Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.207

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.207.1

धुन्धुर्नाम महाराज तयोः पुत्रो महाद्युतिः ।
स तपोऽतप्यत महन्महावीर्यपराक्रमः ॥ ३.२०७.१ ॥

大王啊,他们的儿子名叫屈陀,光辉极盛。他拥有巨大的勇力与威能,修习了大苦行。

3.207.2

अतिष्ठदेकपादेन कृशो धमनिसंततः ।
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम् ॥ ३.२०७.२ ॥

他单足站立,身形消瘦,全身血脉凸显。梵天心生喜悦,赐予他一个恩惠,他便向这位主宰选择了一个恩惠。

3.207.3

देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् ।
अवध्योऽहं भवेयं वै वर एष वृतो मया ॥ ३.२०७.३ ॥

"愿我不会被天神、檀那婆、夜叉、蛇、乾闼婆和罗刹所杀——这就是我所选的恩惠。"

3.207.4

एवं भवतु गच्छेति तमुवाच पितामहः ।
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृष्ट्वा जगाम ह ॥ ३.२०७.४ ॥

"就这样吧,去吧。"祖父对他这样说。他听后以头触其双足,然后离去了。

3.207.5

सतु धुन्धुर्वरं लब्ध्वा महवीर्यपराक्रमः ।
अनुस्मरन्पितृवधं द्रुतं विष्णुमुपागमत् ॥ ३.२०७.५ ॥

屈陀获得了那个恩惠,成为大勇力、大威能之人,念着父亲被杀之仇,迅速来到毗湿奴面前。

3.207.6

सतु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः ।
बबाध सर्वानसकृद्विष्णुं देवांश्च वै भृशम् ॥ ३.२०७.६ ॥

然而屈陀性情暴烈,他与乾闼婆一同击败天神,一次又一次地极其残害众神,包括毗湿奴与诸天神。

3.207.7

समुद्रवालुकापूर्णे उज्जानक इति स्मृते ।
आगम्य च स दुष्टात्मा तं देशं भरतर्षभ।
बाधतेस्म परं शक्त्या तमुदङ्काश्रमं विभो ॥ ३.२०७.७ ॥

那个邪恶的人来到这片充满海沙、被称为乌遮那伽的地方,啊,婆罗多中最优秀的人,啊,大能者,他以其力量极力骚扰乌当伽的修道场。

3.207.8

अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तथा ।
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ॥ ३.२०७.८ ॥

他进入地下,隐藏在沙中。摩闍与盖塔巴之子檀度,勇猛可怖。

3.207.9

शेते लोकविनाशाय तपोबलमुपाश्रितः ।
उदङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ॥ ३.२०७.९ ॥

为毁灭世界,他依靠苦行之力,躺卧在乌当伽修道场附近,呼出火焰般的气息。

3.207.10

एतस्मिन्नेव काले तु राजा सबलवाहनः ।
कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ॥ ३.२०७.१० ॥

就在此时,国王乌缚拉修婆——人主——率领军队与车骑到来,身边有众多勇士相随。

3.207.11

सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः ।
प्रायादुदङ्कसहितो धुन्धोस्तस्य वधाय वै ॥ ३.२०७.११ ॥

这位摧敌之王,率领二十一千个儿子,与乌当伽同行,前去杀害檀度。

3.207.12

तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः ।
उदङ्कस् नियोगेन लोकानां हितकाम्यया ॥ ३.२०७.१२ ॥

于是,世尊毗湿奴,主宰者,以其光辉进入了他(乌当伽)之中,依乌当伽之命,出于利益世界的愿望。

3.207.13

तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ।
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ ३.२०७.१३ ॥

那不可战胜者离去之时,天空中响起巨大的声音:这位光荣的王子将成为敦度摩罗。

3.207.14

दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् ।
देवदुन्दुभयश्चापि नेदुः स्वयमनीरिताः ॥ ३.२०७.१४ ॥

诸神从四面八方向他洒下神圣的花朵,天上的神鼓也自行鸣响。

3.207.15

शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः ।
विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः।
प्रदक्षिणाश्चाप्यभवन्वन्यास्तं समृगद्विजाः ॥ ३.२०७.१५ ॥

