摩诃婆罗多 · 章 3.180
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.180.1
कथं नागायुतप्राणो भीमो भीमपराक्रमः ।
भयमाहारयत्तीव्रं तस्मादजगरान्मुने ॥ ३.१८०.१ ॥
大仙啊,拥有万头象力、勇猛无比的怖军,为何会从那条巨蟒身上遭受如此剧烈的恐惧?
3.180.2
पौलस्त्यं धनदं युद्दे य आह्वयति दर्पितः ।
नलिन्यां कदनं कृत्वा निहन्ता यक्षरक्षसाम् ॥ ३.१८०.२ ॥
他在战斗中傲慢地挑战保罗斯提之子财神(俱毗罗),又在那罗尼(Nalinī)大肆屠杀,是夜叉与罗刹的杀戮者。
3.180.3
तं संससि भयाविष्टमापन्नमरिसूदनम् ।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥ ३.१८०.३ ॥
我想听您讲述那位陷入如此恐惧、摧毁敌人的怖军,因为我的好奇心实在很强。
3.180.4
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् ।
प्राप्तानामाश्रमं राजन्राजर्षेर्वृषपर्वणः ॥ ३.१८०.४ ॥
大王啊,当那些勇猛的弓箭手在这充满奇迹的森林中居住时,他们来到了王仙跋尸跋尸跋尸跋尸跋尸跋尸跋尸跋尸跋尸跋尸跋尸跋尸跋尸跋尸……
3.180.5
यदृच्छया धनुष्पाणिर्बद्धखङ्गो वृकोदरः ।
ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ॥ ३.१८०.५ ॥
偶然之间,手持弓、腰挂剑的狼腹(怖军)看见了那片为天神与乾闼婆所常游的秀美森林。
3.180.6
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा ।
देवर्षिसिद्धचरितानप्सरोगणसेवितान् ॥ ३.१८०.६ ॥
那时,他看见了喜马拉雅山那些吉祥的地方,那里有天仙圣人与悉达行走,有阿普萨拉斯众前来侍奉。
3.180.7
चकोरैरुपचक्रैशच् पक्षिभिर्जीवजीवकैः ।
कोकिलैर्भृङ्गराजैश्च तत्र तत्र निनादितान् ॥ ३.१८०.७ ॥
处处回荡着遮迦罗鹧鸪、优波遮迦罗、耆婆耆婆鸟、杜鹃和金翅鸟般的鸣叫声。
3.180.8
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः ।
उपेतान्बहुलच्छायैर्मनोनयननन्दनैः ॥ ३.१८०.८ ॥
那里布满常年开花结果的树木,在霜雪的触碰下柔软,枝叶浓密成荫,令心目愉悦。
3.180.9
स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः ।
सलिलैर्हिमसंकाशैर्हंसकारण्डवायुतैः ॥ ३.१८०.९ ॥
他凝视着山间河流,它们如吠琉璃宝石般闪耀,水白如雪,满是天鹅与迦兰陀婆鸭。
3.180.10
वनानि देवदारूणां मेघानामिव वागुराः ।
हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि ॥ ३.१८०.१० ॥
天香木之林宛如云网,混杂着紫檀与高耸的迦利耶迦树。
3.180.11
मृगयां परिधावन्स समेषु मरुधन्वसु ।
विध्यन्मृगाञ्शरैः शुद्धैश्चचार स महाबलः ॥ ३.१८०.११ ॥
他在平原与沙漠之地追逐猎物,以纯净的箭射穿鹿群,这位大力者四处游猎。
3.180.12
भीमसेनस्तु विख्यातो महान्तं दंष्ट्रिणं बलात् ।
निघ्नन्नागशतप्राणो वने तस्मिन्महाबलः ॥ ३.१८०.१२ ॥
而以英名著称的怖军,力敌百象,在那片森林中以力量击杀一头巨大的獠牙兽。
3.180.13
मृगाणां सवराहाणां महिषाणां महाभुजः ।
विनिघ्नंस्तत्रतत्रैव भीमो भीमपराक्रमः ॥ ३.१८०.१३ ॥
在那里到处击杀鹿、野猪和水牛的大臂比玛,勇力可怖。
3.180.14
स मातङ्गशतप्राणो मनुष्यशतवारणः ।
सिंहशार्दूलविक्रान्तो वने तस्मिन्महाबलः ॥ ३.१८०.१४ ॥
他拥有百象之力,能挡住百人,勇猛如狮虎,那位大力者在那片森林里。
3.180.15
वृक्षानुत्पाटयामास तरसा वै बभञ्ज च ।
पृथिव्याश्च प्रदेशान्वै नादयंस्तु वनानि च ॥ ३.१८०.१५ ॥
他猛力拔起树木并折断,使大地各处与森林都回荡着声响。
3.180.16
पर्वताग्राणि वै मृद्गन्नादयानश्च विज्वरः ।
प्रक्षिपन्पादपांश्चापि नादेनापूरयन्महीम् ॥ ३.१८०.१६ ॥
碾碎山峰,吼声震天,无畏地抛掷树木,以声响充满大地。
3.180.17
