Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.166

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.166.1

ततः कदाचिद्धरिसंप्रयुक्तं ।
महेन्द्रवाहं सहसोपयातम्।
विद्युत्प्रभं प्रेक्ष्य महारथानां ।
हर्षोऽर्जुनं चिन्तयतां बभूव ॥ ३.१६६.१ ॥

其后某时,因陀罗的车驾由骏马牵引突然来临;众大车将见其光如闪电,心中想着阿周那,遂生欢喜。

3.166.2

स दीप्यमानः सहसाऽन्तरिक्षं ।
प्रकाशयन्मातलिसंगृहीतः।
बभौ महोल्केव घनान्तरस्था ।
शिखेव चाग्नेर्ज्वलिता विधूमा ॥ ३.१६६.२ ॥

他光芒闪耀,突然照亮天空,由摩多利扶持,宛如云间的大流星,又如无烟的火焰之舌。

3.166.3

तमास्थितः संददृशे किरीटी ।
स्रग्वी नवान्याभरणानि बिभ्रत्।
धनंजयो वज्रधरप्रभावः ।
श्रिया ज्वलन्पर्वतमाजगाम् ॥ ३.१६६.३ ॥

坐于其上的,是戴冠的、佩戴花环、身着新饰的达难阁耶,其威力如持金刚者;他光辉灿烂地来到山前。

3.166.4

स शैलमासाद्य किरीटमाली ।
महेन्द्रवाहादवरुह्य तस्मात्।
धौम्यस्य पादावभिवाद्य पूर्व-
मजातशत्रोस्तदनन्तरं च ॥ ३.१६६.४ ॥

他到达山前,戴冠佩花环,从因陀罗的车驾下来,先向达由耶的双足致敬,随后又向阿阇多设多路(坚战)的双足致敬。

3.166.5

वृकोदरस्यापि च वन्द्य पादौ ।
माद्रीसुताभ्यामभिवादितश्च।
समेत्य कृष्णां परिसान्त्व्य चैनां ।
प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ॥ ३.१६६.५ ॥

他又向可敬的狼腹(毗摩)双足致敬;受到摩德利二子的问候;与黑天女(德劳帕蒂)相见并加以安慰后,在僻静处谦恭地向兄长俯身致意。

3.166.6

बभूव तेषां परमः प्रहर्ष-
स्तेनाप्रमेयेण समेत्य तत्र।
स चापि तान्प्रेक्ष्य किरीटमाली ।
ननन्द राजानमभिप्रशंसन् ॥ ३.१६६.६ ॥

在那里与那位无量者相遇,他们众人都生起了至高的喜悦。冠饰花环者(阿周那)见到他们,也一边赞扬国王一边欢喜。

3.166.7

यमास्थितः सप्त जघान पूगान् ।
दितेः सुतानां नमुचेर्निहन्ता।
तमिन्द्रवाहं समुपेत्य पार्थाः ।
प्रदक्षिणं चक्रुरदीनसत्वाः ॥ ३.१६६.७ ॥

众Pārtha们心志不屈,走近因陀罗之乘骑——那位杀死七群、狄提之子与那牟赤者的神驾,绕之而行右旋礼。

3.166.8

ते मातलेश्चक्रुरतीव हृष्टाः ।
सत्कारमग्र्यं सुरराजतुल्यम्।
सर्वं यथावच्च दिवौकसङ्घं ।
पप्रच्युरेनं कुरुराजपुत्राः ॥ ३.१६६.८ ॥

他们极为欢喜,以与天王相等的至上礼敬款待摩多梨;俱卢王之子们也依礼向他询问天界诸众的情况。

3.166.9

तानप्यसौ मातलिरभ्यनन्द-
त्पितेव पुत्राननुशिष्य पार्थान्।
ययौ रथेनाप्रतिमप्रभेण ।
पुनः सकाशं त्रिदिवेश्वरस्य ॥ ३.१६६.९ ॥

他也像父亲称赞儿子那样嘉许他们;训导了Pṛthā之子之后,他乘着无与伦比光辉的战车回到了三天之主的面前。

3.166.10

गते तु तस्मिन्वरदेववाहे ।
शक्रात्मजः सर्वरिपुप्रमाथी।
साक्षात्सहस्राक्ष इव प्रतीतः ।
श्रीमान्स्वदेहादवमुच्य जिष्णुः ॥ ३.१६६.१० ॥

那乘殊胜天驾离去之后,帝释之子、摧伏一切敌人的光辉胜者(阿周那),宛如千眼之神,从自己身上卸下了(铠甲)。

3.166.11

शक्रेण दत्तानिददौ महात्मा ।
महाधनान्युत्तमरूपवन्ति।
दिवाकराभाणि विभूषणानि ।
प्रीतः प्रियायै सुतसोममात्रे ॥ ३.१६६.११ ॥

这位大德之人心中欢喜,将因陀罗所赐的贵重财物与形制优美、如太阳般闪耀的饰物,赠予他所爱之人,即苏摩之子的母亲。

3.166.12

ततऋः स तेषां कुरुपुङ्गवानां ।
तेषां च सूर्याग्निसमप्रभाणाम्।
विप्रर्षभाणामुपविश्य मध्ये ।
सर्वं यथावत्कथयांबभूव ॥ ३.१६६.१२ ॥

随后,他坐在那些俱卢族的雄牛和那些光辉如日火的婆罗门雄牛之中,将一切如实地讲述出来。

3.166.13

एवं मयाऽस्त्राण्युपशिक्षितानि ।
शक्राच्च वायोश्च शिवाच्च साक्षात्।
तथैव शीलेन समाधिना च ।
प्रीताः सुरा मे सहिताः सहेन्द्राः ॥ ३.१६६.१३ ॥

我就这样直接从因陀罗、伐由和湿婆处学得了武器;同样,因我的品行与禅定,包括因陀罗在内的诸天神都对我心生欢喜。

3.166.14

संक्षेपतो वै स विशुद्धकर्मा ।
तेभ्यः समाख्याय दिवःप्रवेशम्।
माद्रीसुताभ्यां सहितः किरीटी ।
सुष्वाप तामावसतिं प्रतीतः ॥ ३.१६६.१४ ॥

他简要地向他们讲述了自己升天的经过;随后,行为纯净的吉利特,心满意足地与玛德丽的两个儿子一同在那住处入睡。