Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.175

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.175.1

निवर्तमानेन मया महद्दृष्टं ततोऽपरम् ।
पुरं कामगमं दिव्यं पावकार्कसमप्रभम् ॥ ३.१७५.१ ॥

我返回途中,又见到一座大城,神圣而随意而行,光辉如火与日。

3.175.2

रत्नद्रुममयैश्चित्रैर्भास्वरैश्च पतत्रिभिः ।
पौलोमैः कालकेयैश्च रनित्यहृष्टैरधिष्ठिरतम् ॥ ३.१७५.२ ॥

此城由宝树所造,满是奇妙而闪亮的飞鸟;波罗摩与迦罗刻亚族人居住其中,欢欣而喧嚣不息。

3.175.3

गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् ।
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ॥ ३.१७५.३ ॥

此城有城楼与望台,四门难以接近,全由珍宝所造,神圣而外貌奇妙。

3.175.4

द्रुमैः पुष्पलोपेतैः सर्वरत्नमयैर्वृतम् ।
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः ॥ ३.१७५.४ ॥

此城被装饰着花朵、全由珍宝所成的树木环绕,并有神圣而极为可爱的飞鸟。

3.175.5

असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ।
चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ॥ ३.१७५.५ ॥

此城常被四周欢欣的阿修罗环绕,他们持矛、枪与杵,手执弓与棍,身戴花环。

3.175.6

तदहं प्रेक्ष्यदैत्यानां पुरमद्भुतदर्शनम् ।
अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ॥ ३.१७५.६ ॥

大王啊,我见到那座阿修罗之城奇妙非凡,便问摩多梨:“这所见的是什么?”

3.175.7

पुलोमा नाम दैतेयी कालका च महासुरी ।
दिव्यंवर्षसहस्रं ते चेरतुः परमं तपः ॥ ३.१७५.७ ॥

名为普罗摩的提耶女与大阿修罗女迦拉迦,修行至高苦行一千个天年。

3.175.8

तपसोन्ते ततस्ताभ्यां स्वयंभूरददाद्वरम् ।
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् ॥ ३.१७५.८ ॥

苦行终了时,自生者赐予她们恩惠;她们接受的恩惠是让其子嗣少受苦难。

3.175.9

अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ।
पुरं सुरमणीयं च स्वचरं सुकृतप्रभम् ॥ ३.१७५.९ ॥

诸王之主啊,免受诸天、罗刹与蛇众所害,以及一座连诸天也喜爱的城市,可随意移动,因善业而光辉灿烂。

3.175.10

सर्वरत्नैः समुदितं दुर्धर्षममरैरपि ।
महर्षियक्षगन्धर्वपन्नगासुरराक्षसैः ॥ ३.१७५.१० ॥

充满一切宝物,即便诸天也难以攻克,大仙、夜叉、乾闼婆、蛇众、阿修罗与罗刹也难以战胜。

3.175.11

सर्वकामगुणोपेतं वीतशोकमनामयम् ।
ब्र्हमणो भवनाच्छ्रेष्ठं कालकेयकृतं विभो ॥ ३.१७५.११ ॥

具备一切所愿之德,无忧无病;啊,威力者,胜过梵天之宫,由迦拉刻耶人所建。

3.175.12

तदेतत्खपुरं दिव्यं चरत्यमरवर्जितम् ।
पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ॥ ३.१७५.१२ ॥

勇士啊,这便是那座天上的神圣之城,被诸天所弃而飘游,由补罗摩、迦拉刻耶与檀那婆居住。

3.175.13

हिरण्यपुरमित्येवं ख्यायते नगरं महत् ।
रक्षितंकालकेयैश्च पौलोमैश्च महासुरैः ॥ ३.१७५.१३ ॥

这座大城因此被称为黄金城(Hiraṇyapura);它由迦拉刻亚、普罗摩和大阿修罗守护。

3.175.14

त एतेमुदिता राजन्नवध्याः सर्वदैवतैः ।
निवसन्त्यत्रराजेन्द्र गतोद्वेगा निरुत्सुकाः ॥ ३.१७५.१४ ॥

