Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.174

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.174.1

अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया ।
अदृश्यनास्त्रवीर्येण तानप्यहमयोधयम् ॥ ३.१७४.१ ॥

那些达extya隐身,以幻术与我作战;我也以隐形兵器之力与之交战。

3.174.2

गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः ।
अच्छिन्दन्नुत्तमाङ्गानि यत्रयत्र स्म तेऽभवन् ॥ ३.१७४.२ ॥

从甘狄拔弓射出的箭,经由兵器咒语正确驱动,无论敌人身在何处,都斩下了他们的头颅。

3.174.3

ततो निवातकवचा वध्यमाना मया युधि ।
संहृत्य रमायां सहसा प्राविशन्पुरमात्मनः ॥ ३.१७४.३ ॥

于是,尼婆多迦婆者在战场上被我射杀,他们收拢队伍,突然进入了他们在罗摩地区的城市。

3.174.4

व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने ।
अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ॥ ३.१७४.४ ॥

当达extya们撤退、视线重新清晰时,我看见那里有成百上千的檀那婆被杀死。

3.174.5

विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च ।
शतशः स्म प्रदृश्यन्ते गात्राणि कवचानि च ॥ ३.१७४.५ ॥

那里他们的兵器和饰物都被砸得粉碎,成百上千的尸体与铠甲随处可见。

3.174.6

हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् ।
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः ॥ ३.१७४.६ ॥

马匹连挪动一步的空间都没有;随后它们突然跃起,像能在空中行走的生灵一样立定。

3.174.7

ततो निवातकवचा व्योम संछाद्य केवलम् ।
अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् ॥ ३.१७४.७ ॥

于是尼婆多迦婆诸魔遮蔽整个天空,隐形地向我逼近,投掷堆积如山的岩石。

3.174.8

अन्तर्भूमिगताश्चान्ये हयानां चरणानथ ।
व्यगृह्णन्दानवा घोरा रथचक्रे च भारत ॥ ३.१७४.८ ॥

其余的人潜入地下,抓住了马的蹄足;可怕的檀那婆们又抓住了战车的轮子,婆罗多啊。

3.174.9

विनिगृह्य हयांश्चान्ये रथं च मम युध्यतः ।
सर्वतो मामविध्यन्त सरथं धरणीधरैः ॥ ३.१७४.९ ॥

其他人在我作战时制住了马和我的战车,从四面用山岳将我连同战车打击。

3.174.10

पर्वतैरुपचीयद्भिः पतद्भिश्च तथाऽपरैः ।
स देशो यत्रवर्तामि गुहेव समपद्यत ॥ ३.१७४.१० ॥

由于山岳不断堆积坍落,以及其他物件,我所在回旋的那片地方变得如同洞穴一般。

3.174.11

पर्वतैश्चाद्यमानोऽहं निगृहीतैश्च वाजिभिः ।
अगच्छं परमामार्तिं मातलिस्तदलक्षयत् ॥ ३.१७४.११ ॥

我被山岳打击,又被制住的马所困,陷入极大的苦难之中;摩多利看到了这一切。

3.174.12

लक्षयित्वा च मां भीतमिदं वचनमब्रवीत् ।
आर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय ॥ ३.१७४.१२ ॥

他看见我恐惧,便说了这些话:"阿周那,阿周那,不要害怕!发射金刚之箭吧。"

3.174.13

ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् ।
देवराजस् दयितं वज्रमस्त्रं नराधिप ॥ ३.१७४.१३ ॥

于是我听了他的话,便发出了因陀罗——诸天之王所钟爱的霹雳神箭,人主啊。

3.174.14

अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च ।
अमुञ्चं वज्रसंस्पर्शानायतान्निशिताञ्सरान् ॥ ३.१७४.१४ ॥

我到达不动之处,以咒语加持甘狄拔弓,发出了带有霹雳之力、拉满的锐利箭矢。

3.174.15

ततो मायाश् ताः सर्वा निवातकवचांश्च तान् ।
ते वज्रचोदिता बाणा वज्रभूताः रसमाविशन् ॥ ३.१७४.१५ ॥

于是,那些由霹雳驱动的箭化作霹雳,进入了所有那些幻术与尼婆多迦婆查。

3.174.16

ते वज्रवेगविहता दानवाः पर्वतोपमाः ।
इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ॥ ३.१७४.१६ ॥

那些被霹雳之速击中、如山一般的檀那婆,彼此紧抱,倒在大地之上。

3.174.17

अन्तर्भूमौ च येऽगृह्णन्दानवा रथवाजिनः ।
अनुप्रविश्य तान्वाणाः प्राहिण्वन्यमसादनम् ॥ ३.१७४.१७ ॥

