摩诃婆罗多 · 章 3.170
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.170.1
कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः ।
रसंस्पृश्य मूर्ध्नि पाणिब्यामिदं वचनमब्रवीत् ॥ ३.१७०.१ ॥
于是持金翅者(因陀罗)双手触摸我的头顶,对已通晓武艺、十分安心的我说了这些话。
3.170.2
न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि ।
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ॥ ३.१७०.२ ॥
今日于战斗中,即使众天神也无法战胜你;何况在人间世界,那些心性未修的凡人呢?
3.170.3
अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा ।
अजेयस्त्वं हि सङ्ग्रामे सर्वैरपिसुरासुरैः ॥ ३.१७०.३ ॥
你不可限量、不可抵挡,在战斗中无人能及;在战争中,即使一切天神与阿修罗也无法战胜你。
3.170.4
अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः ।
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ॥ ३.१७०.४ ॥
那时,天神喜得毛发竖起,又说道:英雄啊,在武器之战中,将无人能与你相比。
3.170.5
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः ।
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ॥ ३.१७०.५ ॥
你始终警觉、精干、诚实,制伏诸根;敬奉婆罗门,通晓武器,也是勇士,啊,俱卢族中的俊杰。
3.170.6
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च ।
पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः ॥ ३.१७०.६ ॥
你以五种方法获得了十五种武器;啊,普利塔之子,无人能与你相比。
3.170.7
प्रयोगमुपसंहारमावृत्तिं च धनञ्जय ।
प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः ॥ ३.१७०.७ ॥
达那贾亚啊,你完全知晓兵器的运用、收回、重复、赎罪与反制。
3.170.8
तव गुर्वर्थकालोऽयं समुत्पन्नः परंतप ।
प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम् ॥ ३.१७०.८ ॥
降敌者啊,为你师父效力之时已到。你应许下此事,我便将知晓至上之道。
3.170.9
ततोऽहमब्रवं राजन्देवराजमिदं वचः ।
विषह्यं यन्मया कर्तुं कृतमेव निबोध तत् ॥ ३.१७०.९ ॥
于是我对众神之王说道:王啊,凡我能做之事,你当知已经完成了。
3.170.10
ततो मामब्रवीद्राजन्प्रहसन्बलवृत्रहा ।
नाविपह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन ॥ ३.१७०.१० ॥
于是杀死强大弗栗多者笑着对我说,王啊:今日,三界之中对你而言没有任何事是难以承受的。
3.170.11
निवातकवचा नाम दानवा मम शत्रवः ।
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ॥ ३.१७०.११ ॥
名为尼瓦塔卡瓦恰的檀那婆,我的敌人,依托海洋深处的堡垒而居。
3.170.12
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः ।
तांस्तत्रजहि कौन्तेय गुर्वर्थस्ते भविष्यति ॥ ३.१७०.१२ ॥
据说他们共有三千万,形貌、力量与光辉皆相同。昆蒂之子啊,就在那里将他们杀死,你师父的使命便将成就。
3.170.13
ततो मातलिसंयुक्तं मयूरसमरोमभिः ।
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ॥ ३.१७०.१३ ॥
随后,他把与摩多利相随、由毛色如孔雀羽毛的马驾驭、光辉极盛的神圣战车赠给了我。
3.170.14
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् ।
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ॥ ३.१७०.१४ ॥
他把这顶上好的宝冠戴在我的头上,又赠予与我的体形相称的身饰。
3.170.15
अभेद्यं कवचं चेदं स्पर्सरूपवदुत्तमम् ।
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ॥ ३.१७०.१५ ॥
这件不可穿透、形体可触的上好铠甲,以及这根不老的弓弦,他都装在了甘狄拔弓上。
3.170.16
ततः प्रायामहं तेन स्यन्दनेन विराजता ।
येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ॥ ३.१७०.१६ ॥
随后,我乘着那辆光辉的战车出发了,昔日天神之主正是乘此车战胜了毗卢遮那之子钵利。
3.170.17
ततो देवाः सर्व एव तेन घोषेण बोधिताः ।
मन्वाना देवराजं मां समाजग्मुर्विशांपते ॥ ३.१७०.१७ ॥
于是,所有天神被那声响惊醒,把我当作天神之王,都聚集到我的身边,啊,人主。
3.170.18
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन ।
तानब्रुवं यथाभूतमिदं कर्ताऽस्मि संयुगे ॥ ३.१७०.१८ ॥
他们见到我,便问道:“法尔古那,你要做什么?”我便如实地告诉他们,我将在战斗中做这件事。
3.170.19
निवातकवचानां तु प्रस्थितं मां तधैपिणम् ।
निबोधत महाभागा शिवं चाशास्त मेऽनघाः ॥ ३.१७०.१९ ॥
我向尼瓦塔卡瓦恰人出征之时,诸位大福者、无罪者,请听:他们为我祝愿吉祥。
3.170.20
ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते ।
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम् ॥ ३.१७०.२० ॥
于是,大地之主啊,诸天欢喜,以赞美之言称颂我,如同称颂天神补罗陀罗(因陀罗)一般。
3.170.21
रथेनानेन मघवा जितवाञ्शम्बरं युधि ।
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ॥ ३.१७०.२१ ॥
摩ghavān(因陀罗)便乘此车,在战斗中战胜了商伯罗、那母枢、拔罗、弗栗多,以及钵罗诃罗陀与那罗迦。
3.170.22
बहूनि च सहस्राणि प्रयुतान्यर्बुदान्यपि ।
रथेनानेन दैत्यानां जितवान्मघवा युधि ॥ ३.१७०.२२ ॥
摩ghavān(因陀罗)又以此车,在战斗中战胜了成千上万、百万乃至亿万的达伊提亚。
3.170.23
न्वमप्यनेन कौन्तेय निबातकवचान्रणे ।
विजेता युधि विक्रम्य पुरेव मघवा वशी ॥ ३.१७०.२३ ॥
鸠蒂之子啊,你也将借此在战斗中以勇力战胜尼瓦塔卡瓦恰人,正如往昔自制的摩ghavān(因陀罗)获胜一般。
3.170.24
अयंच शङ्खप्रवरो येन जेतासि दानवान् ।
अनेन विजिता लोका शक्रेणापि महात्मना ॥ ३.१७०.२४ ॥
还有这枚最上等的螺号——你将借它战胜檀那婆;大德的释迦(因陀罗)也正是借它征服了诸界。
3.170.25
प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम् ।
प्रत्यगृह्णां जयायैनं स्तूयमानस्तदाऽमरैः ॥ ३.१७०.२५ ॥
当诸神赠予之时,我为获胜而接受了那生于水中的天授螺号,当时众不死者赞颂着我。
3.170.26
स शङ्खी कवची वाणी प्रगृहीतशरासनः ।
दानवालयमत्युग्रं प्रयातोस्मि युयुत्सया ॥ ३.१७०.२६ ॥
我手持螺号,身披甲胄,携箭执弓,怀着战斗的渴望,向达那婆们最为可怖的居所出发。