Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 3.22

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.22.1

ततोऽहं भरतश्रेष्ठ प्रगृह्यरुचिरं धनुः ।
शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ॥ ३.२२.१ ॥

そのとき、バラタ族の最良者よ、私は美しい弓を取り、矢でサウバ(飛行都市)から神々の敵の首を射落とした。

3.22.2

शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः ।
प्रैषयं साल्वराजाय शार्ङ्गमुक्तान्सुवाससः ॥ ३.२२.२ ॥

蛇のような、上方へ飛ぶ、鋭い輝きの矢を、シャールンガの弓から放ち、美しい羽をもつそれらをサールヴァ王へ送った。

3.22.3

ततो नादृश्यत तदा सौभं कुरुकुलोद्वह ।
अन्तर्हितं माययाऽभूत्ततोऽहं विस्मितोऽभवम् ॥ ३.२२.३ ॥

そのとき、クル族を担う者よ、サウバは見えなくなった。幻術によって隠されたのだ。そこで私は驚いた。

3.22.4

अथ दानवसङ्घास्ते विकृताननमूर्धजाः ।
उदक्रोशन्महाराज धिष्ठिते मयि भारत ॥ ३.२२.४ ॥

大王よ、バーラタよ、私が踏みとどまると、顔と髪の歪んだダーナヴァの群れは大声で叫んだ。

3.22.5

ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महारणे ।
अयोजयं तद्वधाय ततः शब्द उपारमत् ॥ ३.२२.५ ॥

そこで私は大戦において急いで、音を追う武器を彼らの殺戮のために用いた。すると音はやんだ。

3.22.6

हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः ।
शरैरादित्यसंकशैर्ज्वलितैः शब्दसाधनैः ॥ ३.२२.६ ॥

その音を立てたダーナヴァたちは皆、太陽のように燃え立つ、音を追う矢によって殺された。

3.22.7

तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् ।
शब्दोऽपरो महाराज तत्रापि प्राहरं शरैः ॥ ३.२२.७ ॥

その音が止むと、また別の方角から別の音が起こった。偉大な王よ、そこでも私は矢で打った。

3.22.8

एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत ।
नादयामासुरसुरास्ते चापि निहता मया ॥ ३.२२.८ ॥

このように、バーラタよ、十方、横と上へと、アスラたちは音を響かせた。彼らもまた私によって殺された。

3.22.9

ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत ।
सौभं कामगमं वीर मोहयन्मम चक्षुषी ॥ ३.२२.९ ॥

それからプラーグジョーティシャへ行って、それはまた姿を現した。勇士よ、意のままに動くサウバが、私の目をくらませながら現れた。

3.22.10

ततो लोकान्तकरणो दानवो दारुणाकृतिः ।
शिलावर्षेण महता सहसा मां समावृणोत् ॥ ३.२२.१० ॥

そして、世界を滅ぼす、恐ろしい姿のダーナヴァは、突然大きな石の雨で私を覆った。

3.22.11

सोहं पर्वतवर्षेण वध्यमानः समन्ततः ।
वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ॥ ३.२२.११ ॥

私は山の雨に四方から打たれ、王の中の王よ、山々に積もられた蟻塚のようになった。

3.22.12

ततोऽहं पर्वतचितः सहयः सहसारथिः ।
अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ॥ ३.२२.१२ ॥

そのとき私は、山々に覆われ、馬と御者とともに、王よ、旗とともに山々に埋め尽くされ、見えなくなった。

3.22.13

ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा ।
ते भयर्ता दिशः सर्वे सहसा विप्रदुद्रुवुः ॥ ३.२२.१३ ॥

そのとき、私のヴリシュニの勇士たちは恐怖に苛まれ、突然あらゆる方角へ逃げ散った。

3.22.14

ततो हाहाकृतमभूत्सर्वं किल विशांपते ।
द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ॥ ३.२२.१४ ॥

そのとき、人の王よ、至る所で嘆きの叫びが起こった。私が見えなくなると、空も大地も虚空も……

3.22.15

ततो विषण्णमनसो मम राजन्सुहृज्जनाः ।
रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ॥ ३.२२.१५ ॥