那智者出发时,凉风吹起;众神之主降下甘雨,使大地无尘;林中的鹿与鸟兽都绕着他行右旋礼。

3.207.16

अन्तरिक्षे विमानानि देवतानां युधिष्ठिर ।
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः ॥ ३.२०७.१६ ॥

般度之子啊,天空中出现了诸神的天车,正在大阿修罗敦度所在之处。

3.207.17

कुवलाश्वस्य धुन्योश्च युद्धकौतूहलान्विताः ।
देवगन्धर्वसहिताः समवैक्षन्महर्षयः ॥ ३.२०७.१७ ॥

诸大仙人怀着观看库伐拉什瓦与敦度之战的热切心情,与诸神和乾闼婆一同观看。

3.207.18

नारायणेन कौरव्य तेजसाऽऽप्यायितस्तदा ।
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम् ॥ ३.२०७.१८ ॥

俱卢之子啊,那时那位君王得到那罗延之威的加持,便与诸子迅速向四方而去。

3.207.19

अर्णवं स्वानयामास कुवलाश्वो महीपतिः ।
हितार्तं सर्वलोकानामुदङ्कस्य वशे स्थितः ॥ ३.२०७.१९ ॥

为了一切世界的利益而忧心、且处于乌檀迦支配之下的国王库婆罗湿婆,为自己召来了大海。

3.207.20

कुवलाश्वस् पुत्रैश्च तस्मिन्वै वालुकार्णवे ।
सप्तभिर्दिवसैः स्वात्वा दृष्टो धुन्धुर्महाबलः ॥ ३.२०७.२० ॥

库婆罗湿婆与他的儿子们在那沙海中沐浴了七天,看见了大力的顿陀。

3.207.21

आसीद्धोरं वपुस्तस्य वालुकान्तर्हितं महत् ।
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ॥ ३.२०७.२१ ॥

婆罗多的雄牛啊,他那隐藏在沙中的可怖而巨大的身躯,如太阳般光芒四射。

3.207.22

ततो धुन्धुर्महाराज दिशमावृत्य पश्चिमाम् ।
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः ॥ ३.२०७.२२ ॥

大王啊,王中猛虎,顿陀于是睡去,遮蔽了西方,其光辉如末日之火。

3.207.23

कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः ।
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ॥ ३.२०७.२३ ॥

库婆罗湿婆的儿子们从四面八方包围了他,以利箭、棍棒和铁杵攻击他。

3.207.24

प्टसैः परिधैः प्रासैः खङ्गैश् विमलैः शितैः ।
सवध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः ॥ ३.२०७.२४ ॥

被铁棍、铁棒、长矛和明亮锋利的剑击打,大力者愤怒地站了起来。

3.207.25

क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च ।
आस्याद्वमन्पावकं स संवर्तकसमं तदा ॥ ३.२०७.२५ ॥

他愤怒地吞下了他们各式各样的兵器,口中喷出烈火,此时他如同毁灭世界的劫火(संवर्तक)一般。

3.207.26

तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा ।
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ॥ ३.२०७.२६ ॥

他愤怒地以自身的威光焚毁了国王的所有儿子;以从口中生出的火焰,他仿佛要将世界倾覆。

3.207.27

क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः ।
सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ॥ ३.२०७.२७ ॥

王中之虎啊,正如往昔主尊迦毗罗愤怒之下于瞬间焚毁了萨伽罗之子,此事便成了奇迹。

3.207.28

तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम ।
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम्।
आससाद महातेजाः कुवलाश्वो महीपतिः ॥ ३.२०७.२८ ॥

婆罗多中最优秀者啊,在被愤怒之火焚毁的人群中,大光明的国王曲缚湿婆(Kuvalāśva)此时走近了那位觉醒的大士,他仿佛是另一个俱缚罗(Kumbhakarṇa)。

3.207.29

तस्य वारिमहाराज सुस्राव बहु देहतः ।
तत्तदापीयतेतेजो राज्ञा वारिमयं नृप ॥ ३.२०७.२९ ॥

大王啊,他的身体涌出了大量水;此时,王啊,国王将那由水构成的火力吸尽了。

3.207.30

योगी योगेन सृष्टं स समयित्वा च वारिणा ।
ब्रह्मास्त्रेण ततो राजा दैत्यंक्रूरपराक्रमम्।
ददाह भरतश्रेष्ठ सर्वलोकभवाय वै ॥ ३.२०७.३० ॥