वेगेन न्यपतद्भीमो निर्भयश्च पुनः पुनः ।
आस्फोटयन्क्ष्वेडयंश्च तलतालांश्च वादयन्।
चिरसंबद्धदर्पस्तु भीमसेनो वने तदा ॥ ३.१८०.१७ ॥
比玛以疾速扑下,无畏地一次又一次,拍手咆哮,击掌作响;长久积聚骄傲的比玛森那,那时在那片森林里。
3.180.18
गजेनद्राश्च महासत्वा मृगेन्द्राश्च महाबलाः ।
भीमसेनस्य नादेन व्यमुञ्चन्त गुहा भयात् ॥ ३.१८०.१८ ॥
大勇的象王与强大的兽王,因比玛森那的吼声而恐惧,纷纷离开了洞穴。
3.180.19
क्वचित्प्रधावंस्तिष्ठंश्च क्वचिच्चोपविशंस्तथा ।
मृगप्रेप्सुर्महारौद्रे वने चरति निर्भयः ॥ ३.१८०.१९ ॥
他时而奔跑,时而站立,时而坐下,渴望追寻鹿群,在那片可怖的大森林中无畏地游荡。
3.180.20
स तत्रमनुजव्याघ्रो वने वनचरोपमः ।
पद्भ्यामभिसमापेदे भीमसेनो महाबलः ॥ ३.१८०.२० ॥
那位人中猛虎、大力的婆罗多王子毗摩先那,如林中居民一般徒步来到了那里。
3.180.21
स प्रविष्टो महारण्ये नादान्नदति चाद्भुतान् ।
त्रासयन्सर्वभूतानि महासत्वपराक्रमः ॥ ३.१८०.२१ ॥
他进入大森林,发出奇异的吼声,震慑一切众生,以其巨大的勇气与威力而著称。
3.180.22
ततो भीमस्य शब्देन भीताः सर्पा गुहाशयाः ।
अतिक्रान्तास्तु वेगेन जगामानुसृतः शनैः।
ततोऽमरवरप्रख्यो भीमसेनो महाबलः ॥ ३.१८०.२२ ॥
于是,栖居洞穴的蛇因毗摩的声音而惊恐,迅速逃散;随后,如天神中最优者般强大的毗摩先那,缓缓地追赶它们。
3.180.23
स ददर्श महाकायं भुजङ्गं रोमहर्षणम् ।
गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ॥ ३.१८०.२३ ॥
他看见一条巨大而令人毛骨悚然的蛇,盘踞在山中险要之处,以身体环绕着山洞。
3.180.24
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः ।
चित्राङ्गमङ्गजैश्चित्रैर्हरिद्रासदृशच्छविम् ॥ ३.१८०.२४ ॥
其身如山脉般宽广,鳞环犹如日月之轮,身上生有斑斓的花纹,皮肤如姜黄一般。
3.180.25
गुहाकारेण वक्रेण चतुर्दंष्ट्रेण राजता ।
दीप्ताक्षेणातिताम्रेण लिहानं सृक्विणी मुहुः ॥ ३.१८०.२५ ॥
他口如洞穴,歪斜,长着四颗獠牙,闪闪发光,眼睛燃烧,通体通红,不停地舔着嘴角。
3.180.26
त्रासनं सर्वभूतानां कालान्तकयमोपमम् ।
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् ॥ ३.१८०.२६ ॥
令一切众生恐惧,如同时间的终结者与阎摩,他站立着,仿佛以嘶嘶的呼吸和吼声威胁。
3.180.27
स भीमं सहसाऽभ्येत्य पृदाकुः क्षुधितो भृशम् ।
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ॥ ३.१८०.२७ ॥
那条饥饿的巨蟒忽然逼近毗摩,用力抓住了他的双臂。
3.180.28
तेन संस्पृष्टगात्रस्य भीमसेनस्य वै तदा ।
संज्ञा मुमोह सहसा वरदानेन तस्य हि ॥ ३.१८०.२८ ॥
他的身体被它触碰,毗摩森那的意识顿时昏迷,因为这蛇得到了恩赐。
3.180.29
दशनागसहस्राणि धारयन्ति हि यद्बलम् ।
इद्रलं भीमसेनस्य भुजयोरसमं परैः ॥ ३.१८०.२९ ॥
能承受一万头象之力的因陀罗之力,在毗摩森那的双臂中,他人无可与之相比。
3.180.30
स तेजस्वी तथा तेन भुजगेन वशीकृतः ।
विम्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् ॥ ३.१८०.३० ॥
这位光辉的毗摩被蛇如此制服,他慢慢挣扎,却无法动弹。
3.180.31
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः ।
गृहीतो व्यजहात्सत्वं वरदानविमोहितः ॥ ३.१८०.३१ ॥
婆罗多之子毗摩拥有万头象的生命力,肩如狮子,臂膀宏大,被擒住后因所得的恩赐而迷惑,失去了勇气。
3.180.32
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे ।
न चैनमशकद्वीरः कथंचित्प्रतिबाधितुम् ॥ ३.१८०.३२ ॥
那位英雄拼尽全力想要挣脱,却无论如何也无法制住那条蛇。