
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.160.1
युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् ।
अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् ॥ ३.१६०.१ ॥
坚战走近那位以苦行烧尽罪业的仙人,欢喜地低下头,报上自己的名字向他致敬。
3.160.2
ततः कृष्णा च भीमश्च यमौ च सुतपस्विनौ ।
शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे ॥ ३.१६०.२ ॥
随后黑公主、怖军和两位苦行的孪生兄弟低首走近王仙,环绕着他站立。
3.160.3
तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः ।
यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् ॥ ३.१६०.३ ॥
同样,精通法度的般度诸子国师达乌写亚依礼走近那位持戒严谨的仙人。
3.160.4
अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा ।
पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् ॥ ३.१६०.४ ॥
那位精通法度的仙人以天眼看见,准许般度的优秀俱卢子孙,并说:「坐下吧。」
3.160.5
कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः ।
सह भ्रातृभिरसीनं पर्यपृच्छदनामयम् ॥ ३.१६०.५ ॥
那位大苦行者敬重俱卢中最出色、最有智慧的坚战,并在他与兄弟们一同坐着时询问他是否安好。
3.160.6
नानृते कुरुषे भावं कच्चिद्धर्मे प्रवर्तसे ।
मातापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति ॥ ३.१६०.६ ॥
「你是否没有心向虚妄,而是安住于法?普利塔之子啊,你对母亲和父亲的侍奉没有衰减吧?」
3.160.7
कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः ।
कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु ॥ ३.१६०.७ ॥
你是否尊敬了所有的师长、长者和医者?阿周那啊,你是否不把心思放在罪恶的行为上?
3.160.8
सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् ।
यथान्यायं कुरुश्रेष्ठ जानासि न विकत्थसे ॥ ३.१६०.८ ॥
库鲁之最,你是否知道依法报答善行、惩处恶行?你不会自夸吧?
3.160.9
यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः ।
वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे ॥ ३.१६०.९ ॥
善良之人是否因你的恰当敬重而欢喜?即使住在森林中,你是否仍只遵循正法?
3.160.10
कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते ।
दानधर्मतपःशौचैरार्जवेन तितिक्षया ॥ ३.१६०.१० ॥
阿周那啊,德乌米亚是否因你在布施、正法、苦行、清净、正直与忍耐中的行为而感到痛苦?
3.160.11
पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे ।
कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव ॥ ३.१६०.११ ॥
阿周那啊,你是否遵循父祖的行为?般度之子啊,你是否走着王仙们所走过的道路?
3.160.12
स्वेस्वे किल कुले जाते पुत्रे नप्तरि वा पुनः ।
पितरः पितृलोकस्थाः शोचन्ति च रमन्ति च ॥ ३.१६०.१२ ॥
当各自家族中生下儿子或孙子时,居于祖灵世界的先祖们既悲伤,也欢喜。
3.160.13
किं तस्य दुष्कृतेऽस्माभिः संप्राप्तव्यं भविष्यति ।
किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनं ॥ ३.१६०.१३ ॥
他的恶行将使我们得到什么,他的善行我们应当得到什么——这是恰当的。
3.160.14
पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः ।
यस्यैतेपूजिताः पार्थ तस्य लोकावुभौ जितौ ॥ ३.१६०.१४ ॥
父、母,同样还有圣火、师长,以及第五者自我。阿周那啊,凡尊敬这些者,便赢得了两个世界。
3.160.15
भगवन्नार्य माऽऽहैतद्यथावद्धर्मनिश्चयम् ।
यथाशक्ति यथान्यायं क्रियते विधिवन्मया ॥ ३.१६०.१५ ॥
尊者啊,贤者啊,请勿照实说出此法之决断;我依据能力、依理、依仪轨而行之。
3.160.16
अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा ।
जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसन्धिषु ॥ ३.१६०.१६ ॥