そのとき、王よ、私の心沈む友や親族は泣き叫んだ。悲しみと嘆きに満たされて。

3.22.16

द्विषतां च प्रहर्षोऽभूदार्तिश्च सुहृदामपि ।
एवं विजितवान्वीर पश्चादश्रौषमच्युत ॥ ३.२२.१६ ॥

敵には喜びが、友にも苦しみが生じた。英雄よ、不動の者よ、そのように彼らが勝利した後、私は聞いた。

3.22.17

ततोऽहमिन्द्रदयितं सर्वपाषाणभेदनम् ।
वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ॥ ३.२२.१७ ॥

そのとき私はインドラの愛する、あらゆる岩を砕く雷杵を振りかざし、それらの山々をすべて粉々に打ち砕いた。

3.22.18

ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः ।
हया मम महाराज वेपमाना इवाभवन् ॥ ३.२२.१८ ॥

そのとき、大王よ、山々の重みに苦しめられ、息は弱く、動きはよろめき、私の馬たちはまるで震えているかのようになった。

3.22.19

मेघजाल इवाकाशे विदार्याभ्युदितं रविम् ।
दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ॥ ३.२२.१९ ॥

空の雲の網を裂いて昇った太陽のように、私を見て親族たちは再び喜びに満たされた。

3.22.20

ततः पर्वतभारार्तान्मन्दप्राणविचेष्टितान् ।
हयान्संदृश्य मां सूतः प्राह तात्कालिकं वचः ॥ ३.२२.२० ॥

そのとき、山の重みに苦しみ、息は弱く、足取りもおぼつかない馬を見て、御者は私にその場にふさわしい言葉を告げた。

3.22.21

साधु संपश्य वार्ष्णेय साल्वं सौभपतिं स्थितम् ।
अलं कृष्णावमन्यैनं साधु यत्नं समाचर ॥ ३.२२.२१ ॥

ヴリシュニの末裔よ、目の前に立つサウバの主サールヴァをよく見よ。クリシュナよ、彼を軽んじてはならない。しかるべく努力せよ。

3.22.22

मार्दवं सखितां चैव साल्वादद्य व्यपाहर ।
जहि साल्वं महाबाहो मैनं जीवय केशव ॥ ३.२२.२२ ॥

今日、サールヴァへの優しさと友情を捨てよ。大腕の者よ、サールヴァを打ち倒せ。ケーシャヴァよ、彼を生かしておくな。

3.22.23

सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् ।
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा।
योपिस्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ॥ ३.२२.२३ ॥

勇士よ、敵を滅ぼす者よ、敵はあらゆる勇猛な力をもって討たれねばならない。弱い敵であっても強者は軽んじてはならない。椅子に座っている者でさえそうであるなら、ましてや戦場に立つ者は言うまでもない。

3.22.24

स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो ।
जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ॥ ३.२२.२४ ॥

人中の虎よ、主よ、あらゆる努力をもってこれを打ち倒せ。ヴリシュニ族の最も優れた者よ、時がまた君を過ぎ去らぬように。

3.22.25

जितवाञ्जामदग्न्यं यः कोटिवर्षगणान्बहून् ।
स एष नान्यैर्वध्यो हि त्वामृते नास्ति कश्चन ॥ ३.२२.२५ ॥

幾千万年にわたる多くの歳月にわたってジャーマダーグニャ(パラシュラーマ)に勝ったこの者は、他の者によっては殺されない。おまえを除いて誰も彼を殺すことはできない。

3.22.26

नैष मार्दवसाध्यो वै मतो नापि सखा तव ।
येन त्वं योधितो वीर द्वारका चावमर्दिता ॥ ३.२२.२६ ॥

この者は柔和さによって勝てる者とは考えられていないし、おまえの友でもない。英雄よ、この者のせいでおまえは戦うことになり、ドヴァーラカーは打ち砕かれたのだ。

3.22.27

एवमादि तु कौन्तेय श्रुत्वाऽहं सारथेर्वचः ।
तत्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ॥ ३.२२.२७ ॥

クンティーの子よ、このような言葉と御者の言葉を聞き、それが真実だと知って、私は戦いへの決意を固めたのだ。

3.22.28

वधाय साल्वराजस्य सौभस्य च निपातने ।
दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ॥ ३.२२.२८ ॥