箭矢进入了那些连同战车与马匹藏于地下的檀那婆之中,将他们送往阎摩的住所。

3.174.18

हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः ।
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ॥ ३.१७४.१८ ॥

那片地方被被杀倒下的、如山一般的尼婆多迦婆查覆盖,仿佛被散落的群山覆盖。

3.174.19

न हयानां क्षतिः काचिन्न रथस् न मातलेः ।
मम चादृश्यत तदा तदद्भुतमिवाभवत् ॥ ३.१७४.१९ ॥

马匹、战车和摩多梨都没有受到任何损伤;那时我也什么都看不见;那情形仿佛奇迹一般。

3.174.20

ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत ।
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते ॥ ३.१७४.२० ॥

于是,大王,摩多梨笑着对我说:阿周那,你的威力在诸神之中并不是这样显现的。

3.174.21

हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः ।
प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ॥ ३.१७४.२१ ॥

阿修罗之众被杀之后,他们所有的妻子都在那座城里哭喊,如同秋天的鹤鸣。

3.174.22

ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् ।
त्रासयन्रथघोषेण निवातकवचस्त्रियः ॥ ३.१७४.२२ ॥

于是我与摩多梨一同向那座城进发,以战车的轰鸣惊吓尼瓦塔卡瓦恰的妇女们。

3.174.23

तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् ।
रथं च रविसंकाशं प्राद्रवन्गणशः स्त्रियः ॥ ३.१७४.२३ ॥

她们看见一万匹如孔雀般的马和如太阳般光辉的战车,便成群地逃散了。

3.174.24

ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः ।
शिलानामिव शैलेषु पतन्तीनामभूत्तदा ॥ ३.१७४.२४ ॥

那些受惊女子的饰物之声,在她们跌倒时被激起,那时如同石块落在山上一般。

3.174.25

वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् ।
बहुरत्नविचित्राणि शातकुम्भमयानि च ॥ ३.१७४.२५ ॥

受惊的檀那婆妇女们进入了各自的宫殿,这些宫殿镶嵌着许多宝石,并由黄金制成。

3.174.26

तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् ।
विशिष्टं देवनगरादपृच्छं मातलिं ततः ॥ ३.१७४.२६ ॥

我见到那座形态奇异、超越天神之城的殊胜城市,于是便向摩陀梨询问。

3.174.27

इदमेवंविधं कस्माद्देवता न विशन्त्युत ।
पुरंदरपुराद्धीदं विशिष्टमिति लक्षये ॥ ३.१७४.२७ ॥

如此殊胜之城,诸天为何不进入?我察觉它甚至胜过因陀罗之城。

3.174.28

आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् ।
ततो निवातकवचैरितः प्रच्याविताः सुराः ॥ ३.१७४.२८ ॥

普利塔之子啊,此城昔日是我们天王的城池;之后被尼婆多迦婆所占据,诸天因而被驱逐。

3.174.29

तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् ।
इदं वृतं निवासाय देवेभ्यश्चाभयं युधि ॥ ३.१७४.२९ ॥

他们修行了巨大而严酷的苦行,取悦了祖父梵天,选择此城作为住所,并为诸天求得战场上的安全。

3.174.30

ततः शक्रेण भगवान्स्वयंभूरभिचोदितः ।
विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ॥ ३.१७४.३० ॥

于是,在帝释的催促下,尊贵的自生者应来此处,出于利益自身的愿望,作出安排。

3.174.31

तत उक्तो भगवता दिष्टमत्रेति भारत ।
भवितान्तस्त्वमप्येषां देहेनान्येन वृत्रहन् ॥ ३.१७४.३१ ॥

于是尊者如此被请求后说:“婆罗多,此处所定之事必将实现。你,诛伐弗栗多者,也将以另一身体成为他们的终结。”

3.174.32

तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव ।
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया ॥ ३.१७४.३२ ॥

随后,帝释为诛灭他们而赐予你武器。你所杀之人,诸神是无法杀死的。

3.174.33

कालस्य परिणामेन ततस्त्वमिह भारत ।
एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा ॥ ३.१७४.३३ ॥

婆罗多,随着时间的成熟,你来到此处成为他们的终结,而这也由你如此完成。

3.174.34

दानवानां विनाशार्थं महास्त्राणां महद्बलम् ।
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ॥ ३.१७४.३४ ॥

为了消灭檀那婆,大因陀罗让你获得了那伟大兵器的伟大力量,人中之王啊,那至高的力量。

3.174.35

ततः प्रशाम्य नगरं दानवांश्च निहत्य तान् ।
पुनर्मातलिना सार्धमगमं देवसद्म तत् ॥ ३.१७४.३५ ॥

随后,我平定了城池,杀死了那些檀那婆,便与摩多利一同再次前往那天神的居所。