瑜伽士以水平息了由他瑜伽所生之火;随后,国王以梵天之箭焚毁了那位威力残暴的檀那婆,婆罗多中最优秀者啊,为了一切世界的福祉。

3.207.31

सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् ।
सुरशत्रुममित्रघ्नस्त्रैलोक्येश इवापरः ॥ ३.२०७.३१ ॥

他以神箭焚毁了那大阿修罗,诸神之敌。这位击败敌人的王仙,仿佛成为了三界的另一位主宰。

3.207.32

धुन्धोर्वधात्तदा राजा कुवलाश्वो महामनाः ।
धुन्धुमार इतिख्यातो नाम्ना समभवत्ततः ॥ ३.२०७.३२ ॥

因为杀死了顿度,那位心胸宽广的国王库伐罗斯瓦此后以顿度摩罗之名闻名于世。

3.207.33

प्रीतैश्च त्रेदशैः सर्वैर्महर्षिमसितैस्तदा ।
परं वृणीष्वत्युक्तः स प्राञ्जलिः प्रणतस्तदा।
अतीव मुदितो राजन्निदंवचनमब्रवीत् ॥ ३.२०७.३३ ॥

于是诸神、所有大仙和阿悉多欢喜地说:'请选择最好的恩惠。'于是他合掌礼拜,极为欢喜,大王啊,说出了这些话。

3.207.34

दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः ।
सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च।
धर्मे रतिश् सततं स्वर्गे वासस्तथाऽक्षयः ॥ ३.२०७.३४ ॥

愿我将财富布施给最优秀的再生者,使敌人无法战胜我,与毗湿奴结为友谊,对众生不加伤害,常常喜乐于法,并在天界获得永恒的居所。

3.207.35

तथाऽस्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः ।
ऋषिभिश्च सगन्धर्वैरुदङ्केन च धीमता ॥ ३.२०७.३५ ॥

'就这样吧'——满心欢喜的诸神、诸仙、乾达婆以及智者乌伽迦便对那位国王这样说。

3.207.36

संभाष्य चैनं विविधैराशीर्वादैस्ततो नृषम् ।
देवा महर्षयश्चापि स्वानि स्तानानि भेजिरे ॥ ३.२०७.३६ ॥

随后,诸神与大仙以种种祝福与那位国王交谈之后,也各自返回了自己的住处。

3.207.37

तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाऽभवन् ।
दृढाश्वः कपिलाश्वश्च भद्राश्वश्चैव भारत ॥ ३.२०७.३७ ॥

慧智啊,那时他剩下三个儿子:坚马、黄马与善马,婆罗多啊。

3.207.38

तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् ।
वंशस्य सुमहाभाग राज्ञाममिततेजसाम् ॥ ३.२०७.३८ ॥

国王啊,由他们传下了伟大的甘蔗王族的世系,那是无量光辉之王的家族,极有福德者啊。

3.207.39

एवंसं निहतस्तेन कुवलाश्वेन सत्तम ।
धुन्धुर्नाम महादैत्यो मधुकैटभयोः सुतः ॥ ३.२०७.३९ ॥

善人中的至上者啊,就这样,那位名为坦度的大阿修罗——摩度与凯塔巴之子——被他,被库婆罗奔杀死了。

3.207.40

कुवलाश्वश्च नृपतिर्धुन्धुमार इति स्मृतः ।
नाम्ना च गुणयुक्तेन तदाप्रभृति सोऽभवत् ॥ ३.२०७.४० ॥

国王库婆罗奔从那时起,便以其有功德的名号被称为坦度摩罗。

3.207.41

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ॥ ३.२०७.४१ ॥

你问我的一切,都已经告诉你了——这段因其事迹而闻名的坦度摩罗故事。

3.207.42

इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् ।
शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ॥ ३.२०७.४२ ॥

此功德之传说乃是对毗湿奴的赞颂;听闻此传说的人将成为心怀正法之人,并得子嗣。

3.207.43

आयुष्मान्भूतिमांश्चैव श्रुत्वा भवति पर्वसु ।
न च व्याधिभंयकिंचित्प्राप्नोति विगतज्वरः ॥ ३.२०७.४३ ॥

于节日之时闻听此篇者,得享长寿与福祉;毫无病患之惧,脱离热病之苦。