サールヴァ王を殺しサウバを倒すため、私はダールカに言った。「英雄よ、しばし止まれ。」

3.22.29

ततोऽप्रतिहतं दिव्यमभोद्यमतिवीर्यवत् ।
आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम्।
योजयं तत्रधनुषा दानवान्तकरं रणे ॥ ३.२२.२९ ॥

そこで私は弓に、その神聖で止めることのできない、極めて強力な火の矢を番えた——愛しく、あらゆるものに耐え、大いなる輝きを持ち、戦場でダーナヴァを滅ぼすものを。

3.22.30

यक्षाणां राक्षसानां च दानवानां च संयुगे ।
राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ॥ ३.२२.३० ॥

ヤクシャ、ラークシャサ、ダーナヴァ、そして戦場における敵対する王たちに対しても、それはすべてを灰に変える大いなる武器であった。

3.22.31

क्षुरान्तममलं चक्रं कालान्तकयमोपमम् ।
अनुमन्त्र्याहमतुलं द्विषतां विनिबर्हणम् ॥ ३.२२.३१ ॥

剃刀のように鋭く清浄で、時間・終末者・ヤマに等しい、その円盤――私はそれに呪文を唱えた。比類なき私は、敵を滅ぼすためにそれを[放った]。

3.22.32

जहि सौभं स्ववीर्येण ये चात्र रिपवो मम ।
इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ॥ ३.२२.३२ ॥

「自らの力でサウバを滅ぼせ。そしてここにいる私の敵どもをも。」そう言って、私は腕の力で、怒りとともにそれを彼へと放った。

3.22.33

रूपं सुदर्शनस्यासीदाकाशे पततस्तदा ।
द्वितीयस्येव सूर्यस् युगान्ते प्रतपिष्यतः ॥ ३.२२.३३ ॥

その時、空を落ちてゆくスダルシャナの姿は、劫末に燃え上がろうとする第二の太陽のようであった。

3.22.34

तत्समासाद्य नगरं सौभं व्यपगतत्विषम् ।
मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ॥ ३.२२.३४ ॥

その都市サウバに到達し、光輝を失ったそれを、高く立つ木材を鋸が切るように、中央から真っ二つに裂いた。

3.22.35

द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम् ।
महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ॥ ३.२२.३५ ॥

そこで、スダルシャナの力によって二つに裂かれ打ち砕かれたサウバは、マヘーシュヴァラの矢に揺さぶられたトリプラのように落ちた。

3.22.36

तस्मिन्निपतिते सौभे चक्रमागात्करं मम ।
पुनश्चादाय वेगेन साल्वायेत्यहमब्रुवम् ॥ ३.२२.३६ ॥

そのサウバが倒れると、円盤は速やかに私の手へ戻ってきた。再びそれを取り、私はサールヴァにこう言った。

3.22.37

ततः साल्वं गदां गुर्वीमाविध्यन्ते महाहवे ।
द्विधा चकार सहसा प्रजज्वाल च तेजसा ॥ ३.२२.३७ ॥

そして大戦において重い棍棒を振り回し、彼は突然サーラヴァを二つに裂いた。棍棒は輝きを放って燃え上がった。

3.22.38

तस्मिन्विनिहते वीरे दानवास्त्रस्तचेतसः ।
हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ॥ ३.२२.३८ ॥

その英雄が倒れると、ダーナヴァたちは心おびえ、「ああ」と叫びながら、私の矢に苦しめられて四方へ逃げ去った。

3.22.39

ततोऽहंसमवस्थाप्यरथं सौभसमीपतः ।
शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ॥ ३.२२.३९ ॥

そして私はサウバの近くで戦車を止め、喜びのうちに法螺貝を吹き鳴らし、周囲の友人たちを喜ばせた。

3.22.40

तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् ।
दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः ॥ ३.२२.४० ॥

メール山の峰のような姿の、物見櫓と門楼が砕け、燃えている都市を見て、それらの女たちは逃げ去った。

3.22.41

एवं निहत्य समरे सौभं साल्वं निपात्य च ।
आनर्तात्पुनरागम्य सुहृदां प्रीतिमावहम् ॥ ३.२२.४१ ॥

