Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.226

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.226.1

अहं प्रजापतेः कन्या देवसेनेति वुश्रुता ।
भगिनी मे दैत्यसेना सा पूर्वं कोशिना हृता ॥ ३.२२६.१ ॥

我是生主的女儿,名叫天军。我的姐妹大军在从前被柯希那劫走。

3.226.2

सहैवावां भगिन्यौ तु सखीभिः सह मानसम् ।
आगच्छावो विहारार्थमनुज्ञाप्य प्रजापतिम् ॥ ३.२२६.२ ॥

我们两姐妹与女伴一同,禀告生主后,为了游乐来到了曼那萨湖。

3.226.3

नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः ।
इच्छत्येनं दैत्यसेना न चाहं पाकशासन ॥ ३.२२६.३ ॥

大阿修罗柯希一直想劫夺我们两人。大军爱慕他,我却不愿,帝释啊,击败巴卡者。

3.226.4

सा हृताऽनेन भगवान्मुक्ताऽहं त्वद्बलेन तु ।
त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ॥ ३.२२६.४ ॥

她被他劫走,但尊者啊,我靠您的力量得以解脱。天神之主啊,我愿嫁给您所指定的那位不可战胜的夫君。

3.226.5

मम मातृष्वसेयी त्वं माता दाक्षायणी मम ।
आख्यातुं त्वहमिच्छामि स्वयमात्मबलं त्वया ॥ ३.२२६.५ ॥

你是我姨母的女儿,你的母亲达刹之女也是我的母亲。我想亲自向你说明我自己的力量。

3.226.6

अबलाऽहं महाबाहो पतिस्तु बलवान्मम ।
वरदानात्पितुर्भावी सुरासुरनमस्कृतः ॥ ३.२२६.६ ॥

大臂者啊,我是弱女,但我的夫君将是强者,依父亲的恩赐,注定受到天神与阿修罗的礼敬。

3.226.7

कीदृशं तु बलंदेवि पत्युस्तव भविष्यति ।
एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ॥ ३.२२६.७ ॥

女神啊,你丈夫将拥有怎样的力量?无可指责的女子啊,我愿听你的话语。

3.226.8

देवदानवयक्षाणां किन्नरोरगरक्षसाम् ।
जेता यो दुष्टदैत्यानां महावीर्यो महाबलः ॥ ३.२२६.८ ॥

能征服诸神、檀那婆、夜叉、紧那罗、蛇神、罗刹以及恶毒的提迭的人,将具有大勇猛与大力量。

3.226.9

यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति ।
स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ॥ ३.२२६.९ ॥

与你一起征服一切众生的人,他将成为我的丈夫——敬重婆罗门、增添荣耀的人。

3.226.10

इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम् ।
अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते ॥ ३.२२६.१० ॥

因子听到她的话,因陀罗深感悲痛,反复思量:这位女神没有她所说的那样的丈夫。

3.226.11

अथापश्यत्स उदये भास्करं भास्करद्युतिः ।
सोमं चैव महाभागं प्रविशन्तं दिवाकरम् ॥ ३.२२६.११ ॥

于是,他如太阳般光辉,在日出时看见了太阳,以及那位大吉祥的月亮正进入太阳之中。

3.226.12

अमावास्यां प्रवृत्तायां मुहूर्ते रौद्र एव तु ।
देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ ॥ ३.२२६.१२ ॥

新月之日来临,在可怕的时刻,他于东方的山上看见了诸神与阿修罗的战斗。

3.226.13

लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः ।
अपश्यल्लोहितोदं च मघवान्वरुणालयम् ॥ ३.२२६.१३ ॥

百祭者因陀罗看到被红色浓云覆盖的东方黄昏,也看到瓦如那的居所——赤水之海。

3.226.14

भृगुभिश्चाङ्गिरोभ्यश्च हुतं मन्त्रैः पृथग्विधैः ।
हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ॥ ३.२२६.१४ ॥

