摩诃婆罗多 · 章 3.217
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.217.1
एवं संकथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर ।
दृढप्रीतमना विप्रो धर्मव्याधमुवाच ह ॥ ३.२१७.१ ॥
如此,युधिष्ठिर啊,解脱法的全部教导已被讲述完毕,那位心意坚定喜悦的婆罗门对法猎人说道。
3.217.2
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम् ।
न तेऽस्त्यविदितं किंचिद्धर्मेष्वभिसमीक्ष्यते ॥ ३.२१७.२ ॥
你将这一切依照正理宣说了;在诸法之中,似乎没有什么是你不知道的。
3.217.3
प्रत्यक्षं मम यो धर्मस्तं च पश्य द्विजोत्तम ।
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव ॥ ३.२१७.३ ॥
请看我那显而易见的法,二生者中最优秀的人啊;我正是借此获得了这份成就,婆罗门中的至尊啊。
3.217.4
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम् ।
द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे ॥ ३.२१७.४ ॥
尊者请起,快快走入里屋吧;懂法的人啊,您应当见一见我的母亲和父亲。
3.217.5
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् ।
सौधं हृद्यं चतुःशालमतीव च मनोरमम् ॥ ३.२१७.५ ॥
被这样请求之后,他走了进去,看见一座备受尊敬、令人愉悦、有四个厅堂、极其迷人的宅第。
3.217.6
देवतागृहसंकाश दैवतैश्च सुपूजितम् ।
शयनासनसंबाधं गन्धैश्च परमैर्युतम् ॥ ३.२१७.६ ॥
它如同神庙一般,被诸神很好地供奉,床榻与座席充满其间,并有上好的香气。
3.217.7
तत्रशुक्लाम्बरधरौ पितरावस्य पूजितौ ।
कृताहारौ तु संतुष्टावुपविष्टौ वरासने ॥ ३.२१७.७ ॥
他的父母身着白衣,受到敬奉,用过饭后,满意地坐在上好的座位上。
3.217.8
तस्य व्याधस्य पितरौ ब्राह्मणः संददर्श ह ।
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसाऽपतत् ॥ ३.२१७.८ ॥
婆罗门看见了那位猎人的父母。法猎人见到他们,便以头叩于他们的脚下。
3.217.9
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु ।
प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि।
गतिमिष्टां तपो ज्ञानं मेधां च परमां गतः ॥ ३.२१७.९ ॥
起来吧,起来吧,知法者!愿法护佑你。因你的清净,我们欢喜;愿你获得长寿。愿你得到所愿的归宿、苦行、智慧与至上的慧心。
3.217.10
सत्पुत्रेण त्वया पुत्र नित्यं काले सुपूजितौ ।
सुखमेव वसावोऽत्र देवलोकगताविव ॥ ३.२१७.१० ॥
孩子啊,你是善良的儿子,我们总是按时受到你的良好敬奉。在此我们安乐地居住,仿佛已到达天界一般。
3.217.11
न तेऽन्यद्दैवतं किंचिद्दैवतेष्वपि वर्तते ।
प्रयतसत्वाद्द्विजातीनांदमेनासि समनवितः ॥ ३.२१७.११ ॥
对你而言,即使在诸神之中也没有别的神。你以清净的本性,具备了再生族那样的自制。
3.217.12
पितुः पितामहा ये च तथैव प्रपितामहाः ।
प्रीतास्ते सततं पुत्र दमेनावां च पूजया ॥ ३.२१७.१२ ॥
你父亲的祖父们,以及曾祖父们,儿啊,都因你的自制与我们的供奉而时常欢喜。
3.217.13
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते ।
न चान्या हि तथा बुद्धिर्दृश्यते सांप्रतं तव ॥ ३.२१७.१३ ॥
以心、以行、以言的侍奉并未减少,此刻在你身上也看不到别的心意。
3.217.14
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ ।
तथा त्वया कृतंसर्वंतद्विशिष्टं च पुत्रक ॥ ३.२१७.१४ ॥
正如杰玛达格尼之子罗摩很好地尊敬两位老人一样,孩子,你也全都做到了,而且更为殊胜。
3.217.15
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् ।
तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा ॥ ३.२१७.१५ ॥
于是法猎人向他们二人通报了那位婆罗门,二人以欢迎之礼敬奉这位婆罗门。
3.217.16
प्रतिगृह्यच तां पूजां द्विजः पप्रच्छ तावुभौ ।
सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे।
अनामय च वां कच्चित्सुखं वेह शरीरयोः ॥ ३.२१७.१६ ॥
接受了这份敬意后,婆罗门问他们二人:“你们家中与子女、仆役是否平安?你们的身体是否健康安乐?”
