Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 3.224

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.224.1

आपस्य मुदिता भार्या सा चास्य परमाप्रिया ।
भूपतिं भूतकर्तारं जनयामास पावकम् ॥ ३.२२४.१ ॥

アーパスヤの喜ばしい妻は、彼にとって最愛の人であり、万物の主にして創造者であるパーヴァカ(火)を産んだ。

3.224.2

भूतानां साऽपि सर्वेषां यं प्राहुः पावकं पतिम् ।
आत्मा भुवनकर्ता च सोऽध्वरेषु द्विजातिभिः ॥ ३.२२४.२ ॥

万物の主パーヴァカと呼ばれる彼は、自己であり世界の創造者である。祭式において再生者たちは彼を礼拝する。

3.224.3

महतां चैव भूतानां सर्वेषामिह यः पतिः ।
भगवान्स महातेजा नित्यं चरति पावकः ॥ ३.२२४.३ ॥

ここで偉大な存在と全ての存在の主である、大いなる威光を持つ尊き火神パーヴァカは、常に動き巡る。

3.224.4

अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते ।
आज्यं वहतियो हव्यं सर्वलोकस् पावकः ॥ ३.२२४.४ ॥

家主(グリハパティ)と呼ばれるアグニは、祭式で常に崇拝される。澄ましバターと供物を運ぶ彼は、全世界のための浄化者(パーヴァカ)である。

3.224.5

अपांगर्भो महाभागः सत्वभुग्यो महाद्भुतः ।
भूपतिर्भूतकर्ता च महतः पतिरुच्यते ॥ ३.२२४.५ ॥

水の胎、大いなる幸運者、生あるものを食らう者、極めて不思議な者。大地の主、存在を創る者であり、偉大なるものの主と呼ばれる。

3.224.6

मता वहन्तो हव्यानि तस्याग्नेरप्रजाऽभवन् ।
अग्निष्टोमस्तु नियतः क्रतुश्रेष्ठो भवत्युत ॥ ३.२२४.६ ॥

供物を運ぶとされたあのアグニの子孫は、子を失った。しかしアグニシュトーマは定められた祭式であり、実に祭式の中で最も優れている。

3.224.7

स वह्निः प्रथमो नित्यं देवैरन्विष्यते प्रभुः ।
आयान्तं नियतं दृष्ट्वाप्रविवेशार्णवं भयात् ॥ ३.२२४.७ ॥

最初にして常に力ある火神は、神々によって常に探し求められる。拘束されて来るのを見て、彼は恐れて海に入った。

3.224.8

देवास्तं नाधिगच्छन्ति मार्गमाणा यथातथम् ।
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् ॥ ३.२२४.८ ॥

神々は彼を探したが、ありのままの姿を見つけられなかった。そこでアグニはアタルヴァンを見て、これらの言葉を述べた。

3.224.9

देवानां वह हव्यं त्वमहं वीर सुदुर्बलः ।
अथ त्वं गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ॥ ३.२२४.९ ॥

勇士よ、お前が神々の供物を運べ。私は非常に弱い。ならばマドゥラクシャのもとへ行き、私のためにこの愛しい務めを果たせ。

3.224.10

प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् ।
मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत्।
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् ॥ ३.२२४.१० ॥

アタルヴァンを遣わしてから、アグニは別の地へ去った。すると魚たちがすべてを彼に告げた。怒ったアグニは彼らに言った。「お前たちは様々な生き物の食物となるであろう。」

3.224.11

अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ॥ ३.२२४.११ ॥

同じく供物を運ぶアグニは、アタルヴァンにこれらの言葉を述べた。

3.224.12

अनुनीयमानो हि भृशं देववाक्यान्वितेन सः ।
नैच्छद्वोढुं हवि सर्वं शरीरं चापि सोऽत्यजत् ॥ ३.२२४.१२ ॥

神々の言葉によって強く説得されたが、彼は供物のすべてを運ぶことを望まず、自らの身体さえも捨てた。

3.224.13

स तच्छरीरं संत्यज्य प्रविवेश धरां तदा ।
भूमिं स्पृष्ट्वाऽसृजद्भ्रातून्पृथक्पृथगतीव हि ॥ ३.२२४.१३ ॥

彼はその身体を捨て、そのとき大地に入った。大地に触れて、兄弟たちを一人ずつ、非常に多く生み出した。

3.224.14

आस्यात्सुगन्धं तेजश्च अस्थिभ्यो देवदारु च ।
श्लेष्मणः स्फाटिकं तस् पित्तान्मारकतं तथा ॥ ३.२२४.१४ ॥

彼の口からは芳香と輝きが、骨からは神樹デーヴァダールが、痰からは水晶が、胆汁からはエメラルドが生じた。

3.224.15

वातात्कृष्णायसं तस्य त्रिभिरेतैर्बहु प्रजाः ।
त्वचस्तस्याभ्रपटलं स्नायुजं चापि विद्रुमम् ॥ ३.२२४.१५ ॥

風から彼の黒鉄が生じた。この三つによって多くの生き物が生まれた。彼の皮膚からは雲の層が、腱からは珊瑚も生じた。

3.224.16

शरीरास्थिविधाश्चान्ये धातवोऽस्याभवन्नृप ।
एवं कृत्वा शरीरं च परमे तपसि स्थितः ॥ ३.२२४.१६ ॥