大王,这些人在此欢喜,一切天神都无法杀害他们;诸王之王啊,他们无忧无虑,毫无急切地居住于此。

3.175.15

सुरासुरैरवध्यानां दानवानां धनञ्जय ।
मानुषान्मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ॥ ३.१७५.१५ ॥

德那natha啊(Dhanañjaya),这些达那婆对天神和阿修罗都不可杀害,他们的死亡由人类注定;此事是梵天往昔所定。

3.175.16

एतानपि रणे पार्त कालकेयान्दुरासदान् ।
वज्रास्त्रेण नयस्वाशु विनाशं सुमहाबलान् ॥ ३.१७५.१६ ॥

普利塔之子啊,在战场上请用金刚武器迅速将这些难以接近、极其强大的迦拉刻亚也送向毁灭。

3.175.17

सुरासुरैरवध्यं तदहं ज्ञात्वा विशांपते ।
अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ॥ ३.१७५.१७ ॥

人主啊,我知道那座城市对天神和阿修罗都不可攻破,便欢喜地对摩多梨说:“直接前往这座城。”

3.175.18

त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् ।
न कथंचिद्धि मे पापा न वध्या ये सुरद्विषः ॥ ३.१७५.१८ ॥

在我用武器把因陀罗的敌人送向毁灭之前,这些作恶的天神之敌无论如何都不会被我杀死。

3.175.19

उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् ।
रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥ ३.१७५.१९ ॥

随后,摩多利迅速将我从金城附近载走,乘坐那辆套着黄褐色骏马的神车。

3.175.20

ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः ।
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ॥ ३.१७५.२० ॥

达提耶们看见我,身披各色饰物与衣袍,披甲疾速,登上战车而起。

3.175.21

ततो नालीकनाराचैर्भल्लैः शक्त्यृष्टितोमरैः ।
प्रत्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ॥ ३.१७५.२१ ॥

于是愤怒且勇猛的檀那伐首领们以那利迦、那罗遮箭、钹剑、长矛、戟与标枪还击我。

3.175.22

तदहं शस्त्रवर्षेण महता प्रत्यवारयम् ।
शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ॥ ३.१७५.२२ ॥

于是我依凭智慧之力,大王,以另一场大的兵器雨抵挡了那场大的兵器雨。

3.175.23

व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे ।
तेऽन्योन्यमभिसंमूढाः पातयन्ति स्म दानवाः ॥ ३.१७५.२३ ॥

我在战场上沿着车道驰骋,将他们全部迷惑;那些檀那伐完全陷入迷乱,开始相互击倒。

3.175.24

तेषामेवं विमूढानामन्योन्यमभिधावताम् ।
शिरांसि विशिखैर्दीप्तैरच्छिन्दं शतसङ्घशः ॥ ३.१७५.२४ ॥

当他们这样迷乱地相互冲击时,我用炽热的箭成百上千地斩下他们的头颅。

3.175.25

ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः ।
खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ॥ ३.१७५.२५ ॥

正被杀戮的达伊提耶们再次凭依那座城,借助檀那婆的幻术,连同城池一起升入天空。

3.175.26

ततोऽहं शरवर्षेण महता कुरुनन्दन ।
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ॥ ३.१७५.२६ ॥

于是,库鲁之喜啊,我以大箭雨遮断道路,阻止了那些达伊提耶的行进。

3.175.27

तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् ।
दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ॥ ३.१७५.२७ ॥

那座神圣的、在天空飞行、随意往来、光辉如神的城池,达伊提耶们凭借所得之恩赐之力,轻松地将其托持在空中。

3.175.28

अन्तर्भूमौ निपतति पुनरूर्ध्वं प्रतिष्ठते ।
पुनस्तिर्यक् प्रयात्याशु पुनरप्सु निमज्जति ॥ ३.१७५.२८ ॥

它沉入地下,又升起并稳稳停住;忽而迅疾斜向飞去,忽而又没入水中。

3.175.29

अमरावतिसंकाशं तत्पुरं कामगं महत् ।
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णां परंतप ॥ ३.१७५.२९ ॥

