摩诃婆罗多 · 章 3.218
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.218.1
गुरू निवेद्य विप्राय तौ मातापितरावुभौ ।
पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् ॥ ३.२१८.१ ॥
告知那两位尊长——父母之后,这位心地正直的猎人又对婆罗门说道。
3.218.2
प्रवृत्तचक्षुर्जातोस्मि संपश्य तपसो बलम् ।
यदर्थमुक्तोसि तया गच्छ त्वं मिथिलामिति ॥ ३.२१८.२ ॥
我的慧眼已经开启,我仿佛重获新生。请看苦行的力量。为了她告诉你的那个目的,你去往弥提罗吧。
3.218.3
पतिशुश्रूषपरया दान्तया सत्यशीलया ।
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ॥ ३.२१८.३ ॥
因为她——专心侍奉丈夫、自我克制、性情诚实——住在弥提罗的那位猎人,将为你讲说诸法。
3.218.4
पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत ।
संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः ॥ ३.२१८.४ ॥
坚守誓愿的人啊,精通法者啊!想起那位忠于丈夫、诚实、品行高尚的妻子的话,你在我看来是有德之人。
3.218.5
यत्तया त्वं द्विजश्रेष्ठ नियुक्तो मां प्रति प्रभो ।
दृष्टमेव तया सम्यगेकपत्न्या न संशयः ॥ ३.२१८.५ ॥
二生者中最尊贵者,大人啊!她派你来到我这里,那位一夫一妻的女子看得很准确,毫无疑问。
3.218.6
त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया ।
वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज ॥ ३.२१८.६ ॥
婆罗门啊,我出于善待你的心意,才把这些展示给你。现在请听我的话,我的孩子,二生者啊;我要告诉你对你有益的事。
3.218.7
त्वया न पूजिता माता पिता च द्विजसत्तम ।
अनिसृष्टोसि निष्क्रान्तो गृहात्ताभ्यामनिनदित ॥ ३.२१८.७ ॥
最优秀的再生者啊,你没有尊敬母亲和父亲。未得他们允许,也未得他们祝福,你便离开了家。
3.218.8
वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् ।
तव शोकेन वृद्धौ तावन्धीभूतौ तपस्विनौ ॥ ३.२१८.८ ॥
你为了诵读吠陀所做之事是不当的。由于你的悲伤,那对年老的苦行者已经双目失明。
3.218.9
तौ प्रसादयितुं गच्छ मा त्वां धर्मोऽत्यगादयम् ।
तपस्वी त्वं महात्मा च धर्मे च निरतः सदा ॥ ३.२१८.९ ॥
去安抚他们吧,免得此法超越了你。你是苦行者、大德之人,并且始终专注于法。
3.218.10
सर्वमेतदपार्थं ते क्षिप्रं तौ संप्रसादय ।
तौ प्रसाद्य द्विजश्रेष्ठ यच्छ्रेयस्तदवाप्स्यसि ॥ ३.२१८.१० ॥
你所做的这一切都是徒劳的。快快将那两人完全安抚。最优秀的再生者啊,安抚他们之后,你将获得善果。
3.218.11
श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि ।
यम्यतामद्यविप्रर्षे श्रेयस्ते कथयाम्यहम् ॥ ३.२१८.११ ॥
婆罗门啊,信任我,不要另行其事。婆罗门圣人啊,今日请克制自己;我为你说那善的道理。
3.218.12
यदेतदुक्तं भवता सर्वं सत्यमसंशयम् ।
प्रीतोस्मि तव भद्रं ते धर्माचारगुणान्वित ॥ ३.२१८.१२ ॥
你所说的一切,毫无疑问都是真实的。我对你很满意。愿你吉祥,具有正法行为与德性的人啊!
