Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.219

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.219.1

एवं शप्तोऽहमृषिणा तदा द्विजबरोत्तम ।
अहं प्रासादयमृषिं गिरा वाक्यविशारदम् ॥ ३.२१९.१ ॥

二生者中最优秀的人啊,被仙人如此诅咒后,我便用言辞去安抚那位善于言辞的仙人。

3.219.2

अजानता मयाऽकार्यमिदमद्य कृतं मुने ।
क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति ॥ ३.२१९.२ ॥

贤者啊,我无知,今日做了这件不当之事。请您原谅这一切吧。尊者啊,请息怒施恩。

3.219.3

नान्यथा भविता शाप एवमेतदसंशयम् ।
आनृशंस्यात्त्वंहकिंचित्कर्ताऽनुग्रहमद्य ते ॥ ३.२१९.३ ॥

此咒不会改变,无疑会如此。但出于慈悲,今日我将对你施以些许恩惠。

3.219.4

शूद्रयोन्यां वर्तमानो धर्मज्ञो हि भविष्यसि ।
मातापित्रोश् शुश्रूषां करिष्यसि न संशयः ॥ ३.२१९.४ ॥

你将生于首陀罗之胎,但必定成为知法之人。你将侍奉父母,这毫无疑问。

3.219.5

तयोः शुश्रूषया सिद्धिं महतीं समवाप्स्यसि ।
जातिस्मरश् भविता स्वर्गं चैव गमिष्यसि ॥ ३.२१९.५ ॥

凭借侍奉他们,你将获得伟大的成就。你将能忆起前世,并且必定升入天界。

3.219.6

भूत्वाच धार्मिको व्याधः पित्रोः शुश्रूषणे रतः ।
शापक्षये तु निर्वृत्ते भविताऽसि पुनर्द्विजः ॥ ३.२१९.६ ॥

你将成为一名正直的猎人,致力于侍奉父母;待咒力消尽之时,你将再度成为二生者。

3.219.7

एवं शप्तः पुरा तेन ऋषिणाऽस्म्युग्रतेजसा ।
प्रसादश्च कृतस्तेन ममैव द्विपदांवर ॥ ३.२१९.७ ॥

从前,我被那位威光猛烈的仙人诅咒;也是他赐予我恩典,两足者中的最优秀者啊。

3.219.8

शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम ।
आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत ॥ ३.२१९.८ ॥

两度生者中的最优秀者啊,我拔出了他身上的箭,把他带到了隐修处,他的生命并未离去。

3.219.9

एतत्ते सर्वमाख्यातं यथा मम पुराऽभवत् ।
अभितश्चापि गन्तव्यो मया स्वर्गो द्विजोत्तम ॥ ३.२१९.९ ॥

我已把从前发生在我身上的一切都告诉了你;两度生者中的最优秀者啊,我还要四处游历,前往天界。

3.219.10

एवमेतानि पुरुषा दुःखानि च सुखानि च ।
आप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि ॥ ३.२१९.१० ॥

人就这样经历苦与乐;大智者啊,你不应当心生沮丧。

3.219.11

दुष्करं हि कृतंकर्म जानता जातिमात्मनः ।
लोकवृत्तान्ततत्त्वज्ञ नित्यं धर्मपरायण ॥ ३.२१९.११ ॥

你明知自己的出身,却做了一件艰难的事——你这位通晓世间事理、始终坚守法(达摩)的人啊。

3.219.12

कर्मदोषाच्च वै विद्वन्नात्मजातिकृतेन वै ।
कंचित्कालं मृष्यतां वै ततोसि भविता द्विजः ॥ ३.२१९.१२ ॥

博学者啊,你应当暂且忍耐那因业的过失和自身出身而来的果报;之后你将成为再生者(两度生者)。

3.219.13

सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः ॥ ३.२१९.१३ ॥

如今我认为你是婆罗门,此事毫无疑问。

3.219.14

ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ।
दाम्भिक्वो दुष्कृतप्रायः शूद्रेण सदृशो भवेत् ॥ ३.२१९.१४ ॥

若婆罗门沉溺于导致堕落的禁止之事,虚伪且多行不善,便与首陀罗无异。

3.219.15

यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः ।
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥ ३.२१९.१५ ॥

然而,常在克制、真实与法中精进的首陀罗,我认为他就是婆罗门,因为人是凭品行而成为再生者的。

3.219.16

कर्मदोषेण विषमां गतिमाप्तोसि दारुणाम् ।
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ॥ ३.२१९.१६ ॥

因业行之过,你得到了可怕而不平等的命运;但我认为你的罪过已经消尽,人中之尊。

3.219.17

कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः ।
लोकवृत्तान्ततत्वज्ञा नित्यं धर्मपरायणाः ॥ ३.२१९.१७ ॥

你不应当焦躁;像你这样不沮丧、通晓世间常理、始终崇尚法的人,是不会这样的。

3.219.18

प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
एतद्विज्ञानसामर्थ्यं न बालै समतामियात् ॥ ३.२१९.१८ ॥

以智慧消除心中的苦,以药物消除身体的苦;这便是知识的力量,孩童无法与之相比。

3.219.19

अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रयिस्य च ।
मनुष्या मानसैर्दुःखैर्युज्यन्ते चाल्पबुद्धयः ॥ ३.२१९.१९ ॥

