Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.178

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.178.1

तस्मिन्कृतास्त्रे रथिनां प्रवीरे ।
प्रत्यागते भवनाद्वृत्रहन्तुः।
अतः परं किमकुर्वन्त पार्थाः ।
समेत्य शूरेण धनंजयेन ॥ ३.१७८.१ ॥

那位精通武器、车战第一的英雄从因陀罗(杀除弗栗多者)的天界归来,与勇猛的达那ṃ遮耶会合之后,般度之子们接着做了什么?

3.178.2

वनेषु तेष्वेव तु ते नरेन्द्राः ।
सहार्जुनेनेन्द्रसमेन वीराः।
तस्मिंश्च शैलप्रवरे सुरम्ये ।
धनेश्वराक्रीडगता विजह्रुः ॥ ३.१७८.२ ॥

就在那些森林之中,那些英雄般的人间之王与如因陀罗一般的阿周那一起,前往那处美妙的群山之冠,抵达财神的游乐之地,并在那里游乐居住。

3.178.3

वेश्मानि तान्यप्रतिमानि पश्यन् ।
क्रीडाश्च नानाद्रुमसन्निबद्धाः।
चचार धन्वी बहुधा नरेन्द्रः ।
सोऽस्त्रेषु यत्तः सततं किरीटी ॥ ३.१७८.३ ॥

他观望那些无与伦比的宫殿和被种种树木环绕的游乐之地,那位持弓的人间之王、戴冠的阿周那,始终专注于武器,四处多方漫游。

3.178.4

अवाप्य वासं नरदेवपुत्राः ।
प्रसादजं वैश्रवणस्य राज्ञः।
न प्राणिनां ते स्पृहयन्ति राज-
ञ्शिवश् कालः स बभूव तेषाम् ॥ ३.१७८.४ ॥

众人主之子们得到这处由财神俱毗罗王的恩惠所赐的居所,王啊,他们不羡慕任何生灵;那段时光对他们而言变得吉祥。

3.178.5

समेत्य पार्थेन यथैकरात्र-
मूषुः समास्तत्रतथा चतस्रः।
पूर्वाश्च षट् ता दश पाण्डवानां ।
शिवा बभूवुर्वसतां वनेषु ॥ ३.१७८.५ ॥

与帕尔塔相会之后,他们在那里住下,仿佛只是一夜;那四年与此前的六年,共十年,对住在森林中的般度之子们来说都是吉祥的。

3.178.6

ततोऽब्रवीद्वायुसुतस्तरस्वी ।
जिष्णुश्च राजानमुपोपविश्य।
यमौ च वीरौ सुरराजकल्पा-
वेकान्तमास्थाय हितं प्रियं च ॥ ३.१७८.६ ॥

于是风神之子、迅捷的怖军开口了。坐在国王身旁的胜利者阿周那,以及与天王相等的两位孪生英雄,走到一旁私语,说出了有益且令人愉快的话。

3.178.7

तव प्रतिज्ञां कुरुराज सत्यां ।
चिकीर्षमाणास्त्वदनुप्रियं च।
ततो न गच्छाम वनान्यपास्य ।
सुयोधनं सानुचरं निहन्तुम् ॥ ३.१७८.७ ॥

库鲁王啊,我们愿实现您真实的誓言,成就您所喜爱之事,在未与其随从一同杀死难敌之前,我们不会离开森林。

3.178.8

एकादशं वर्षमिदं वसामः ।
सुयोधनेनात्तसुखाः सुखार्हाः।
तं वञ्चयित्वाऽधमबुद्धिशील-
मज्ञातवासं सुखमाप्नुयाम ॥ ३.१७८.८ ॥

这是第十一年,我们虽配得幸福,却因难敌而失去幸福地居住。愿我们欺骗那心智与品性卑劣的人,在无人知晓的隐居中获得安乐。

3.178.9

तवाज्ञया पार्थिव निर्विशङ्का ।
विहाय मानं विचरामो वनानि।
समीपवासेन विलोभितास्ते ।
ज्ञास्यन्ति नास्मानपकृष्टदेशान् ॥ ३.१७८.९ ॥

国王啊,遵照您的命令,我们将无所畏惧,舍弃骄傲,在森林中游荡。因我们近居而被迷惑的他们,不会知道我们是来自远方的人。

3.178.10

संवत्सरं तत्र विहृत्य गूढं ।
नराधमं तं सुखमुद्धरेम।
निर्यात्य वैरं सफलं सपुष्पं ।
तस्मै नरेन्द्राधमपूरुषाय ॥ ३.१७८.१० ॥

在那里隐秘地居住一年,我们便能轻易连根拔除那最卑劣的人。让我们将结满果实与花朵的仇恨,加倍偿还给那君王中最卑下的人。

3.178.11

सुयोधनायानुचरैर्वृताय ।
ततो महीं प्राप्नुहि धर्मराज।
स्वर्गोपमं देशमिमं चरद्भिः ।
शक्यो विहन्तुं नरदेव शोकः ॥ ३.१७८.११ ॥

