Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.167

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.167.1

ततो रजन्यां व्युष्टायां धर्मराजं युधिष्ठिरम् ।
भ्रातृभिः सहितः सर्वैरवन्दत धनंजयः ॥ ३.१६७.१ ॥

此后夜尽天明,财主(阿周那)与众兄弟一同向法王坚战行礼。

3.167.2

एतस्मिन्नेव काले तु सर्ववादित्रनिःखनः ।
बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् ॥ ३.१६७.२ ॥

就在那时,天空中响起了天界众生所有乐器的喧天之声。

3.167.3

रथनेमिखनश्चैव घण्टाशब्दश्च भारत ।
पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः ॥ ३.१६७.३ ॥

婆罗多之子啊,四处传来战车轮的隆隆声与铃声,还有各种猛兽和飞禽的鸣叫。

3.167.4

रवोन्मुखास्ते ददृशुः प्रीयमाणाः कुरूद्वह ।
मरुद्भिरन्वितं शक्रमापतन्तं विहायसा ॥ ३.१६७.४ ॥

他们转向那声音,欢喜地望去——因陀罗在诸风神(摩录多)的陪同下,正从空中降下。

3.167.5

ते समन्तादनुययुर्गन्धर्वाप्सरसस्तथा ।
विमानैः सूर्यसंकाशैर्देवराजमरिंदमम् ॥ ३.१६७.५ ॥

乾闼婆与阿普萨拉乘坐如太阳般辉煌的天车,从四面八方跟随天王因陀罗——那位制伏敌人者。

3.167.6

ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम् ।
मेघनादिनमारुह्य श्रिया परमया ज्वलन् ॥ ३.१६७.६ ॥

于是他登上由黄褐色骏马驾驶、饰以黄金、如云雷般轰鸣的战车,以无上的光辉熠熠生辉。

3.167.7

पार्थानभ्याजपामाशु देवराजः पुरंदरः ।
आगत्य च सहस्राक्षो रथादवरुरोह वै ॥ ३.१६७.७ ॥

诸神之王补兰达罗迅速走近普利塔之子们;千眼因陀罗到来后,从战车上下来。

3.167.8

तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः ।
भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् ॥ ३.१६७.८ ॥

法王坚战见到这位大德者,光彩照人,与诸弟一同来到天王面前。

3.167.9

पूजयामास चैवाथ विधिवद्भूरिदक्षिणः ।
यथार्हममितात्मानं विधिदृष्टेन कर्मणा ॥ ३.१६७.९ ॥

于是这位施舍丰厚者,依照规定,按照应有的礼数,以规定的仪式供养了这位无量自我者。

3.167.10

धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम् ।
भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः ॥ ३.१६७.१० ॥

光辉的财主(阿周那)向补兰达罗顶礼,如仆人般恭敬低首,站在天王身旁。

3.167.11

आघ्राय तं महातेजाः कुन्तीपुत्रो युधिष्ठिरः ।
धनंजयभिप्रेक्ष्यविनीतं स्थितमन्तिके ॥ ३.१६७.११ ॥

光辉的昆提之子坚战拥抱了他,看见近旁谦恭站立的财主……

3.167.12

जटिलं देवराजस्य तपोयुक्तमकल्मषम् ।
हर्षेण महताऽऽविष्टः फल्गुनस्याथ दर्शनात्।
बभूव परमप्रीतो देवराजं च पूजयन् ॥ ३.१६७.१२ ॥

看见天王那蓬头、具有苦行、无瑕的形象,又因见到法尔古那(阿周那)而充满极大的喜悦,坚战极为欢喜,并继续供养天王。

3.167.13

तं तथाऽदीनमनसं राजानं हर्संप्लुतम् ।
उवाच वचनं धीमान्धर्मराजं पुरंदरः ॥ ३.१६७.१३ ॥

这位心不动摇、充满喜悦的国王,睿智的补兰陀罗(因陀罗)对法王说了这些话。

3.167.14

त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव ।
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम् ॥ ३.१६७.१४ ॥

你,国王,般度之子,将统治这片大地。贡蒂之子啊,愿你得享安康,再回到甘蒂亚克苦行林去吧。

3.167.15

अस्त्राणि लब्धानि च पाण्डवेन ।
सर्वाणि मत्तः प्रयतेन राजन्।
कृतप्रियश्चास्मि धनंजयेन ।
जेतुं न शक्यस्त्रिभिरेष लोकैः ॥ ३.१६७.१५ ॥

国王啊,般度之子以虔诚从我这里获得了所有武器。我因持财者(阿周那)而心满意足;这人连三界也无法战胜。

3.167.16

एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम् ।
जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः ॥ ३.१६७.१६ ॥

说完这些话,千眼因陀罗欣然离开,前往天界,受到大仙们的赞颂,留下贡蒂之子坚战。

3.167.17

धनेश्वरगृहस्थानां पाण्डवानां समागमम् ।
शक्रेण य इदं विद्वानधीयीत समाहितः ॥ ३.१६७.१७ ॥

住在财神宫中的般度五子与帝释天的会面,凡智者以专注之心研习此事者,

3.167.18

संवत्सरं ब्रह्मचारी नियतः संशितव्रतः ।
स जीवेद्धि निराबाधः सुसुखी शरदां शतम् ॥ ३.१६७.१८ ॥

若有人一年间守梵行、自制、坚守誓愿,他必能无患、极为安乐地活满一百个秋天。