3.218.13
दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः ।
पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः ॥ ३.२१८.१३ ॥
你如神明一般,遵循正法。这古老、永恒、神圣的正法,对于未能自我克制之人而言难以获得。
3.218.14
मातापित्रोः सकाशं हि गत्वात्वं द्विजसत्तम ।
अतन्द्रितः कुरु क्षिप्रंमातापित्रोर्हि पूजनम्।
अतः परमहं धर्मं नान्यं पश्यामि कंचन ॥ ३.२१८.१४ ॥
去见你的父母,二生族中最优秀的人,不懈怠地迅速侍奉父母。除此之外,我看不到任何别的正法。
3.218.15
इहाहमागतो दिष्ट्या दिष्ट्या मे संगतं त्वया ।
ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः ॥ ३.२१८.१५ ॥
我幸运地来到这里;幸运地与你相遇。能如此显示正法的人,在世间是罕见的。
3.218.16
एकोनरसहस्रेषु धर्मवानविद्यते न वा ।
प्रीतोस्मि तवसत्येन भद्रं ते पुरुषर्षभ ॥ ३.२१८.१६ ॥
在千人之中,是否有一位遵行正法的人呢?人中雄牛啊,我因你的真实而欢喜;愿你吉祥。
3.218.17
पतमानोऽद्यनरके भवताऽस्मि समुद्धृतः ।
भवितव्यमथैवं च यद्दृष्टोसि मयाऽनघ ॥ ३.२१८.१७ ॥
今日我将堕入地狱,却被你救起。事情本当如此,所以我才见到你,无过之人啊。
3.218.18
राजा ययातिर्दौहित्रैः पतितस्तारितो यथा ।
सद्भिः पुरुषशार्दूल तथाऽहं भवता त्विह ॥ ३.२१८.१८ ॥
正如国王耶耶提跌落之时,由其外孙与善人所救,同样在此我由你所救,人中之虎啊。
3.218.19
मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव ।
नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् ॥ ३.२१८.१९ ॥
听从你的话,我将侍奉母亲和父亲。未修养的心灵无法辨明法与非法的抉择。
3.218.20
दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता ।
न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् ॥ ३.२१८.२० ॥
即使身处首陀罗之胎,永恒的法也难以知晓。我不认为你是首陀罗;必定有其缘由。
3.218.21
येन कर्मविशेषेण प्राप्तेयं शूद्रता त्वया ।
एतामिच्छामि विज्ञातुं तत्त्वेन तव शूद्रताम्।
कामयानस् मे शंस सर्वं त्वं प्रयतात्मवान् ॥ ३.२१८.२१ ॥
你因何种特定的行为而得此首陀罗之身?我想如实知道。心有所愿,请你把一切都告诉我,你这自制之人。
3.218.22
अनतिक्रमणीया वै ब्राह्मणा मे द्विजोत्तम ।
शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ ॥ ३.२१८.२२ ॥
婆罗门的话我不敢违逆,二生者中的最上者。无垢之人啊,请听我前世之身的全部经过。
3.218.23
अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मजः ।
वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः।
आत्मदोषकृतैर्ब्रह्मन्नवस्थामाप्तवानिमाम् ॥ ३.२१८.२३ ॥
我从前是婆罗门,乃一位优秀二生者之子。我习诵吠陀,极为熟练,精通吠陀支分。婆罗门啊,因我自己的过错,我落到了这般境地。
3.218.24
कश्चिद्राजा मम सखा धनुर्वेदपरायणः ।
संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज ॥ ३.२१८.२४ ॥
有一位国王是我的朋友,他专心于弓术之学。因与他结交,我在射箭上成为了佼佼者,二生者啊。
3.218.25
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः ।
सहितो योधमुख्यैश् मन्त्रिभिश्च सुसंवृतः।
ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति ॥ ३.२१८.२५ ॥
就在那时,国王出外打猎,身边簇拥着主要的武士和大臣。他在那里,靠近修行处,射倒了许多鹿。
3.218.26
अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम ।
ताडितश्च ऋषिस्तन शरेणानतपर्वणा ॥ ३.२१८.२६ ॥
于是,二生者中最杰出的人啊,我也射出了一支可怕的箭,那位仙人被这支带弯曲尾羽的箭射中。
3.218.27
भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् ।
नापराध्याम्यहं किंचित्केन पापमिदं कृतम् ॥ ३.२१८.२७ ॥
婆罗门啊,他倒在地上,回声般地说道:“我没有犯任何过错;这罪孽是谁造成的?”
3.218.28
मन्वानस्तं मृगं चाहं संप्राप्तः सहसा मुनिम् ।
अपश्यं तमृषिं विद्धं शरेणानतपर्वणा।
तमुग्रतपसं विप्रं निष्टनन्तं महीतले ॥ ३.२१८.२८ ॥
我以为那是鹿,便突然走近那位仙人。我看见那位仙人被带弯曲尾羽的箭射穿,那位苦行极严的婆罗门正躺在地上呻吟。
3.218.29
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः ।
अजानता कृतमिदं मयेत्यहमथाब्रुवम् ॥ ३.२१८.२९ ॥
因做了不该做的事,我的心非常痛苦。我于是说:“这是我无知之中所做的。”
3.218.30
क्षन्तुमर्हसि मे सर्वमिति चोक्तो मया मुनिः ॥ ३.२१८.३० ॥
“请您宽恕我这一切。”我对那位仙人这样说。
3.218.31
ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्च्छितः ।
व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज ॥ ३.२१८.३१ ॥
那时,被愤怒冲昏的仙人对我说:“残忍的你,再生者,你将在首陀罗之胎中成为猎人。”