摩诃婆罗多 · 章 3.173
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.173.1
ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः ।
नगमात्रैः शिलाखण्डैस्तन्मां दृढमपीडयत् ॥ ३.१७३.१ ॥
此时四面八方降下巨大的石雨,如山般的石块猛烈地压迫着我。
3.173.2
तदहं वज्रसंकाशैः शरैरिनद्रास्त्रचोदितैः ।
अचूर्णयं वेगवद्भिः शतधैकैकमाहवे ॥ ३.१७३.२ ॥
于是我以如金刚般、被因陀罗神箭驱动的迅疾箭矢,在战斗中将每一块石头都击碎成百片。
3.173.3
चूर्ण्यमानेऽश्मवर्षे तु यावकः समजायत ।
तत्राश्मचूर्णा न्यपतन्पावकप्रकरा इव ॥ ३.१७३.३ ॥
石雨被粉碎时,升起一片红色的尘埃,石屑落下如同堆堆火焰。
3.173.4
ततोऽश्मवर्षे विहते जलवर्षं महत्तरम् ।
धाराभिरक्षमात्राभिः प्रादुरासीनममान्तिके ॥ ३.१७३.४ ॥
石雨被摧毁之后,近处出现了更大的水雨,水流粗如车轴。
3.173.5
नभस प्रच्युता धारास्तिग्मवीर्याः सहस्रशः ।
आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा ॥ ३.१७३.५ ॥
天空中成千上万股猛烈的水流落下,四面八方遮蔽了天空、四方和四隅。
3.173.6
धाराणां च निपातेन वायोर्विष्फूर्जितेन च ।
गर्जितेन च मेघानां न प्राज्ञायत किंचन ॥ ३.१७३.६ ॥
水流的倾泻、狂风的咆哮和云层的雷鸣,使人什么也辨认不出。
3.173.7
धारा दिवि च संबद्धा वसुधायां च सर्वशः ।
व्यामोहयन्त मां तत्रनिपतन्त्योऽनिशं भुवि ॥ ३.१७३.७ ॥
天空与大地各处相连的水流在那里不停地落下,使我迷惑。
3.173.8
तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् ।
दीप्तं प्राहिणवं घोरमशुप्यत्तेन तज्जलम् ॥ ३.१७३.८ ॥
我发出因陀罗所传授的、炽烈而可怕的神圣干燥神箭,那水便因此干涸了。
3.173.9
हतेऽश्मवर्षे च मया जलवर्षे च शोषिते ।
मुमुचुर्दानवा मायामग्निं वायुं च भारत ॥ ३.१७३.९ ॥
当我摧毁了石雨、使水雨干涸后,婆罗多啊,檀那婆们便释放了幻术、火与风。
3.173.10
ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः ।
शैलेन च महास्त्रेण वायोरवेगमधारयम् ॥ ३.१७३.१० ॥
于是我以水箭将火完全驱散,并以大神箭山箭遏制了风的冲势。
3.173.11
तस्यां प्रतिहतायां ते दानवा युद्धदुर्मदाः ।
प्राकुर्वन्विविधां मायां यौगपद्येन भारत ॥ ३.१७३.११ ॥
当那被击退时,因战斗而沉醉的檀那婆们同时制造了种种幻术,婆罗多啊。
3.173.12
ततो वर्षं प्रादुरभूत्सुमहद्रोमहर्षणम् ।
अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाऽश्मनाम् ॥ ३.१७३.१२ ॥
于是出现了一场极大的、令人毛骨悚然的骤雨,由形状可怖的火、风与石之神箭构成。
3.173.13
सा तु मायामयी वृष्टिः पीडयामास मां युधि ।
अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः ॥ ३.१७३.१३ ॥
那由幻术构成的暴雨在战斗中折磨我。随后四面八方升起了可怖而浓重的黑暗。
3.173.14
तमसा संवृतेलोके घोरेण परुषेण च ।
हरयो विमुखाश्चासन्प्रास्खलच्चापि मातलिः ॥ ३.१७३.१४ ॥
世界被可怖而严酷的黑暗笼罩,马匹转身而去,连摩多梨也踉跄失足。
3.173.15
हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि ।
असकृच्चाह मां भीतः किं करिष्याव इत्यपि ॥ ३.१७३.१५ ॥
他手中的金制鞭子掉落在地。他惊恐地一再问我:“我们该怎么办?”