こうして私は戦いでサウバを殺し、サーラヴァを倒し、アーナルタから再び戻って、友人たちに喜びをもたらした。

3.22.42

तदेतत्कारणं राजन्नागमं नागसाह्वयम् ।
यद्यागां परवीरघ्न न हि जीवेत्सुयोधनः ॥ ३.२२.४२ ॥

王よ、これが私がナーガサーフヴァヤ(象の都)に来た理由である。敵の英雄を滅ぼす者よ、もし私が来なかったなら、スヨーダナは必ず生きてはいなかっただろう。

3.22.43

मय्यागतेऽथवा वीर द्यूतं न भविता तथा ।
अद्याहं किं करिष्यामि भिन्नसेतुरिवोदकम् ॥ ३.२२.४३ ॥

勇士よ、もし私が来ていたなら、賭博は行われなかっただろう。今、私は何をすべきか。決壊したダムの水のように。

3.22.44

एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः ।
आमन्त्र्य प्रययौ श्रीमान्पाण्डवान्मधुसूदनः ॥ ३.२२.४४ ॥

このように俱盧族の者に語った後、大腕の人中の最上者、栄光ある摩豆蘇陀那は、パーンダヴァたちに別れを告げて去った。

3.22.45

अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् ।
राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ॥ ३.२२.४५ ॥

大腕の者は法王ユディシュティラに礼拝し、王に頭に口づけされ、大腕のビーマにも同じく口づけされた。

3.22.46

परिष्वक्तश्चार्जुनेन यमाभ्यां चाभिवादितः ।
संमानितश्च धौम्येन द्रौपद्या चार्चितोश्रुभिः ॥ ३.२२.४६ ॥

アルジュナに抱擁され、双子のヤマたちに礼拝され、ダウミヤに敬われ、ドラウパディーに涙をもって供養された。

3.22.47

सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् ।
आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ॥ ३.२२.४७ ॥

スバッドラーとアビマニユを黄金の戦車に乗せ、パーンダヴァたちに敬われたクリシュナは戦車に乗った。

3.22.48

शैब्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा ।
द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ॥ ३.२२.४८ ॥

シャイビャとスグリーヴァに繋がれた太陽の如く輝く戦車で、ユディシュティラを慰めた後、クリシュナはドヴァーラカーへ向かった。

3.22.49

ततः प्रयते दाशार्हे धृष्टद्युम्नोपि पार्षतः ।
द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ॥ ३.२२.४९ ॥

そこでダーシャールハ(クリシュナ)が出発すると、プリシャタの子ドリシュタデュムナもドラウパディーの息子たちを連れて、自分の都へと旅立った。

3.22.50

धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् ।
जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ॥ ३.२२.५० ॥

そこでチェーディーの王ドリシュタケートゥは妹を伴い、パーンダヴァたちに会ってから、麗しいシュクティマティーの都へと向かった。

3.22.51

केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा ।
आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ॥ ३.२२.५१ ॥

バーラタよ、無限の威力を持つクンティーの子から許しを得たケーカヤの王子たちも、パーンダヴァたち全員に別れを告げて出発した。

3.22.52

ब्राह्मणाश्च विशश्चैव तथाविषयवासिनः ।
विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ॥ ३.२२.५२ ॥

バラモンたちや庶民、そしてその国の住民たちも、送り出されてもひどく悲しみ、パーンダヴァたちを離れることができなかった。

3.22.53

समवायः स राजेन्द्र सुमहाद्भुतदर्शनः ।
आसीन्महात्मनां तेषां काम्यके भरतर्षभ ॥ ३.२२.५३ ॥

王の中の王よ、バラタ族の牡牛よ、カーミヤカの森でのその偉大な魂の人々の集いは、非常に不思議な光景であった。

3.22.54

युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः ।
शशास पुरुषान्काले रथान्योजयतेति वै ॥ ३.२२.५४ ॥

しかし大いなる心を持つユディシュティラは、それらのバラモンの同意を得て、時を見計らって戦車に馬を繋ぐよう従者たちに命じた。