摩诃婆罗多 · 章 3.202
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.202.1
मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन् ।
अस्ति कश्चिद्भवतश्चिरजाततर इति ॥ ३.२०२.१ ॥
诸仙人与般度五子问摩根德耶:"你们之中,可有比你更长寿的人吗?"
3.202.2
स तानुवाच ।
अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः
कीर्तिस्ते व्युच्छिन्नेति ।
स मामुपातिष्ठत्
अथ प्रत्यभिजानाति मां भवानिति ॥ ३.२०२.२ ॥
他说:"曾有一位名为因陀罗具曼的王仙,福德耗尽,从天界坠落;他的名声已经断绝。"他来到我面前,随后问道:"你认得我吗?"
3.202.3
तमहमब्रुवम् ।
न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहेऽर्थानामनुष्ठानम् ॥ ३.२०२.३ ॥
我对他说:"我们并非修习炼丹养生之人;我们不会通过折磨自己的身体去完成任何目的。"
3.202.4
अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः ।
स भवन्तं यदि जानीयात्
प्रकृष्टे चाध्वनि हिमवान् ।
तत्रासौ प्रतिवसतीति ॥ ३.२०२.४ ॥
喜马拉雅山中确有一只名叫"墙耳"(Prākāra-karṇa)的猫头鹰。若他认得你……在远路之上便是喜马拉雅;他就住在那里。
3.202.5
स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः ॥ ३.२०२.५ ॥
他化作一匹马,把我载到猫头鹰所在的地方。
3.202.6
अथैनं स राजर्षिः पर्यपृच्छत् ।
प्रत्यभिजानाति मां भवानिति ॥ ३.२०२.६ ॥
于是那位王仙问他:"你认得我吗?"
3.202.7
स मुहूर्तं ध्यात्वाब्रवीदेनम् ।
नाभिजाने भवन्तमिति ॥ ३.२०२.७ ॥
他沉思片刻,对他说:我不认识你。
3.202.8
स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत् ।
अस्ति कश्चिद्भवतश्चिरजाततर इति ॥ ३.२०२.८ ॥
被如此问话后,王仙因陀罗衍那又对那只猫头鹰说:有没有比你年长得多的人?
3.202.9
स एवमुक्तोऽब्रवीदेनम् ।
अस्ति खल्विन्द्रद्युम्नसरो नाम
तस्मिन्नाडीजङ्घो नाम बकः प्रतिवसति ।
सोऽस्मत्तश्चिरजाततरः
तं पृच्छेति ॥ ३.२०२.९ ॥
被如此问话后,他对他说:确实有一个名叫因陀罗衍那的湖,湖中住着一只名叫那迪正伽的鹤。他比我们年长得多;你去问问他。
3.202.10
तत इन्द्रद्युम्नो मां चोलूकं चादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम बको बभूव ॥ ३.२०२.१० ॥
于是因陀罗衍那带着我和猫头鹰前往那湖,那只名叫那迪正伽的鹤就在那里。
3.202.11
सोऽस्माभिः पृष्टः ।
भवानिन्द्रद्युम्नं राजानं प्रत्यभिजानातीति ॥ ३.२०२.११ ॥
我们问他:你认识因陀罗衍那王吗?
3.202.12
स एवमुक्तोऽब्रवीन्मुहूर्तं ध्यात्वा ।
नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ॥ ३.२०२.१२ ॥
被如此问后,他沉思片刻说:我不认识因陀罗衍那王。
3.202.13
ततः सोऽस्माभिः पृष्टः ।
अस्ति कश्चिदन्यो भवतश्चिरजाततर इति ॥ ३.२०२.१३ ॥
于是我们问他:还有比您更长寿的人吗?
3.202.14
स नोऽब्रवीदस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति ।
स मत्तश्चिरजाततर इति
स यदि कथञ्चिदभिजानीयादिमं राजानं तमकूपारं पृच्छाम इति ॥ ३.२०२.१४ ॥
他对我们说:就在这湖中,住着一只名叫阿库帕若的龟。它比我活得还久。如果它以某种方式认识这位国王,我们就去问问那只阿库帕若。
3.202.15
ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास ।
अस्त्यस्माकमभिप्रेतं भवन्तं कञ्चिदर्थमभिप्रष्टुम्
साध्वागम्यतां तावदिति ॥ ३.२०२.१५ ॥
于是那只鹭鸶对名叫阿库帕若的龟说:我们想向您询问一件事。请您暂且来这里吧。
3.202.16
एतच्छ्रुत्वा स कच्छपस्तस्मात्सरस उत्थायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे ॥ ३.२०२.१६ ॥
那龟听了这话,便从湖中起身,朝我们站在湖岸的地方走来。
3.202.17
आगतं चैनं वयमपृच्छाम ।
भवानिन्द्रद्युम्नं राजानमभिजानातीति ॥ ३.२०२.१७ ॥
他来到后,我们问他:您认识因陀罗德尤姆那王吗?
3.202.18
स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसञ्ज्ञकल्पः प्राञ्जलिरब्रवीत् ।
किमहमेनं न प्रत्यभिजानामि
अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितपूर्वः ।
सरश्चेदमस्य दक्षिणादत्ताभिर्गोभिरतिक्रममाणाभिः कृतम्
अत्र चाहं प्रतिवसामीति ॥ ३.२०२.१८ ॥
他沉思片刻,泪眼盈盈,心绪激荡,浑身颤抖,几近失去知觉,合掌说道:我怎会不认得他?我先前曾千次与他一同建造火坛。这湖是他以作为祭礼酬金的牛群所造,溢流不绝;而我就住在这里。
3.202.19
अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीत् ॥ ३.२०२.१९ ॥
于是,一听到龟所说的话,天界立即出现了一辆神车。
3.202.20
वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति ।
प्रस्तुतस्ते स्वर्गः
यथोचितं स्थानमभिपद्यस्व ।
कीर्तिमानसि
अव्यग्रो याहीति ॥ ३.२०२.२० ॥
随后有声音向因陀罗檀摩宣告:天界已为你备好;你可前往与你相称的居所。你享有盛名;安心前行吧。
3.202.21
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।
यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ ३.२०२.२१ ॥
善行的声名触及天与地;只要这声名长存,人便被称为“补鲁沙”(人)。
3.202.23
तस्मात्कल्याणवृत्तः स्यादत्यन्ताय नरो भुवि ।
विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत् ॥ ३.२०२.२३ ॥
因此,人在世间应永远保持善行;舍弃最为罪恶的行为,应只依靠法。
3.202.24
इत्येतच्छ्रुत्वा स राजाब्रवीत् ।
तिष्ठ तावद्यावदिदानीमिमौ वृद्धौ यथास्थानं प्रतिपादयामीति ॥ ३.२०२.२४ ॥
国王听后说:
3.202.25
स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः ॥ ३.२०२.२५ ॥
他将我、普拉卡拉卡尔纳和楚卢迦送回各自应在之处,随即乘同一车辆成就圆满,回到了自己应在之处。
3.202.26
एतन्मयानुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः ॥ ३.२०२.२६ ॥
长寿的摩尔刚德亚对般度之子们说:
3.202.27
पाण्डवाश्चोचुः प्रीताः ।
साधु
शोभनं कृतं भवता राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति ॥ ३.२०२.२७ ॥
般度之子们欣喜地说:「做得好!你做了一件极好的事,把从天界堕落的国王因陀罗umna送回了他在天上的本位。」