那座如阿摩罗婆提般、随意往来的大城,啊,灼敌者,我以多种兵器将其制住。

3.175.30

ततोऽहं शरजालेन दिव्यास्त्रनुदितेन च ।
व्यगृह्णां सह दैतेयैस्तत्पुरं पुरुषर्षभ ॥ ३.१७५.३० ॥

于是,人中之牛啊,我以神圣兵器发出的箭网,连同达伊提耶一起制住了那座城。

3.175.31

विक्षत चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः ।
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ॥ ३.१७५.३१ ॥

被我射出的直飞铁箭所伤,大王啊,破碎的阿修罗之城坠落于大地。

3.175.32

ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः ।
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ॥ ३.१७५.३२ ॥

被我那如金刚般迅疾的铁箭射中,大王啊,那些阿修罗在命运驱使下四处游荡。

3.175.33

ततो मातलिरारुह्यपुरस्तान्निपतन्निव ।
महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ॥ ३.१७५.३३ ॥

于是摩呾利仿佛向前坠落般登上如太阳般光辉的战车,迅速降落到大地上。

3.175.34

ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् ।
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत।
तान्यहं निशितैर्बाणैर्व्यधमं गार्ध्रराजितैः ॥ ३.१७५.३४ ॥

于是那些愤怒、渴望战斗的战士的六万辆战车,转身与我交战,哦,婆罗多的后裔。我用装饰着秃鹫羽毛的利箭将它们击倒。

3.175.35

ते युद्धे संन्यवर्तन्त समुद्रस्य यथोर्मयः ।
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य तत् ॥ ३.१७५.३५ ॥

他们在战斗中如海浪般退回,心想:这些人不可能被凡人以寻常战争所战胜。

3.175.36

ततोऽहमानुपूर्व्येण दिव्यान्यस्त्राण्ययोजयम् ॥ ३.१७५.३६ ॥

于是我依次运用了神圣的武器。

3.175.37

ततस्तानि सहस्राणइ रथिनां चित्रयोधिनाम् ।
अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्छनकैरिव ॥ ३.१७५.३७ ॥

于是我的神圣兵器渐渐抵挡住了那些奇异战车武士的成千上万件兵器。

3.175.38

रथमार्गान्विचित्रांस्ते विचरन्तो महाबलाः ।
प्रत्यदृश्यन्त संग्रामे शतशोऽथ सहस्रशः ॥ ३.१७५.३८ ॥

那些在战车道上奔驰的大力勇士在战场上成百上千地出现了。

3.175.39

विचित्रमुकुटापीडा विचित्रकवचध्वजाः ।
विचित्राभरणाश्चैव मम प्रीतिकराऽभवन् ॥ ३.१७५.३९ ॥

他们戴着奇异的冠冕与头巾,披着奇异的铠甲,挂着奇异的饰物和旗幡,对我而言竟成了令人欣喜的景象。

3.175.40

अहं तुशरवर्षैस्तानस्त्रप्रचुदितै रणे ।
नाशक्रुवं पीडयितुं ते तु मां प्रत्यपीडयन् ॥ ३.१७५.४० ॥

战斗中,我以借兵器之力射出的箭雨无法压制他们,他们反而压制了我。

3.175.41

तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि ।
व्यथितोस्मि महायुद्धे भयं चागान्महन्मम ॥ ३.१७५.४१ ॥

被那许多精通武艺、技艺娴熟的勇士所困扰,我在那场大战中心神不宁,巨大的恐惧降临到我身上。

3.175.42

ततोहं परमायत्तो मातलिं परिपृष्टवान् ॥ ३.१७५.४२ ॥

于是我极为焦虑,便向御者摩多梨发问。

3.175.43

किमेते मम बाणौघैर्दिव्यास्त्रप्रतिमन्त्रितैः ।
न वध्यन्ते महाघोरैस्तत्त्वमाख्याहि पृच्छतः ॥ ३.१७५.४३ ॥

为何这些人不被我以神圣兵器加持的箭雨射杀?请告诉我那真相,我正在问你。

3.175.44

स मामुवाच पर्याप्तस्त्वमेषां भरतर्षभ ।
तानुद्दिश्याथ मर्माणि प्रतिघातं तदाचर ॥ ३.१७५.४४ ॥