王よ、彼の身体、骨の種類、そして他の要素もこのように生じた。このようにして身体を造り、彼は最高の苦行に留まった。

3.224.17

भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा ।
भृशं जज्वाल तेजस्वी तपसाऽऽप्याधितः शिखी ॥ ३.२२४.१७ ॥

バルグやアンギラスらの聖仙たちによって苦行で再び立ち上げられたとき、その輝かしい火は苦行によって燃え上がり、激しく燃え盛った。

3.224.18

दृष्ट्वा ऋषीनभयाच्चापि प्रविवेश महार्णवम् ।
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम्।
अर्चयामासुरेवैनमथर्वाणं सुरादयः ॥ ३.२२४.१८ ॥

聖仙たちを見て恐怖から、彼は大海に入った。彼が消え去ると、怯えた世界はアタルヴァンに帰依した。そこで神々らは、まさにこのアタルヴァンを礼拝した。

3.224.19

अथर्वाणं श्रिताँल्लोकानात्मन्यालोच्य पावकः ।
मिषतां सर्वभूतानामुन्ममज्ज महार्णवात् ॥ ३.२२४.१९ ॥

アタルヴァンに庇護を求めた世界のことを心に思い、パーヴァカは万物が見守る中、大海から浮かび上がった。

3.224.20

एवमग्निर्भगवता नष्टः पूर्वमथर्वणा ।
आहूतः सर्वूतानां हव्यं वहति सर्वदा ॥ ३.२२४.२० ॥

こうして、以前に尊きアタルヴァンによって失われたアグニは呼び戻され、それ以来、彼はあらゆる存在の供物を常に運んでいる。

3.224.21

एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् ।
विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ॥ ३.२२४.२१ ॥

こうして彼はヴェーダに説かれる多くの神々の住処を生み出し、様々な地を彷徨いながら、そこをさまよっていた。

3.224.22

सिन्धुवर्ज्याः पञ्च नद्यो देविकाऽथ सरस्वती ।
गङ्गा च शतकुम्भा च सरयू गण्डसाह्वया ॥ ३.२२४.२२ ॥

インダス川を除く五つの川:デーヴィカー川とサラスヴァティー川、ガンガー川、シャタクンバー川、そしてガンダーとも呼ばれるサラユー川。

3.224.23

चर्मण्वती मही चैव मेध्या मेधासृतिस्तदा ।
इरावती वेत्रवती नद्यतिस्रोऽथ कौशिकी ॥ ३.२२४.२३ ॥

チャルマンヴァティー川、マヒー川、メーディヤー川、メーダースルティ川、イラーヴァティー川、ヴェートラヴァティー川、三つの川、そしてカウシキー川。

3.224.24

तमसा नर्मदा चैव नदी गोदावरी तथा ।
वेण्णा प्रवेणी भीमा च मरुदा चैव भारत ॥ ३.२२४.२४ ॥

タマサー川とナルマダー川、同じくゴーダーヴァリー川、ヴェーンナー川、プラヴェーニー川、ビーマー川、そして、バーラタよ、マルダー川もまた。

3.224.25

भारती सुप्रयोगा च कावेरी मज्जुरा तथा ।
तुङ्गवेणा कृष्णवेणा कपिला शोण एव च ॥ ३.२२४.२५ ॥

バーラティー、スプラヨーガー、カーヴェリー、マッジュラー、トゥンガヴェーナー、クリシュナヴェーナー、カピラー、そしてショーナ。

3.224.26

एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ॥ ३.२२४.२६ ॥

これらこそ、祭火(ディシュニヤ)の母と称された河川である。

3.224.27

अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः ।
यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव तु ॥ ३.२२४.२७ ॥

アドブタの愛妻の子はヴィドゥラタであった。パーヴァカ(火)と言われた数だけ、ソーマもまた存在する。

3.224.28

अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः ।
अग्निः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ॥ ३.२२४.२८ ॥

アトリの系譜にも、ブラフマーの心から生まれた子らが生まれた。息子を生み出そうと望んだアグニは、彼らを自らの内に保った。

3.224.29

तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः ।
एवमेते महात्मानः कीर्तितास्तेऽग्नयो यथा ॥ ३.२२४.२९ ॥

そのブラフマーの身体から、供物を食う者たちがそれらを引き出す。こうして、これら偉大な魂の火が語られたのである。

3.224.30

अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः ।
अद्भुतस्त तु माहात्म्यं यथा वेदेषु कीर्तितम् ॥ ३.२२४.३० ॥

生じたとおり、彼らは量り知れず、輝かしく、闇を払う者である。そしてヴェーダに説かれたとおり、その威力は驚嘆すべきものである。

3.224.31

तादृशं विद्धि सर्वेषामेको ह्येषु हुताशनः ।
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः ॥ ३.२२४.३१ ॥

彼をそのように知れ。これら全ての中で、供物を受ける火は一つである。最初のアンギラスというこの尊き方こそ、唯一の者として知られるべきである。

3.224.32

बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्वथा ।
इत्येष वंशः सुमहानग्नीनां कीर्तितो मया।
पावको विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ॥ ३.२२४.३२ ॥

身体から様々な形でジョーティシュトーマやその他の祭祀が生じた。このように私は火の偉大な系譜を語った。浄化の火は種々の真言によって、有身の者どもの供物を運ぶ。