摩诃婆罗多 · 章 3.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.19.1
एवमुक्तस्तु कौन्तेय सूतपुत्रस्ततो मृधे ।
प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ॥ ३.१९.१ ॥
被如此说后,贡蒂之子、御者之子便在战斗中温和、甜美而直接地对普拉丢默那说道。
3.19.2
न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान् ।
युद्धज्ञोस्मि च वृष्णीनां नात्र किंचिदतोऽन्यथा ॥ ३.१९.२ ॥
鲁克弥尼之子啊,驾驭马匹于战场,我毫无畏惧。我在韦湿尼族中精通战事;此事并无他意。
3.19.3
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः ।
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ॥ ३.१९.३ ॥
长寿者啊,请记住御车之职的这一教导:车战之士在一切事务中都应受到保护;而你也深受重创。
3.19.4
त्वं हि साल्वप्रयुक्तेन शरेणाभिहतो भृशम् ।
कश्मलाभिहतो वीर ततोऽहमपयातवान् ॥ ३.१९.४ ॥
你被萨尔瓦所射之箭重创。英雄啊,我因昏厥所击,便撤退了。
3.19.5
सत्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया ।
पश्य मे हयसंयाने शिक्षां केशवनन्दन ॥ ३.१९.५ ॥
现在,萨特瓦特族之首啊,你偶然恢复了知觉,请看我驾驭马匹的技艺,凯沙瓦之子啊!
3.19.6
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः ।
वीतभीः प्रविशाम्येतां साल्वस्य महतीं चमूम् ॥ ३.१९.६ ॥
我生于达鲁卡,并得到妥善的训练。我无所畏惧地进入萨尔瓦这支庞大的军队。
3.19.7
एवमुक्त्वा ततो वीरो हयान्संचोद्य संगरे ।
रश्मिभिस्तु समुद्यम्य जवेनाभ्यपतत्तदा ॥ ३.१९.७ ॥
如此说罢,英雄在战场上策动骏马;提起缰绳,立即疾速向前冲去。
3.19.8
मण्डलानि विचित्राणि यमकानीतराणि च ।
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ॥ ३.१९.८ ॥
奇妙的圆圈、成对的转弯及其他;左右两侧奇妙的转弯——各种方式皆然。
3.19.9
प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः ।
उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ॥ ३.१९.९ ॥
大王啊,那些骏马被鞭子抽打,又被缰绳提起,光彩闪耀,仿佛要腾空飞入天空。
3.19.10
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् ।
उह्यमाना इव तदा नास्पृशंश्चरणैर्महीम् ॥ ३.१९.१० ॥
大王啊,那些马认出御者达鲁迦手艺高超,仿佛被托举而行,竟没有用蹄子触及大地。
3.19.11
सोपसव्यां चमूं तस्य साल्वस्य भरतर्षभ ।
चकार नातियत्नेन तदद्भुतमिवाभवत् ॥ ३.१९.११ ॥
婆罗多的雄牛啊,他以左转的机动调转了沙尔瓦的军队,且并未费多大力气,因而看来如同奇迹。
3.19.12
अमृष्यमाणोपसव्यं साल्वः समितिदारुणः ।
यन्तारमस्य सहसा त्रिभिर्बाणैः समार्दयत् ॥ ३.१९.१२ ॥
沙尔瓦无法忍受左转的机动,此人在战场上凶猛无比,突然以三支箭猛烈射伤了他的御者。
3.19.13
दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् ।
भूय एव महाबाहो प्रययावपसव्यतः ॥ ३.१९.१३ ॥
达卢迦之子不顾那支箭的力量,再次从左侧前进,啊,大臂者。
3.19.14
ततो बाणान्बहुविधान्पुनरेव स सौभराट् ।
मुमोच तनये वीर मम रुक्मिणिनन्दने ॥ ३.१९.१४ ॥
于是娑巴王再次向我的儿子射出种种箭矢,啊英雄,罗克米尼之子。