接受婆利古与安吉罗斯以各种咒语所献的祭物,进入火与太阳之中。

3.226.15

पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम् ।
तथा सूर्यं वह्निगतं सोमं सूर्यगतं च तम् ॥ ३.२२६.१५ ॥

那时,朔望之日也是第二十四日,太阳临近;同样,太阳进入火中,月亮进入太阳中。

3.226.16

समालोक्यैकतामेव शशिनो भास्करस्य च ।
समवायं तु तं रौद्रं दृष्ट्वा शक्रोऽन्वचिन्तयत् ॥ ३.२२६.१६ ॥

观察到月亮与太阳合为一体,看到那可怖的交会,帝释天沉思起来。

3.226.17

सूर्याचन्द्रमसोर्घोरं दृश्यते परिवेषणम् ।
एतस्मिन्नेव रात्र्यन्ते महद्युद्धं तु शंसति ॥ ३.२२६.१७ ॥

可见日月周围出现可怖的光环;在这一夜将尽时,它预示着一场大战。

3.226.18

सरित्सिन्धुरपीयं तु प्रत्यसृग्वाहिनी भृशम् ।
शृगालिनयग्निवक्रा च प्रत्यादित्यं विराविणी ॥ ३.२२६.१८ ॥

此河与此海亦逆流而行,血流滂沱,满是豺狼,火焰为口,对着太阳咆哮。

3.226.19

एष रौद्रश्चसंघातो महान्युक्तश्च तेजसा ।
सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः ॥ ३.२२६.१९ ॥

此可怖而巨大的聚合,以光辉相连;月神与火神、日神的这一相会,实为奇异。

3.226.20

जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् ।
अथानेकैर्गुणैश्चाग्निरग्निः सर्वाश्च देवताः ॥ ३.२२६.२० ॥

月神所生之子,将成为此女神的夫君。再者,凭众多德性,火神、火神及一切诸神。

3.226.21

एष चेञ्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् ।
एवं संचिन्त्य भगवान्ब्रह्मलोकं तदा गतः ॥ ३.२२६.२१ ॥

若他能使之孕育胎儿,他便将成为此女神的夫君。如此思量之后,世尊便前往梵天之界。

3.226.22

गृहीत्वा देवसेनां तां ववन्दे स पितामहम् ।
उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिशा ॥ ३.२२६.२२ ॥

他携同天军女(Devasenā),向那位祖父顶礼,说道:“请为此女神指定一位善良而勇猛的夫君。”

3.226.23

यथैतच्चिन्तितंकार्यं त्वया दानवसूदन ।
तथा स भविता गर्भो बलवानुरुविक्रमः ॥ ३.२२६.२३ ॥

灭檀婆之主啊,正如你所思之事,那胎儿将会强大而威勇无比。

3.226.24

स विष्यति सेनानीस्त्वया सह शतक्रतो ।
अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् ॥ ३.२२६.२४ ॥

百祭之主啊,他将与你同为统帅;他亦将成为此女神勇武的夫君。

3.226.25

एतच्छ्रुत्वा नमस्तस्मै कृत्वाऽसौ मह कन्यया ।
तत्राभ्यगच्छद्देवेन्द्रो यत्र सप्तर्षयोऽभवन् ॥ ३.२२६.२५ ॥

闻此,向他致敬之后,天帝携着那位伟大的少女来到了七仙所在之处。

3.226.26

वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाप्रभाः ।
भागार्थं तपसोपात्तं तेषां सोमं तथाऽध्वरे ॥ ३.२२६.२६ ॥

以婆悉吒为首的诸位尊贵大婆罗门,光辉极盛,为了凭苦行所得的份额,在那场祭祀中取得了苏摩。

3.226.27

पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः ।
इष्टिं कृत्वयतान्यायं सुसमिद्धे हुताशने ॥ ३.२२६.२७ ॥

以百祭者(因陀罗)为首的口渴诸神前往;依法行完愿祭,便将祭品投入燃烧旺盛的火中。

3.226.28

जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् ।
समाहूतो हुतवहःसोऽद्भुतः सूर्यमण्डलात् ॥ ३.२२६.२८ ॥