3.173.16
मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि ।
स च मां विगतज्ञानः संत्रस्तमिदमब्रवीत् ॥ ३.१७३.१६ ॥
剧烈的恐惧侵入了神志已失的他,也侵入了我。失去理智的他惊恐地对我说了这番话。
3.173.17
सुराणामसुराणां च संग्रामः सुमहानभूत् ।
अमृतार्थं पुरा पार्त स च दृष्टो मयाऽनघ ॥ ३.१७३.१७ ॥
往昔,诸神与阿修罗为了甘露发生了一场极大的战争。哦,无罪者,我曾亲眼见过它。
3.173.18
शम्बरस्य वधे घोरः संग्रामः सुमहानभूत् ।
सारथ्यं देवराजस्य तत्रापि कृतवानहम् ॥ ३.१७३.१८ ॥
在杀死商波罗的战斗中,发生了一场可怖而极大的战争;我也曾在那里为天王担任御者。
3.173.19
तथैव वृत्रस्य वधे संगृहीता हया मया ।
वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् ॥ ३.१७३.१९ ॥
同样,在杀戮弗栗多时我控制了马匹,我也目睹了与毗卢遮那(钵利)之间最为惨烈的战斗。
3.173.20
एते मया महाघोरः संग्रामाः पर्युपासिताः ।
न चापि विगतज्ञानो भूतपूर्वोस्मि पाण्डव ॥ ३.१७३.२० ॥
这些惨烈的战斗我都曾目睹并参与其中;般度之子啊,我先前从未丧失过智慧。
3.173.21
पितामहेन संहारः प्रजानां विहितो ध्रुवम् ।
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात् ॥ ३.१७३.२१ ॥
的确,祖父(梵天)已定下众生的毁灭;除非导致世界的毁灭,这场战斗并不适宜。
3.173.22
तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना ।
मोहयिष्यन्दानवानामहं मायाबलं महत् ॥ ३.१७३.२२ ॥
听了他的这些话,我以自身的力量镇定自己,将运用我伟大的幻术之力去迷惑檀那婆。
3.173.23
अब्रुवं मातलिं भीतं पश्य मे बुजयोर्बलम् ।
अस्त्राणां च प्रभावं वै धनुषो गाण्डिवस्य च ॥ ३.१७३.२३ ॥
我对惊恐的摩多利说:看我双臂的力量、神兵的威力,以及甘狄拔弓的威力吧。
3.173.24
अद्यास्त्रमाययैतैषां मायामेतां सुदारुणाम् ।
विनिहन्मि तमश्चोग्रं मा भैः सूत स्तिरो भव ॥ ३.१७३.२४ ॥
现在我将以兵器的幻术摧毁他们这极其可怖的幻术与猛烈的黑暗;不要害怕,御者,退到一边去。
3.173.25
एवमुक्त्वाहमसृजमस्त्रमायां नराधिप ।
मोहनीं सर्वभूतानां हिताय त्रिदिवौकसाम् ॥ ३.१७३.२५ ॥
如此说罢,人主啊,我释放了迷惑一切众生的神兵幻术,以利益三界的居民。
3.173.26
पीड्यमानासु मायासु तासु तास्वसुरोत्तमाः ।
पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः ॥ ३.१७३.२६ ॥
那些幻术被摧破之时,那些无量威力的阿修罗上首又复化出种种幻术。
3.173.27
पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः ।
भवत्यदर्शनो लोकः पुनरप्सु निमज्जति ॥ ३.१७३.२७ ॥
又再光明,又被黑暗所吞;世界又变得不可见,又沉没于水中。
3.173.28
सुसंगृहीतैर्हरिभिः प्रकाशे सति मातलिः ।
व्यचरत्स्यन्दनाग्र्येण संग्रामे रोमहर्षणे ॥ ३.१७३.२८ ॥
光明再现时,摩多利以驾驭得当的骏马,在令人毛发竖立的战斗中,驾着上好的战车往来驰骋。
3.173.29
ततः पर्यपतन्नुग्रा निवातकवचा मयि ।
तानहं विवरं दृष्ट्वा प्राहण्वं यमसादनम् ॥ ३.१७३.२९ ॥
于是凶猛的尼婆多迦婆迦(Nivātakavacas)向我扑来;我见其中有隙,便出击,要将他们送往阎摩之所。
3.173.30
वर्तमाने तथा युद्धे निवातकवचान्तके ।
नापश्यं सहसा सर्वान्दानवान्मायया वृतान् ॥ ३.१७३.३० ॥
战斗如此进行之际,在尼婆多迦婆迦被诛灭之时,我忽然没有看见那些被幻术所遮蔽的檀那婆。