3.19.15
तानप्राप्ताञ्शितैर्ब्राणैश्चिच्छेद परवीरहा ।
रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवं ॥ ३.१९.१५ ॥
罗克米尼之子,敌方英雄的杀手,在那些箭射到之前,用锐利的箭将其射断,微笑着展示他的手上功夫。
3.19.16
छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन च सौभराट् ।
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ॥ ३.१९.१६ ॥
娑巴王见那些箭被普拉ద्युम्न射断,便借助阿修罗的可怕幻术,射出箭矢。
3.19.17
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलम् ।
ब्रह्मास्त्रेणान्तरा च्छित्त्वामुमोचान्यन्पतस्त्रिणः ॥ ३.१९.१७ ॥
他察觉敌方使用了达多的强大兵器,便以梵天之箭在半途将其斩断,又射出其他带羽的箭。
3.19.18
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः ।
शिरस्युरसि वक्रे च स मुमोह पपात च ॥ ३.१९.१८ ॥
那些饮血的箭迅速震开了那件兵器,射中他的头、胸和脸;他昏厥倒地。
3.19.19
तस्मिन्निपतिते क्षुद्रे साल्वे बाणप्रपीडिते ।
रौक्मिणेयोऽपरं बाणं संदधे शत्रतापनः ॥ ३.१९.१९ ॥
当那卑劣的沙尔瓦被箭矢折磨而倒下时,灼烧敌人的卢克弥尼之子又搭上了另一支箭。
3.19.20
तमर्चितं सर्वदाशार्हपूगै-
राशीर्भिरर्कज्वलनप्रकाशम्।
दृष्ट्वा शरं ज्यामभिनीयमानं ।
बभूव हाहाकृतमन्तरिक्षम् ॥ ३.१९.२० ॥
众达莎尔ha部族的集会皆以祝福礼赞那支箭,它如日火般闪耀;当人们看到它被拉上弓弦时,天空充满了惊呼之声。
3.19.21
ततो देवगणाः सर्वे सेन्द्राः सहधनेश्वराः ।
नारदं प्रेषयामासु- श्वसनं च मनोजवम् ॥ ३.१९.२१ ॥
于是,所有天神众,连同因陀罗,以及财神俱毗罗,派遣了那罗陀和如意念般迅捷的风神。
3.19.22
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् ।
नैव वध्यस्त्वया वीर साल्वराजः कथंचन ॥ ३.१९.२२ ॥
那二者来到卢克弥尼之子面前,说出天界居民的话语:「英雄啊,沙尔瓦王无论如何不可被你杀死。」
3.19.23
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे ।
एतस्य च शरस्याजौ नावध्योस्ति पुमान्क्वचित् ॥ ३.१९.२३ ॥
请重新收回那支箭;此人在战场上不可被你杀死。在这支箭的战斗中,任何地方的任何人都不应被杀死。
3.19.24
मृत्युरस्य महाबाहो रणे देवकिनन्दनः ।
कृष्णः संकल्पितो धात्रा तन्मिथ्या न भवेदिति ॥ ३.१९.२४ ॥
啊,大臂者,他在战场上的死亡是提婆基之子克里希纳;这是造物主所定,愿它不致虚假。
3.19.25
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् ।
संजहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ॥ ३.१९.२५ ॥
于是心中大喜的普拉丢牟那从最好的弓上收回那支上好的箭,放入箭袋之中。
3.19.26
तत उत्थाय राजेन्द्र साल्वः परमदुर्मनाः ।
व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ॥ ३.१९.२६ ॥
于是,王中之王啊,心中极为沮丧的沙尔瓦被普拉丢牟那的箭所伤,起身与军队迅速撤离。
3.19.27
स द्वारकां परित्यज्य साल्वो वृष्णिभिरार्दितः ।
सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ॥ ३.१९.२७ ॥
沙尔瓦被筏瑞希尼人所困扰,离开了德瓦拉卡,登上了索跋飞车,王中之王啊,于是升入天空。