Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.199

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.199.1

भूय एव महाभाग्यं कथ्यतामित्यब्रवीत् पाण्डवः ॥ ३.१९९.१ ॥

般度之子又说:「请再讲述这大福德之事。」

3.199.2

अथाचष्ट मार्कण्डेयो महाराज वृषदर्भसेदुकनामानौ राजानौ नीतिमार्गरतावस्त्रोपास्त्रकृतिनौ ॥ ३.१९९.२ ॥

于是摩根德耶说道:「大王啊,有两位国王,名叫伐沙与达尔跋,还有一位名叫色杜,他们乐于遵行正义之道,精通兵器及其辅助之术。」

3.199.3

सेदुको वृषदर्भस्य बालस्यैव उपांशुव्रतमभ्यजा- नात् कुप्यमदेयं ब्राह्मणस्य ॥ ३.१९९.३ ॥

色杜从伐沙-达尔跋之子处受持了一个秘密誓愿:不得把不可给予之物施予婆罗门。

3.199.4

अथ तं सेदुकं ब्राह्मणः कश्चिद् वेदाध्ययनसम्पन्न आशिषं दत्त्वा गुर्वर्थी भिक्षितवान् ॥ ३.१९९.४ ॥

于是一位精通吠陀研习的婆罗门为色杜祝福,并为他的上师乞求某物。

3.199.5

अश्वसहस्रं मे भवान् ददात्विति तं सेदुको ब्राह्मणमब्रवीत् ॥ ३.१९९.५ ॥

色杜对那位婆罗门说:「愿您赐给我一千匹马。」

3.199.6

नास्ति सम्भवो गुर्वर्थं दातुमिति ॥ ३.१९९.६ ॥

(婆罗门)说:「为了上师而给予,此事不可能。」

3.199.7

स त्वं गच्छ वृषदर्भसकाशम् । राजा परमधर्मज्ञो ब्राह्मण तं भिक्षस्व ।
स ते दास्यति तस्यैतदुपांशुव्रतमिति ॥ ३.१९९.७ ॥

你去见跋沙迦罗的首领。那位通晓至高法的国王,婆罗门啊,向他乞求吧。他会给你的;这是他的秘密誓愿。

3.199.8

अथ ब्राह्मणो वृषदर्भसकाशं गत्वा अश्वसहस्रमयाचत् ।
स राजा तं कशेनाताडयत् ॥ ३.१९९.८ ॥

于是那婆罗门去见跋沙迦罗,请求一千匹马。那国王用鞭子抽打了他。

3.199.9

तं ब्राह्मणोऽब्रवीत् । किं हिंस्यनागसं मामिति ॥ ३.१९९.९ ॥

婆罗门对他说:“我并无过错,你为何打我?”

3.199.10

एवमुक्त्वा तं शपन्तं राजाऽऽह । विप्र किं यो न ददाति तुभ्यमुताहोस्विद् ब्राह्मण्यमेतत् ॥ ३.१९९.१० ॥

说完这些,国王对正在咒骂他的婆罗门说:“婆罗门啊,是我不给你,还是这就是婆罗门的本分?”