他对我说:“婆罗多之牛啊,你足以对付他们。瞄准他们,打击他们的要害作出还击。”

3.175.45

एतच्छ्रुत्वा तु राजेनद्रसंप्रहृष्टस्तमूचिवान् ।
निवर्तय रथं शीघ्रं पश्य चैतान्निपातितान् ॥ ३.१७५.४५ ॥

我,诸王之王,闻此大喜,对他说:“快快调转战车,看看这些倒下的敌人。”

3.175.46

एवमुक्तो रथं तत्र मातलिः पर्यवर्तयत् ॥ ३.१७५.४६ ॥

如此吩咐之后,摩多利便在那里调转了战车。

3.175.47

ततो मत्वा रणे भग्नं दानवाः प्रतिहर्षिताः ।
विचुक्रुशुर्महाराज स्वरेण महता मुहुः ॥ ३.१७५.४७ ॥

于是,大王,danava们以为他在战中已被击溃,欢欣鼓舞,一次又一次地大声呼喊。

3.175.48

अभग्नः कैश्चिदप्येष पाण्डवो रणमूर्धनि ।
अस्माभिः समरे भग्न इत्येवं संघशस्तदा ॥ ३.१७५.४८ ॥

“这位般度之子在战场前线从未被任何人击败,而我们却在战斗中击败了他。”——当时他们成群结队地这样说。

3.175.49

ततोहं देवदेवाय रुद्रायाव्यक्तमूर्तये ।
प्रयतः प्रणतो भूत्वा नमस्कृत्य महात्मने।
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ॥ ३.१७५.४९ ॥

于是我克制自己,俯身致敬,向神中之神、形相隐而不显的楼陀罗,向这位大灵,致以礼敬;并向那名为“恐怖”、能摧毁一切敌人的神兵致敬。

3.175.50

यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् ।
महत्पाशुपतं दिव्यं सर्वलोकनमस्कृतम् ॥ ३.१७५.५० ॥

那名为“恐怖”、能摧毁一切敌人的,正是伟大的神圣帕舒帕塔神兵,为一切世界所礼敬。

3.175.51

ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् ।
त्रिमुखं षङ्भुजं दीप्तमर्कज्वलनमूर्धजम्।
लेलिहानैर्महानागैः कृतचिह्नममित्रहन् ॥ ३.१७५.५१ ॥

于是我看见一位三头九目、三面六臂、光芒炽烈、发如日火的神人,身上有吐着舌头的大蛇作为标记——噢,灭敌者啊!

3.175.52

विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् ।
दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ ॥ ३.१७५.५२ ॥

于是,我看见那可怖、凶猛、永恒的神兵,心中畏惧;噢,婆罗多中的雄牛啊,我便将它与甘狄拔弓相连,将其引出。

3.175.53

नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे ।
मुक्तवान्दानवेन्द्राणां पराभावाय भारत ॥ ३.१७५.५३ ॥

向三目、无量光辉的湿婆(沙尔瓦)致敬之后,我为击败檀那婆诸王而将它射出,噢,婆罗多!

3.175.54

मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः ।
मृगाणामथ सिंहानां व्याग्राणां च विशांपते ॥ ३.१७५.५४ ॥

箭一离弦,便从中涌现出成千上万的形象——鹿群、狮子与老虎,噢,人民之主!

3.175.55

ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् ।
शरभाणां गजानां च वानराणां च सङ्घशः।
ऋषभाणां वराहाणां मार्जाराणां तथैव च ॥ ३.१७५.५५ ॥

熊、水牛、蛇、牛、沙罗婆、象、猴、公牛、野猪和猫的群体也纷纷出现。

3.175.56

सालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः ।
गृध्राणां गरुडानां च चमराणां तथैव च ॥ ३.१७५.५६ ॥

豺狼、鬼魂、布噜达、秃鹫、迦楼罗和似牦牛的生物的群体也遍布各处。

3.175.57

देवानां च ऋषीणां रच गन्धर्वाणां च सर्वशः ।
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥ ३.१७५.५७ ॥