纵然被苏耶陀那的随从所围,哦法王,你便可获得大地;在这如天界般的地域中游历,哦人主,忧愁是可以消除的。

3.178.12

कीर्तिस्तु ते भारत पुण्यगन्धा ।
नश्येद्धि लोकेषु चराचरेषु।
तत्प्राप्य राज्यंकुरुपुङ्गवानां ।
शक्यं महत्प्राप्तुमथ क्रियाश्च ॥ ३.१७८.१२ ॥

哦婆罗多后裔,你那充满功德芬芳的名声,在动与不动的诸世界中永不消亡;获得这位库鲁俊杰的王国,便可成就伟大的事业。

3.178.13

इदं तु शक्यं सततं नरेन्द्र ।
प्राप्तुं त्वया यल्लभसे कुबेरात्।
कुरुष्व बुद्धिं द्विषतां वधाय ।
कृतागसां भारत निग्रहे च ॥ ३.१७८.१३ ॥

哦人主,这也可以持续获得,正如你从俱毗罗那里所得。哦婆罗多后裔,决意诛杀你的敌人,惩罚那些作恶之人。

3.178.14

तेजस्तवोग्रं न सहेत राजन् ।
समेत्य साक्षादपि वज्रपाणिः।
न हि व्यथां जातु करिष्यतस्तौ ।
समेत्य देवैरपि धर्मराज ॥ ३.१७८.१४ ॥

哦国王,你的猛烈光辉,即便持金刚杵的因陀罗亲自相遇也无法承受;哦法王,那两人即便与诸神联合,也绝不会使你受苦。

3.178.15

तवार्थसिद्ध्यर्थमपि प्रवृत्तौ ।
सुपर्णकेतुश्च शिनेश्च नप्ता।
यथैव कृष्णोऽप्रतिमो बलेन ।
तथैव राजन्स शिनिप्रवीरः ॥ ३.१७८.१५ ॥

金翅鸟旗的主人、尸尼之孙,也致力于成就你的目的;正如克里希那在力量上无与伦比,哦国王,他也是尸尼族中的第一英雄。

3.178.16

तवार्थसिद्ध्यर्थमभिप्रपन्नो ।
यथैव कृष्णः सह यादवैस्तैः।
तथैव चेमौ नरदेववर्य ।
यमौ च वीरौ कृतिनौ प्रयोगे ॥ ३.१७८.१६ ॥

正如黑天与刚婆族一同前来成就你的大业,最优秀的国王啊,这两位英勇的孪生兄弟,也善于此役,前来相助。

3.178.17

त्वदर्थयोगप्रभवप्रधानाः ।
शमं करिष्याम परान्समेत्य ॥ ३.१७८.१७ ॥

我们这些因助你成就大业而生的首领,将与敌人相见并议和。

3.178.18

ततस्तदाज्ञाय मतं महात्मा ।
तेषां च धर्मस्य सुतो वरिष्ठः।
प्रदक्षिणं स्थानमुपेत्य राजा ।
पर्याक्रमद्वैश्रवणस्य राज्ञः ॥ ३.१७८.१८ ॥

于是,这位大德之王、法之子中最优秀者明白了他们的意图,从右侧走近那处,绕行了毗沙罗婆那王(俱毗罗)的居所。

3.178.19

संप्रार्थयामास नगेन्द्रवर्यम् ॥ ३.१७८.१९ ॥

他恳请山王中最优秀者。

3.178.20

समाप्तकर्मा सहितः सुहृद्भि-
र्जित्वा सपत्नान्प्रतिलभ्य राज्यम्।
शैलेन्द्र भूयस्तपसे जितात्मा ।
द्रष्टा तवास्मीति मतिं चकार ॥ ३.१७८.२० ॥

他完成了使命,与朋友们一起战胜敌人、重新夺回王国后,这位自制者又为苦行而下定决心:“我要去见你。”

3.178.21

वृतश्च सर्वैरनुजैर्द्विजैश्च ।
तेनैव मार्गेण पुनर्निवृत्तः।
उवाह चैनान्गणशस्तथैव ।
घटोत्कचः पर्वतनिर्झरेषु ॥ ३.१७८.२१ ॥

他被所有幼弟和婆罗门环绕,沿着原路返回;瞿陀迦在山间溪流中成群地背负着他们。

3.178.22

तान्प्रस्थितान्प्रीतमना महर्षिः ।
पितेव पुत्राननुशिष्य सर्वान्।
स लोमशो दिवमेवोर्जितश्री-
र्जगाम तेषां विजयं तदोक्त्वा ॥ ३.१७८.२२ ॥

大仙人心怀欢喜,像父亲教导儿子一样训诫他们所有人,并宣告了他们的胜利之后,光辉灿烂的罗摩莎便升天而去。

3.178.23

तेनार्ष्टिषेणेन तथानुशिष्टा-
स्तीर्तानि रम्याणि तपोवनानि।
महान्ति चान्यानि सरांसि पार्थाः ।
कसंपश्यमानाः प्रययुर्नराग्र्याः ॥ ३.१७८.२३ ॥

在阿尔施提舍那如此教导之下,普利塔之子,人中之最,一边观看美丽的圣渡口、苦行林和其他大湖,一边前行。