3.217.17
कुशलं नौ गृहे विप्र भृत्यवर्गे च सर्वशः ।
कच्चित्त्वमप्यविघ्नेन संप्राप्तो भगवन्निति ॥ ३.२१७.१७ ॥
婆罗门啊,我们家中与仆役之间一切平安。尊者啊,您也没有遇到阻碍就到达了吗?
3.217.18
हाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः ।
धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् ॥ ३.२१७.१८ ॥
“是的,我们确实平安。”婆罗门满心欢喜地回答他们二人。随后法猎人对这位婆罗门说了有意义的话。
3.217.19
पिता माता च भगवन्नेतौ मे दैवतं परम् ।
यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् ॥ ३.२१७.१९ ॥
父亲和母亲,尊者啊,这两位是我至高的神明。凡应为众神所做之事,我都为这二位而做。
3.217.20
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः ।
संपूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम ॥ ३.२१७.२० ॥
如同以因陀罗为首的三十三天神受到一切世界的尊崇,我这两位老人也同样值得尊敬。
3.217.21
उपाहारानाहरन्तो देवतानां यथा द्विजः ।
कुर्वन्ति तद्वदेताभ्यां करोम्यहमतन्द्रितः ॥ ३.२१७.२१ ॥
如同婆罗门为诸神奉上供物,我也不知疲倦地为这二位如此行事。
3.217.22
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम् ।
एतौ पुष्पैः फलैरन्नैस्तोषयामि सदा द्विज ॥ ३.२१७.२२ ॥
婆罗门啊,这二位——父亲和母亲——是我至高的神明。二生者啊,我总是以鲜花、果实和食物令他们欢喜。
3.217.23
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः ।
यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज ॥ ३.२१७.२३ ॥
智者称为我之圣火的,正是这二位。祭祀和四吠陀也同样,二生者啊,对我而言,这二位便是一切。
3.217.24
एतदर्थं मम प्राणा भार्या पुत्रः सुहृज्जनः ।
सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् ॥ ३.२१७.२४ ॥
为此,我的生命、妻子、儿子和朋友才得以存在。我与儿子、妻子一同,常常侍奉他们。
3.217.25
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये ।
आहारं च प्रयच्छामि स्वयंच द्विजसत्तम ॥ ३.२१७.२५ ॥
我亲自为这二人沐浴,也亲自洗他们的脚;我也亲自给他们送上食物,哦,二生者中最优秀的人。
3.217.26
अनुकूलाः कथा वच्मि विप्रियं परिवर्जये ।
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् ॥ ३.२१७.२६ ॥
我对他们说顺耳的话,避开令人不快的事;为了让这二人欢喜,即使是与非法相连的事,我也会去做。
3.217.27
धर्ममेव गुरुं मत्वा साक्षादेतौ द्विजोत्तम ।
अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ॥ ३.२१७.२७ ॥
哦,二生者中最优秀的人,我把这二人视为法本身和我的导师,始终不知疲倦地侍奉他们;哦,婆罗门,我确实在做这项侍奉。
3.217.28
पञ्चैव गुरवो ब्रह्मनपुरुषस्य बुभूषतः ।
पिता माताऽग्निरात्मा च गुरुश्च द्विजसत्तम ॥ ३.२१७.२८ ॥
婆罗门啊,对于希望兴盛的人来说,确实有五位尊长:父亲、母亲、火、自我与师长。二生者中最优秀的人啊。
3.217.29
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम ।
भवेयुरप्रयस्तेन परिचीर्णास्तु नित्यशः।
गार्हस्थ्ये वर्तमानस्य एष धर्मः सनातनः ॥ ३.२१७.२९ ॥
哦,二生者中最优秀的人,凡是正确对待这些人、并始终侍奉他们的人,这些尊长对他而言便永不减损。对于过家居生活的人来说,这便是永恒的法。