诸神、仙人、乾闼婆的群体遍布各处,与毗舍遮和夜叉一同出现,还有诸神的敌人阿修罗的大军。

3.175.58

गुह्यकानां च संग्रामे नैर्ऋतानां तथैव च ।
झषाणां गजवक्राणामुलूकानां तथैव च ॥ ३.१७५.५८ ॥

战斗中也出现了guhyaka和nairṛta的群体,以及鱼类、象头生物和猫头鹰的群体。

3.175.59

मीनवाजिसरूपाणां नानाशस्त्रासिपाणिनाम् ।
तथैव यातुधानानां गदामुद्गरधारिणाम् ॥ ३.१७५.५९ ॥

还出现了具有鱼形和马形的夜叉群体,手中持着各种兵器和剑,同样有手持棍棒和铁锤的罗刹群体。

3.175.60

एतैस्चान्यैश्च बहुभिर्नानारूपधरैस्तदा ।
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥ ३.१७५.६० ॥

当那件武器被发射出去时,整个世界都被这些以及许多其他各种形貌的生物所充满。

3.175.61

त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः ।
अनेकरूपसंयुक्तैर्मांसमेदोवसास्तिभिः ॥ ३.१७५.६१ ॥

三头、四獠牙、四面、四臂,具有种种形态,由肉、髓、脂和骨构成。

3.175.62

अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः ।
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः ॥ ३.१७५.६२ ॥

那些聚集于此的檀那婆,不断被如日火般光耀、如金刚与闪电般明亮的箭所射杀。

3.175.63

अद्रिसारमयैश्चान्यैर्बाणैरपि निबर्हणैः ।
न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ॥ ३.१७५.६३ ॥

又以山岳精华所制的其他摧毁之箭,婆罗多啊,我在一瞬之间便射倒了所有檀那婆。

3.175.64

गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् ।
दृष्ट्वाऽहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे ॥ ३.१७५.६४ ॥

我见他们被甘狄拔之箭射落,失去生命从空中坠下,于是再次向摧毁三城者、创造主顶礼。

3.175.65

तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान् ।
निशाम्य परमं हर्षमगमद्देवसारथिः ॥ ३.१७५.६५ ॥

见他们被可怖之箭碾碎,却仍饰以天界璎珞,诸神之御者心中充满了无上的喜悦。

3.175.66

तदसह्यं कृतं कर्म देवैरपि दुरासदम् ।
दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ॥ ३.१७५.६६ ॥

我完成了那项连诸神也难以承受、难以达成的壮举。见此,帝释天的御者摩陀梨向我致敬。

3.175.67

उचाच वचनं चेदंप्रीयमाणः कृताञ्जलिः ।
हतांस्तान्दानवान्दृष्ट्वा मया सङ्ख्ये सहस्रशः ॥ ३.१७५.६७ ॥

他欢喜地合掌说出这些话,看到我在战斗中成千上万地杀死了达那婆们。

3.175.68

सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया ।
न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः।
ध्रुवं धनञ्जय प्रीतस्त्वयि शक्रः पुरार्दन ॥ ३.१७५.६८ ॥

你所完成的事业,即使天神和阿修罗也难以承受,连天神之王在战斗中也无法做到。达那闍耶,因陀罗必定对你感到满意,毁灭城池者啊。

3.175.69

सुरासुरैरवध्यं हि पुरमेतत्खगं महत् ।
त्वया विमथितं वीर स्ववीर्यतपसो बलात् ॥ ३.१७५.६९ ॥

这座连天神与阿修罗也无法摧毁的巨大飞城,英雄啊,你凭自身的勇力与苦行之力将它粉碎了。

3.175.70

विद्वस्ते खपुरे तस्मिन्दानवेषु हतेषु च ।
विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ॥ ३.१७५.७० ॥

在你的天城中,那些达那婆被杀之后,所有女子哭喊着冲出城外。

3.175.71

प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः ।
पेतुः पुत्रान्पितृन्भ्रातॄञ्शोचमाना महीतले ॥ ३.१७५.७१ ॥

