摩诃婆罗多 · 章 3.204
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.204.1
श्रुत्वा तु राजा राजर्षेरिन्द्रद्युम्नस्य तत्तथा ।
मार्कण्डेयान्महाभागात्स्वर्गस्य प्रतिपादनम् ॥ ३.२०४.१ ॥
国王听了王仙因陀罗昙摩的那段故事,以及大福者摩根德耶对天界的描述,便也照样做了。
3.204.2
युधिष्ठिरो महाराज पप्रच्छ भरतर्षभ ।
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ॥ ३.२०४.२ ॥
大王、婆罗多族的雄牛坚战,向苦行年高、长寿而无瑕的摩根德耶发问。
3.204.3
विदितास्तव धर्मज्ञ देवदानवरक्षसाम् ।
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ॥ ३.२०४.३ ॥
精通法者啊,诸天、檀那婆与罗刹的种种王族,以及永恒的仙人族系,你都了然于心。
3.204.4
न तेऽस्त्यविदितं किंचिदस्मिँल्लोके द्विजोत्तम ।
अथ वेत्सि मुने वंशान्मनुष्योरगरक्षसाम् ॥ ३.२०४.४ ॥
在这世上没有你不知道的事,再生者中最杰出的婆罗门啊。仙人啊,你也知道人类、蛇族与罗刹的世系。
3.204.5
देवगन्धर्वयक्षाणां किन्नराप्सरसां तथा ।
इदमिच्छाम्यहं श्रोतुं तत्त्वे द्विजसत्तम ॥ ३.२०४.५ ॥
关于诸天、乾闼婆、夜叉、紧那罗与阿普萨拉斯,再生者中最杰出的婆罗门啊,我也想如实听闻此事。
3.204.6
कुवलाश्व इति ख्यात इक्ष्वाकुकुलसंभवः ।
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ॥ ३.२०४.६ ॥
出生于伊刹婆迦族、名为库娃拉什瓦的那位,如何因颠倒而变成了屠悉之摩罗?
3.204.7
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम ।
विपर्यस्तं यथा नाम कुवलाश्वस् धीमतः ॥ ३.२०४.७ ॥
婆里古最优秀的人啊,我想如实知道,智慧的俱缚罗湿婆是如何遭到颠倒的。
3.204.8
युधिष्ठिरेणैवमुक्तो मार्कण्डेयो महामुनिः ।
धौन्धुमारमुपाख्यानं कथयामास भारत ॥ ३.२०४.८ ॥
坚战如此发问后,大仙人摩根德耶讲述了杜温杜玛罗的故事,婆罗多啊。
3.204.9
हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर ।
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ॥ ३.२०४.९ ॥
好吧,我将讲给你听。国王坚战,请听这关于杜温杜玛罗最合乎法义的故事。
3.204.10
यथा स राजा ऐक्ष्वाकः कुवलाश्वो महीपतिः ।
धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ॥ ३.२०४.१० ॥
大地之主啊,请听那位伊刹婆迦族的国王俱缚罗湿婆是如何成为杜温杜玛罗之境的。
3.204.11
महर्षिर्विश्रुतस्तात उदङ्क इति भारत ।
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ॥ ३.२०४.११ ॥
有一位名叫乌坦伽的著名大仙人,亲爱的,婆罗多啊。他的修行所在于荒漠之地的一处美丽地方,俱卢啊。
3.204.12
उदङ्कस्तु महाराज तपोतप्यत्सुदुश्चरम् ।
आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभुः ॥ ३.२०४.१२ ॥
大王啊,乌坦伽为了使毗湿奴欢喜,想要供养他,经过许多年修行了极其艰难的苦行,这位大能者。
3.204.13
तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् ।
दृष्ट्वा महर्षिस्तद्ब्रह्म तुष्टाव विविधैः स्तवैः ॥ ३.२०४.१३ ॥
世尊对他感到欢喜,亲自现身显现。大仙见到那梵,以种种赞歌赞颂他。
3.204.14
त्वया देव प्रजाः सर्वाः ससुरासुरमानवाः ।
स्थावराणि च भूतानि जङ्गमानि तथैव च ॥ ३.२०४.१४ ॥
神啊,一切众生,诸天、阿修罗与人类,以及不动与动的众生,都是由你创造的。
3.204.15
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते ।
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ ॥ ३.२०४.१५ ॥
大光明者啊,梵、吠陀以及所应知者,都是由你所造。天神啊,天空是你的头,日月是你的眼。
3.204.16
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत ।
बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ॥ ३.२०४.१६ ॥
不坏者啊,风是你的呼吸,火与光明也属于你。一切方位是你的手臂,大海是你的腹部。
3.204.17
ऊरू ते पर्वता देव स्वं नाभिर्मधुसूदन ।
पादौ ते पृथिवी चैव रोमाण्योषधयस्तथा ॥ ३.२०४.१७ ॥
天神啊,群山是你的大腿。摩图苏陀啊,你的肚脐属于你自己。大地是你的双足,草木是你的毛发。
3.204.18
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः ।