饮水者、食风者,以及在空中飘行的仙人,在节日交替之时亲近最好的山峰。
3.160.17
कामिनः सह कान्ताभिः परस्परमनुव्रताः ।
दृश्यन्ते शैलशृङ्गस्था यथा किंपुरुषा नृप ॥ ३.१६०.१७ ॥
大王啊,爱人与其所爱者相互眷恋,可见站在山峰之上,如同紧那罗(金人)一般。
3.160.18
अरजांसि च वासांसि वसानाः कौशिकानि च ।
दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः ॥ ३.१६०.१८ ॥
阿周那啊,可见许多乾闼婆与阿普萨拉斯的群众,身穿无尘的丝绸衣裳。
3.160.19
विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः ।
महोरगगणाश्चैव सुपर्णाश्चारणादयः ॥ ३.१६०.१९ ॥
还有佩戴花环、external令人喜爱的持明(vidyādhara)众,大蛇众,金翅鸟(suparṇa),以及乾闼婆(cāraṇa)等。
3.160.20
अस्य चोपरि शैलस्य श्रूयते पर्वसन्धिषु ।
भेरीपणवशङ्खानां मृदङ्गानां च निःस्वनः ॥ ३.१६०.२० ॥
在这座山之上,于其峰顶的衔接处,可听到大鼓(bherī)、paṇava鼓、法螺和mṛdaṅga鼓的声响。
3.160.21
इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः ।
न कार्या वः कथंचित्स्यात्तत्राभिगमने मतिः ॥ ३.१६०.२१ ॥
诸位薄罗多的雄牛啊,留在此处的人应当听闻这一切;你们无论如何都不应产生前往那里的念头。
3.160.22
न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः ।
विहारस्तत्र देवानाममानुषगतिस्तु सा ॥ ३.१६०.२२ ॥
薄罗多的诸位最杰出者啊,从此处再往前已不可能行走;那里是诸神的游乐之地,不是人类能够到达的去处。
3.160.23
ईषच्चपलकर्माणं मनुष्यमिह भारत ।
द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः ॥ ३.१६०.२३ ॥
婆罗多啊,若有人在此稍有轻率妄动之举,一切众生都会憎恶他,罗刹也会打击他。
3.160.24
अस्यातिक्रम्य शिखरं कैलासस्य युधिष्ठिर ।
गतिः परमसिद्धानां देवर्षीणां प्रकाशते ॥ ३.१६०.२४ ॥
坚战啊,越过这座凯拉萨山峰之后,最圆满成就的天仙之道便显现出来。
3.160.25
चापलाद्धि न गन्तव्यं पार्त यानैस्ततः परम् ।
अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन ॥ ३.१६०.२५ ॥
阿周那啊,不应因轻率而乘车再往前去;罗刹以铁矛等武器攻击,啊,敌人的摧毁者。
3.160.26
अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः ।
इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते ॥ ३.१६०.२६ ॥
被天女环绕,光辉盛大的人乘者毗沙门(俱毗罗)在此处,亲爱的,在山峰的交接处可见。
3.160.27
शिखरे तं समासीनमधिपं यक्षरक्षसाम् ।
प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् ॥ ३.१६०.२७ ॥
端坐峰顶的夜叉与罗刹之主,为一切众生所瞻仰,如同升起的太阳。
3.160.28
देवदानवसिद्धानां तथा वैश्रवणस्य च ।
गिरेः शिखरमुद्यानमिदं भरतसत्तम ॥ ३.१६०.२८ ॥
此山峰是天神、檀那婆、悉陀以及毗沙门的游苑,婆罗多中最优秀者啊。
3.160.29
उपासीनस्य धनदं तुम्बुरोः पर्वसन्धिषु ।
गीतसामस्वनस्तात श्रूयते गन्धमादने ॥ ३.१६०.२९ ॥
侍奉财神(俱毗罗)的敦步卢的歌声与娑摩诵唱之声,亲爱的,在山峰的交接处的乾陀摩陀那山上可闻。
3.160.30
एतदेवंविधं चित्रमिह तात युधिष्ठिर ।
प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसन्धिषु ॥ ३.१६०.३० ॥
亲爱的坚战啊,此处有如此奇观;一切众生在山峰的交接处多次瞻仰它。
3.160.31
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च ।
वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनात् ॥ ३.१६०.३१ ॥
般度之子中最优秀者啊,食用适合仙人的美味果实,在此居住,直到见到阿周那。
3.160.32
न तात चपलैर्भाव्यमिह प्राप्तैः कथंचन ।
चपलः सर्वभूतानां द्वेष्यो भवति मानवः ॥ ३.१६०.३२ ॥
孩子啊,来到此处的人绝不可心神浮动;心神浮动的人会被一切众生所憎恶。
3.160.33
उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च ।
ततः शस्त्रजितां श्रेष्ठ पृथिवीं पालयिष्यसि ॥ ३.१६०.३३ ॥
在此依你所愿居住,依你的信心游历之后,最优秀者啊,你将统治以武力征服的大地。