Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.225

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.225.1

अग्नीनां विविधा वंशाः कीर्तितास्ते मयाऽनघ ।
शुणु जन्म तु कौरव्य कार्तिकेयस् धीमतः ॥ ३.२२५.१ ॥

无罪者啊,我已为你讲述了诸火的种种世系。现在听我说,俱卢的后裔,智者迦尔提刻亚的诞生。

3.225.2

अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम् ।
जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् ॥ ३.२२५.२ ॥

我将讲述那位超凡中的超凡之子,力量无量,由七仙之妻所生,敬重婆罗门,增益荣耀。

3.225.3

देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् ।
तत्राजयन्सदा देवान्दानवा घोररूपिणः ॥ ३.२२५.३ ॥

往昔,天神与阿修罗相互厮杀,争战不休。那里,形貌可怖的檀那婆总是战胜诸天神。

3.225.4

वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः ।
स सैन्यनायकार्थाय चिन्तयामास वासवः ॥ ३.२२५.४ ॥

见大军屡屡被他们击杀,城破者因陀罗(婆薮)开始思量,为军队寻找一位统帅。

3.225.5

देवसेनां दानवैर्हि भग्नां दृष्ट्वा महाबलः ।
पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ॥ ३.२२५.५ ॥

见天神之军被檀那婆击溃,那位依靠勇力能加以守护的大力者,便是我应当找到的人。

3.225.6

स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् ।
शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा ॥ ३.२२५.६ ॥

他来到曼纳萨山,专心思量此事,这时听见一个女子发出的可怕哀号。

3.225.7

अभिधावतु मां कश्चित्पुरुषस्त्रातु चैव ह ।
पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ॥ ३.२२५.७ ॥

愿某位男子奔向我并救我;或者为我指出一位丈夫,或者他自己成为我的丈夫。

3.225.8

पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव ।
एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ॥ ३.२२५.८ ॥

补兰陀罗对她说:“不要害怕,你没有任何危险。”说完,他看见凯辛站在面前。

3.225.9

किरीटिनं गदापाणिं धातुमन्तमिवाचलम् ।
हस्ते गृहीत्वा कन्यां तामथैनं वासवोऽब्रवीत् ॥ ३.२२५.९ ॥

看见他手持大棒、头戴王冠,如矿藏丰富的山岳般站立,伐沙伐便握住那少女的手,对他说道。

3.225.10

अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि ।
वज्रिणं मांविजानीहि विरमास्याः प्रबाधनात् ॥ ३.२२५.१० ॥

你这行为卑劣之人,为何要夺取这少女?要知道我是执金刚者;停止对她的侵扰吧。

3.225.11

विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया ।
क्षमं तेजीवतो गनतुं स्वपुरं पाकशासन ॥ ३.२२५.११ ॥

帝释啊,你自己放了她吧;这是我所求之人。破坏者啊,你活着回到自己的城市才是合适的。

3.225.12

एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै ।
तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः ॥ ३.२२५.१२ ॥

说完,凯辛掷出大棒要杀死因陀罗。大棒飞来时,伐沙伐以金刚杵将其从中劈断。

3.225.13

अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् ।
महामेघप्रतीकाशं चलत्पावकसंकुलम् ॥ ३.२२५.१३ ॥

于是愤怒的凯希向他投掷了一座山峰,宛如巨大的雷云,充满移动的火焰。

3.225.14

तदापन्ततं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः ।
बिभेद राजन्वज्रेण भुवि तन्निपपात ह ॥ ३.२२५.१४ ॥

因陀罗(百祭者)见那山峰向自己坠来,大王,便以金刚杵将其劈碎,它落在地上。

3.225.15

पतता तु तदा केशी तेन शृङ्गेण ताडितः ।
हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ॥ ३.२२५.१५ ॥

于是凯希被那坠落的山峰击中,痛苦万分,丢下那位极有福德的少女逃走了。

3.225.16

अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत् ।
कासि कस्यसि किंचेह कुरुषे त्वं शुभानने ॥ ३.२२५.१६ ॥

那阿修罗离去后,婆婆(因陀罗)对那少女说:“你是谁,属于谁,在这里做什么,美丽的女子?”