那些大德者献上了一切天界居民的供品;而奇妙的持火者(火神)从太阳圆盘中被召来。

3.226.29

विनिःसृत्य ययौ वह्निः पार्श्वतो विधिवत्प्रभुः ।
आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ॥ ३.२२६.२९ ॥

火神之主从侧面出来,依法而行;来到了那些再生者以咒语所献的祭品之处,即阿婆那尼亚火。

3.226.30

सतत्र विविधं हव्यं प्रतिगृह्यहुताशनः ।
ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ॥ ३.२२६.३० ॥

那火在那里接受了各种祭品,婆罗多族中最优秀的人啊,将其交给诸仙,供天界诸神享用。

3.226.31

निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् ।
स्वेष्वासतेषूपविष्टाः स्नायन्तीश्च यथासुस्वम् ॥ ३.२२६.३१ ॥

他走出时,又看见那些大德者的妻子,她们各自坐在座位上,安然沐浴。

3.226.32

रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः ।
हुताशनार्चिःप्रतिमाः सर्वास्तारा इवाद्भुताः ॥ ३.२२६.३२ ॥

她们都像金色的祭坛,纯净如新月之纹,像祭火的火焰,又像星辰一样奇妙。

3.226.33

स तत्रतेन मनसा बभूव क्षुभितेन्द्रियः ।
पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ॥ ३.२२६.३३ ॥

他见到那些最优秀婆罗门的妻子,心神为之扰动,诸根为之迷乱,于是他被欲望所支配。

3.226.34

भूयः संचिन्तयामास न न्याय्यं क्षुभितो ह्यहम् ।
साध्व्यः पत्न्यो द्विजेन्द्राणामकामा कामयाम्यहम् ॥ ३.२२६.३४ ॥

他又思量道:“这不合理,我已心神不定。这些是最优秀婆罗门的贞洁妻子,本无欲望,而我却起了贪念。”

3.226.35

नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाऽप्यनिमित्ततः ।
गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ॥ ३.२२६.३५ ॥

这些人我无故不能见,也不能触碰;因此我进入家火之中,一再地看望她们。

3.226.36

संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः ।
पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ॥ ३.२२६.३६ ॥

他仿佛以金色的火焰触碰着她们每一人,看着她们而欢喜,依止于家火之中。

3.226.37

निरुध्य तत्रसुचिरमेवं वह्निर्वनं गतः ।
मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ॥ ३.२२६.३७ ॥

阿耆尼如此在彼处停留良久后,走向森林,将心思放在那些优美的女子身上,渴望着她们。

3.226.38

कामसंतप्तहृदयो देहत्यागे विनिश्चितः ।
अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागमत् ॥ ३.२२६.३८ ॥

心被欲望煎熬,决意舍弃身体,又得不到婆罗门女子,阿耆尼便走向森林。

3.226.39

स्वाहा तं दक्षदुहिता प्रथमाऽकामयत्तदा ।
सा तस्य च्छिद्रमन्वैच्छच्चिरात्प्रभृतिभामिनी। ॥ ३.२२६.३९ ॥

达刹之女娑訶首先渴望他;那位光彩照人的女子已经寻找他的弱点很久了。

3.226.40

सा तं ज्ञात्वा यथावत्तु वर्हिं वनमुपागतम् ।
तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी ॥ ३.२२६.४० ॥

那位女子确切地得知阿耆尼已去森林,且被欲望煎熬,便开始思量。

3.226.41

अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् ।
कामयिष्यामि कामार्तं तासां रूपेण मोहितम्।
एवं कृते प्रीतिरस् कामावाप्तिश्च मे भवेत् ॥ ३.२२६.४१ ॥

我将化作七仙人之妻的形貌,去追求那因她们的形象而迷惑、被欲望煎熬的阿耆尼。如此,他会欢喜,我的欲望也能实现。