因接触所不愿之事,因与所爱分离,因畏惧未来的失去,少智之人便被心中的痛苦所困。

3.219.20

गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च ।
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥ ३.२१९.२० ॥

众生因诸德之力而聚合,也因之而分离。这一切并不是某一个人悲伤的根源。

3.219.21

अनिष्टनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते ।
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् ॥ ३.२१९.२१ ॥

见到与不愿之事相连的事物,人很快便会厌离;随后,若看到了办法,他们便去加以对治。

3.219.22

शोचतो न भवेत्किंचित्केवलं परितप्यते ।
परित्यजन्ति ये दुःखं सुखं वाऽप्युभयं नराः ॥ ३.२१९.२२ ॥

悲伤无益,只会自寻烦恼。那些舍弃痛苦、或舍弃快乐、或两者都舍弃的人——

3.219.23

त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः ।
असंतोषपरा मूढाः संतोषं यानति पण्डिताः ॥ ३.२१९.२३ ॥

唯有那些以智慧满足的贤者才能在快乐中增长。沉溺于不满的愚人,与获得满足的学者——

3.219.24

असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ।
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिं ॥ ३.२१९.२४ ॥

不满没有尽头;而满足才是最高的快乐。已走完道路、见到至高归宿的人,不会悲伤。

3.219.25

न विषादे मनः कार्यं विषादो विषमुत्तमम् ।
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः ॥ ३.२१९.२५ ॥

心不应陷入忧伤,因为忧伤是最大的毒药。它杀死智慧未成熟的愚人,如同愤怒的毒蛇。

3.219.26

यंविषादोऽभिभवति विषमे समुपस्थिते ।
तेजसा तस् हीनस्य पुरुषार्थो न विद्यते ॥ ३.२१९.२६ ॥

当逆境降临时,忧伤所压倒的人,失去了精神力量,便再无人力可施。

3.219.27

अवश्यं क्रियमाणस् कर्मणो दृश्यते फलम् ।
न हि निर्वेदमागम्य किंचित्प्राप्नोति शोभनम् ॥ ३.२१९.२७ ॥

所作之业的果报必定显现。陷入绝望的人,实在得不到任何好的东西。

3.219.28

अथाप्युपायं पश्येत दुःखस् परिमोक्षणे ।
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥ ३.२१९.२८ ॥

然而应当寻找摆脱痛苦的方法。不悲伤地开始行动,保持沉着,便能从灾难中解脱。

3.219.29

भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः ।
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ॥ ३.२१९.२९ ॥

那些思索众生无常、超越了智力之境的人,不悲伤;以成熟的智慧,他们看见了至高的归宿。

3.219.30

न शोचामि रमे विद्वन्कालाकाङ्क्षी स्थितोस्म्यहम् ।
एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम ॥ ३.२१९.३० ॥

博学者啊,我不悲伤;我站在那里等待时机。婆罗门啊,善人中最好的人啊,凭这些譬喻,我不会陷入绝望。

3.219.31

कृतप्रज्ञोसि मेधावी बुद्धिश्च विपुला तव ।
पापान्निवृत्तोसि सदा ज्ञानवृद्धोसि धर्मवित् ॥ ३.२१९.३१ ॥

你智慧而聪颖,见识广博。你始终远离罪恶,精通知识,通晓法义。

3.219.32

आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु ।
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतांवर ॥ ३.२१९.३२ ॥

我向你告辞。愿你安好,愿法护佑你。应当在法中保持不放逸,法之持守者中的最上者啊。

3.219.33

बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह ।
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ॥ ३.२१९.३३ ॥

猎人说“好的”,双手合十对他说。然后,他绕行致敬,这位最优秀的再生者便启程了。

3.219.34

स तु गत्वाद्विजः सर्वां शुश्रूषां कृतवांस्तदा ।
मातापितृभ्यामन्धाभ्यां यथान्यायं सुसंशितः ॥ ३.२१९.३४ ॥

这位再生者回到家中,以坚定的决心,依礼为他双目失明的父母竭尽一切侍奉。

3.219.35

एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर ।
पृष्टवानसि यं तात धर्मं धर्मभृतांवर ॥ ३.२१९.३५ ॥

犹地什特腊啊,你所问的法,此中一切已为你完整叙说。亲爱的,法之持守者中的最上者啊。

3.219.36

पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम ।
मातापित्रोश्च शुश्रूषा धर्मव्याधेन कीर्तिता ॥ ३.२१९.३६ ॥

最优秀的人啊,贞节妻子的威德、婆罗门的威德,以及侍奉父母,都由法猎人宣说了。

3.219.37

अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम् ।
सर्वधर्मविदांश्रेष्ठ कथितं मुनिसत्तम ॥ ३.२१९.३७ ॥

婆罗门啊,这段关于法的故事既奇妙又无与伦比,已经被讲述。诸知法者中的最优者啊,诸仙中的最上者啊。

3.219.38

सुखश्राव्यतया विद्वन्मुहूर्त इव मे गतः ।
न हि तृप्तोस्मि भगवञ्शृण्वानो धर्ममुत्तमम् ॥ ३.२१९.३८ ॥

博学者啊,因为听起来令人愉悦,这段时间对我来说仿佛只是一瞬。尊贵者啊,聆听这至上的法,我仍未感到满足。