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ॥ ३.२०४.१८ ॥
因陀罗、苏摩、阿耆尼与伐楼那,以及诸天、阿修罗与大蛇,都恭敬低头,立于你面前,以种种赞歌颂扬你。
3.204.19
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर ।
योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ॥ ३.२०४.१९ ॥
世界之主啊!一切众生皆被你遍满。大力的瑜伽行者与大仙人赞颂你。
3.204.20
त्वयि तुष्टे जगच्छान्तं त्वयि क्रुद्धे महद्भयम् ।
भयानामपनेतासि त्वमेकः पुरुषोत्तम ॥ ३.२०४.२० ॥
你若欢喜,世界便得安宁;你若愤怒,便生大恐怖。人中最上者啊,唯有你能除去一切恐惧。
3.204.21
देवानां मानुषाणां च सर्वभूतसुखावहः ।
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वया वृताः ॥ ३.२०४.२१ ॥
天神啊!你为诸神、人类及一切众生带来安乐。以你的三步,三界被你包围。
3.204.22
असुराणां समृद्धानां विनाशश्च त्वया कृतः ।
तव विक्रमणैर्देवा निर्वाणमगमन्परम् ॥ ३.२०४.२२ ॥
你毁灭了繁荣的阿修罗,凭借你的步伐,诸神达到了至高的解脱。
3.204.23
पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते ।
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः।
आराधयित्वा त्वां देवाः सुखमेधन्ति नित्यशः ॥ ३.२०४.२३ ॥
光辉者啊!你若愤怒,达提耶之王便遭败绩。在此,你确实是一切众生的创造者与毁灭者。敬拜你之后,诸神常在安乐中兴盛。
3.204.24
एवं स्तुतो हृषीकेश उदङ्केन महात्मना ।
उदङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु ॥ ३.२०४.२४ ॥
被高尚的乌当迦如此赞颂后,主宰诸根的毗湿奴对乌当迦说:我对你满意,请选择一个恩赐。
3.204.25
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम् ।
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ॥ ३.२०४.२५ ॥
我已见到哈里——永恒神圣的原人、世界的创造者与主宰,这对我来说已是足够的恩赐。
3.204.26
विष्णुरुवाच ।
प्रीतस्तेऽहमलौल्येन भक्त्या तव च सत्तम।
अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ॥ ३.२०४.२६ ॥
毗湿奴说:善人中最善者啊,我因你无贪的虔诚而欢喜。婆罗门、再生者啊,你必须从我这里接受一个恩赐。
3.204.27
एवं स च्छन्द्यमानस्तु वरेण हरिणा तदा ।
उदङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ॥ ३.२०४.२७ ॥
哈里如此劝他接受恩赐,优陀迦合掌选择了一个恩赐,婆罗多族中最优秀者啊。
3.204.28
यदि मे भगवन्प्रीतः पुण्डरीकनिभेक्षण ।
धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा।
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं ममेश्वर ॥ ३.२०४.२८ ॥
世尊、莲花眼者啊,若你对我欢喜,愿我的心永远安住于法、真实与自制;主啊,愿我对你的虔诚修习永恒不断。
3.204.29
भगवानुवाच ।
सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज ॥ ३.२०४.२९ ॥
世尊说:再生者啊,凭我的恩典,这一切必将降临于你。
3.204.30
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् ।
त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ॥ ३.२०४.३० ॥
使你与天神相合的瑜伽将在你身上显现,你将为三界完成伟大的事业。
3.204.31
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः ।
तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ॥ ३.२०४.३१ ॥
为了毁灭众世界,名为钝都的大阿修罗正在修行可怕的苦行。听着,谁将杀死他。
3.204.32
राजा हि वीर्यवांस्तात इक्ष्वाकुरपराजितः ।
बृहदश्व इति ख्यातो भविष्यति महीपतिः ॥ ३.२०४.३२ ॥
亲爱的孩子,伊刹婆迦族中那位强大而不可战胜的国王,名为布利哈达什瓦,将成为大地之主。
3.204.33
तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः ।
स योगबलामास्थाय मामकं पार्थिवोत्तमः।
शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति ॥ ३.२०४.३३ ॥
他的儿子名为库瓦拉什瓦,纯洁而克己。那位杰出的国王借助我的瑜伽之力,遵从你的命令,将成为钝都摩罗,哦,婆罗门圣人。
3.204.34
उदङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत ॥ ३.२०४.३४ ॥
对乌檀迦如此说后,毗湿奴隐没了。