摩诃婆罗多 · 章 3.205
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.205.1
इक्ष्वाकौ संस्तिते राजञ्शशादः पृथिवीमिमाम् ।
प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥ ३.२०५.१ ॥
国王啊,伊刹婆迦(Ikṣvāku)去世后,至法高尚的舍萨达(Śaśāda)获得了这片大地;他在阿逾陀成为国王。
3.205.2
शशादस्य तु दायाद ककुत्स्थो नाम वीर्यवान् ।
अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः ॥ ३.२०५.२ ॥
舍萨达的继承人是有力的ककुत्स्थ(Kakutstha);ककुत्स्थ之子为阿涅那斯(Anenas),阿涅那斯之子为普利图(Pṛthu)。
3.205.3
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रश्च जज्ञिवान् ।
आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ॥ ३.२०५.३ ॥
普利图之子是维什瓦伽什瓦(Viṣvagaśva);由他生出阿尔德拉(Ārdra)。阿尔德拉之子是尤凡那什瓦(Yuvanāśva),其子为室罗伐斯多(Śrāvasta)。
3.205.4
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।
श्रावस्तस्य तु दायादो बृहदश्वो महाबलः ॥ ३.२०५.४ ॥
国王室罗伐斯迦(Śrāvastaka)诞生,他建立了室罗伐斯提(Śrāvastī)城。室罗伐斯多的继承人是大力的布利哈达什瓦(Bṛhadaśva)。
3.205.5
बृहदश्वस् दायादः कुवलाश्व इति स्मृतः ।
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंसतिः ॥ ३.२०५.५ ॥
布利哈达什瓦的继承人被称为库瓦拉什瓦(Kuvalāśva);库瓦拉什瓦有二十一千个儿子。
3.205.6
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ।
कुवलाश्वश्च पितृतोगुणैरभ्यधिकोऽभवत् ॥ ३.२०५.६ ॥
他们都精通各种学问,强大而难以抵挡;而库瓦拉什瓦在德行上超过了他的父亲。
3.205.7
समये तं तदा राज्ये बृहदश्वोऽभ्यषेचयत् ।
कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् ॥ ३.२०५.७ ॥
时机成熟时,布哈达湿婆便将他立为王——俱缚罗湿婆,大王啊,英勇而最为正法。
3.205.8
पुत्रसंक्रामितश्रीस्तु बृहदश्वो महीपतिः ।
जगाम तपसे धीमांस्तपोवनममित्रहा ॥ ३.२०५.८ ॥
将王者的荣光交给儿子之后,布哈达湿婆这位大地之主、智慧的击敌者,为修苦行而前往苦行林。
3.205.9
अथ शश्वाव राजर्षिं तमुदङ्को नराधिप ।
वनं संप्रस्थितं राजन्बृहदश्वं द्विजोत्तमः ॥ ३.२०५.९ ॥
于是,人主啊,婆罗门中最优秀的乌丹伽追随那位已动身前往森林的王仙布哈达湿婆。
3.205.10
तमुदङ्को महातेजाः सर्वास्त्रविदुषांवरम् ।
न्यवारयदमेयात्मा समासाद्य पुरोत्तमे ॥ ३.२०५.१० ॥
乌丹伽大放光明,是通晓一切兵器者中最优秀的,心量无限,他在那座殊胜的城中赶上了布哈达湿婆并加以劝阻。
3.205.11
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि ।
निरुद्विग्रा वयं राजंस्त्वत्प्रदाद्वसेमहि ॥ ३.२०५.११ ॥
你应当施以保护;这正是你现在应做的。大王啊,愿因你的恩赐,我们无忧而居。
3.205.12
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ।
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ॥ ३.२०५.१२ ॥
大王啊,当这大地由你这大德之人守护时,它必定无忧;你不应前往森林。
3.205.13
पालन हि महान्धर्मः प्रजानामिह दृश्यते ।
न तथा दृश्यतेऽरण्ये माभूत्ते बुद्धिरीदृशी ॥ ३.२०५.१३ ॥
在此,保护臣民被视为大法;在林中则不然。愿你的心志不要如此。
3.205.14
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते ।
प्रजानां पालने यत्नः पुरा राजर्षिभिः कृतः ॥ ३.२०५.१४ ॥
啊,诸王之主,如此之法在任何地方都见不到。这正是古代王仙在保护臣民时所付出的努力。
3.205.15
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ।
निरुद्विग्नस्तपस्तप्तुं न हि शक्नोमि पार्थिव ॥ ३.२०५.१५ ॥
臣民应当由君王守护,而你理应守护他们。啊,君王,我无法在不安之中修行苦行。