她们披头散发,痛苦悲伤,如同雌鹗一般,倒在地上为儿子、父亲和兄弟哀哭。

3.175.72

रुदत्यो दीनकण्ठ्यस्तु निनदन्त्यो हतेश्वराः ।
उरांसि पाणिभिर्घ्नन्त्यो विस्रस्तस्रग्विभूषणाः ॥ ३.१७५.७२ ॥

她们哭泣,声音凄凉,哀号着丈夫被杀,用手拍打胸膛,花环和饰物都已松脱。

3.175.73

तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम् ।
न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ॥ ३.१७५.७३ ॥

那座充满悲伤、失去光彩、被痛苦与卑微所击打的檀那婆之城不再闪耀;其光辉已消失,其主已被杀死。

3.175.74

गन्धर्वनगराकारं हृतनागमिव ह्रदम् ।
शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ॥ ३.१७५.७४ ॥

那座城变得如同乾闼婆城,如同失去蛇群的湖,如同枯树林,变得不可见。

3.175.75

मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत् ।
देवराजस्य भवनं कृतकर्माणमाहवात् ॥ ३.१७५.७५ ॥

然而御者摩偷利迅速地将心情欢悦的我,从战场带到了众神之王的宫殿,我已完成了我的功业。

3.175.76

हिरण्यपुरमुत्सृज्य निहत्य च महासुरान् ।
निवातकवचांश्चैव ततोऽहंशक्रमागमम् ॥ ३.१७५.७६ ॥

离开金城,杀死大阿修罗与尼婆多迦婆迦,我随后便去见了因陀罗。

3.175.77

मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् ।
सर्वं विश्रावयामास यथाभूतं महाद्युते ॥ ३.१७५.७७ ॥

摩偷利将我的功业,依照实情,详细地向天神之主陈述了一遍。大光明者啊!

3.175.78

हिरण्यपुरघातं च मायानां च निवारणम् ।
निवातकवचानां च वधं सङ्ख्ये महौजसाम्।
कालकेयवधं चैव अद्भुतं रोमहर्षणम् ॥ ३.१७५.७८ ॥

金城的毁灭,幻术的遏制,在战斗中杀死大力的尼婆多迦婆迦,以及杀死迦拉开耶人——这些都令人惊异、毛发竖立。

3.175.79

तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरंदरः ।
मरुद्भिः सहितः श्रीमान्साधुसाध्वित्यथाब्रवीत्।
परिष्वज्य च मां प्रेम्णा मूर्ध्नि चाघ्राय सस्मितम् ॥ ३.१७५.७९ ॥

因陀罗闻之大喜,他千眼、摧城者、与诸摩录多同在,光辉的神说道:「善哉,善哉!」随后他深情地拥抱我,嗅我的头顶,面带微笑。

3.175.80

ततो मां देवराजो वै समाश्वास्य पुनः पुनः ।
अब्रवीद्विबुधैः सार्धमिदं समधुरं वचः ॥ ३.१७५.८० ॥

于是天王一再安慰我,与诸神一同说出了这些甜美的话语。

3.175.81

अतिदेवासुरं कर्म कृतमेव त्वया रणे ।
गुर्वर्थश्च कृतः पार्थ महाशत्रून्घ्नता मम ॥ ३.१७५.८१ ॥

普利塔之子啊,你在战斗中完成了超越诸神与阿修罗的功业,并且通过杀死我的大敌,也完成了师尊的使命。

3.175.82

एवमेव सदा भाव्यं स्थिरेणाजौ धनंजय ।
असंमूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ॥ ३.१७५.८२ ॥

达那贾亚啊,在战斗中应当始终如此坚定,并且在无迷惑之中运用兵器。

3.175.83

अविषह्यो रणे हि त्वं देवदानवराक्षसैः ।
सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ॥ ३.१७५.८३ ॥

在战斗中,你即使对诸天、檀那婆、罗刹也不可战胜,即使是药叉、阿修罗、乾闼婆、众鸟与诸蛇联合起来也是如此。

3.175.84

वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् ।
पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥ ३.१७५.८४ ॥

昆提之子啊,这块靠你双臂之力所征服的大地,将由法魂的昆提之子坚战来守护。