3.205.16
ममाश्रमसमीपे वै समेषु मरुधन्वसु ।
समुद्रवालुकापूर्ण उज्जालक इति स्मृतः।
बहुयोजनविस्तीर्णो बहुयोजनमायतः ॥ ३.२०५.१६ ॥
在我的修行处附近,在平坦的沙漠之中,有一处充满海沙的地方,名叫乌贾拉卡,宽达许多由旬,长亦达许多由旬。
3.205.17
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः ।
मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः।
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः ॥ ३.२०५.१७ ॥
那里住着名叫敦度的凶猛檀那婆之主,他是摩度与凯塔巴的儿子,有着巨大的力量与勇武。啊,君王,他极为可怕;他隐藏在大地深处居住,其威力无穷。
3.205.18
तं निहत्य महाराज वनं त्वं गन्तुमर्हसि ॥ ३.२०५.१८ ॥
啊,大王,在杀死他之后,你便应当前往森林。
3.205.19
शेते लोकविनाशाय तप आस्थाय दारुणम् ।
त्रिदशानां विनाशाय लोकानां चापि पार्थिव ॥ ३.२०५.१९ ॥
他已修习可怕的苦行,正躺卧在那里,为了毁灭世界,哦国王,为了毁灭诸天神与世界。
3.205.20
अवध्यो दैवतानां हि दैत्यानामथ रक्षसाम् ।
नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः।
अवाप्यस वरं राजन्सर्वलोकपितामहात् ॥ ३.२०५.२० ॥
他无论如何都不可能被天神、阿修罗、罗刹、那伽、夜叉或乾闼婆杀死。哦国王,你从诸世界之祖那里得到了这个恩赐。
3.205.21
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा ।
प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् ॥ ३.२०५.२१ ॥
去毁灭他吧,愿你平安。愿你的心念不要有别的想法。你将获得伟大、长久、不朽而坚固的名声。
3.205.22
क्रूरस्य तस्य स्वपतो वालुकान्तर्हितस्य च ।
संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते ॥ ३.२०५.२२ ॥
一年将尽时,那残忍者正在沙中睡眠隐藏,他的呼气便开始涌动。
3.205.23
यदा तदा भूश्चलति सशैलवनकानना ।
तस्य निःश्वासवातेन रज उद्धूयते महत् ॥ ३.२०५.२३ ॥
那时,大地连同山岳、森林和林园一起震动,因他呼气的风,巨大的尘土被扬起。
3.205.24
आदित्यरथमाश्रित्य सप्ताहं भूमिकम्पनम् ।
सविस्फुलिङ्गं सज्वालं धूममिश्रं सुदारुणम् ॥ ३.२०५.२४ ॥
依托太阳之车,地震持续七日,极为可怕,伴随火星、火焰,并混杂烟雾。
3.205.25
तेन राजन्न शक्नोमि तस्मिन्स्तातुं स्वआंश्रमे ॥ ३.२०५.२५ ॥
君王啊,因为他,我无法留在自己的修行处。
3.205.26
तं विनाशय राजेन्द्र लोकानां हितकाम्यया ।
लकाः स्वस्था भविष्यन्ति तस्मिन्विनिहतेऽसुरे ॥ ३.२०५.२६ ॥
王中之王啊,出于对世界福祉的愿望,请消灭他;那阿修罗被杀之后,世界将得安宁。
3.205.27
धुन्धुनामानमत्युग्रं दानवं धोरविग्रहम् ।
समरे धोरतुमुले विनाशय महेषुणा ॥ ३.२०५.२७ ॥
在那场可怕而喧嚣的战斗中,用大箭消灭名为钝都、极其凶猛、形貌可怖的檀那婆。
3.205.28
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः ।
तेजसा तव तेजश्च विष्णुराप्यायविष्यति ॥ ३.२०५.२८ ॥
我的看法是,你一人足以消灭他;而毗湿奴也将借你的光辉增益你的光辉。
3.205.29
विष्णुना च वरो दत्तः पूर्वं मम महीपते ॥ ३.२०५.२९ ॥
而且,大地之主啊,毗湿奴以前曾赐予我一个恩惠。
3.205.30
यस्तं महासुरं रौद्रं वधिष्यति महीपतिः ।
तेजस्तद्वैष्णवमिति प्रवेक्ष्यति दुरासदम् ॥ ३.२०५.३० ॥
谁杀死那个伟大而凶猛的阿修罗,毗湿奴那难以接近的威光便将进入他的体内。
3.205.31
तत्तेजस्त्वंसमाधाय राजेन्द्र भुवि दुःसहम् ।
तं निषूदय संदिष्टो दैत्यं रौद्रपराक्रमम् ॥ ३.२०५.३१ ॥
啊,众王之王!承受大地上那难以承受的光辉,受命之后,去诛灭那位威力可怖的达提亚。
3.205.32
न हि धुन्धुर्महातेजास्तेजसाऽल्पेन शक्यते ।
निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ॥ ३.२०५.३२ ॥
啊,大地的守护者!大光辉的敦度,不能用微小的光辉将他焚毁;即使经历数百年也不能。