摩诃婆罗多 · 章 3.236
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.236.1
मार्कण्डेयादिभिर्विप्रैः पाण्डवैश्च महात्मभिः ।
कथाभिरनुकूलाभिः सह स्तित्वा जनार्दनः ॥ ३.२३६.१ ॥
与摩根德耶等婆罗门及伟大的般度五子一同停留,讲述令人愉悦的故事,那位闻名于世的克里希那(Janārdana)在那里。
3.236.2
ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ।
आरुरुक्षू रथं सत्यामाह्वयामास भारत ॥ ३.२३६.२ ॥
随后,与他们依礼约定之后,想要登上战车的摩杜苏陀那(克里希那)呼唤萨提亚婆摩,婆罗多啊。
3.236.3
सत्यभामा ततस्तत्र स्वजित्वा द्रुपदात्मजाम् ।
उवाच वचनं हृद्यं यथाभावं समाहितम् ॥ ३.२३६.३ ॥
于是萨提亚婆摩向德鲁帕达之女(德劳帕蒂)致礼,依照内心的情感,说出了发自肺腑、沉稳得体的话语。
3.236.4
कृष्णे माभूत्तवोत्कण्ठा मा व्यथा मा प्रजागरः ।
भर्तृभिर्देवसंकाशैर्जितां प्राप्स्यसि मेदिनीम् ॥ ३.२३६.४ ॥
克里希那啊,愿你不再有思念、忧伤和失眠。你将获得由你那如神明般的夫君们所征服的大地。
3.236.5
न ह्येवं शीलसंपन्ना नैवं पूजितलक्षणाः ।
प्राप्नुवन्ति चिरं क्लेशं यथा त्वमसितेक्षणे ॥ ३.२३६.५ ॥
具有良好品德、带有尊贵相貌的女子,不会像你这样长久地受苦,黑眼睛的女子啊。
3.236.6
अवश्यं च त्वया भूमिरियं निहतकण्टका ।
भर्तृभिः सहभोक्तव्या निर्द्वन्द्वेति श्रुतं मया ॥ ३.२३६.६ ॥
我听说,你必定会与夫君们一同享有这片大地——荆棘已被除尽,再无敌手。
3.236.7
धार्तराष्ट्रवधं कृत्वावैराणि प्तियात्य च ।
युधिष्ठिरस्थां पृथिवीं द्रष्टासि द्रुपदात्मजे ॥ ३.२३६.७ ॥
杀死持国之子、报清了仇怨之后,德鲁帕达之女啊,你将看到在坚战统治下的大地。
3.236.8
यास्ताः प्रव्राजपानां त्वां प्राहसन्दर्पमोहिताः ।
ताः क्षिप्रं हतसंकल्पा द्रक्ष्यसि त्वं कुरुस्त्रियः ॥ ३.२३६.८ ॥
那些因傲慢而迷惑、曾嘲笑你的库鲁女子,你很快就会看到她们的心愿落空。
3.236.9
तव दुःखोपपन्नाया यैराचरितमप्रियम् ।
विद्धि संप्रस्थितान्सर्वांस्तान्कृष्णे यमसादनम् ॥ ३.२३६.९ ॥
克里希那啊,你要知道,那些曾对陷入悲痛的你做出不快之事的人,都已启程前往阎摩之所。
3.236.10
पुत्रस्ते प्रतिविन्ध्यश्च सुतसोमस्तथाविधः ।
श्रुतकर्माऽर्जुनिश्चैव शतानीकश्च नाकुलिः ॥ ३.२३६.१० ॥
你的儿子普拉提文迪亚,同样还有苏陀索摩、阿周那之子室鲁多迦尔摩,以及无种之子舍陀尼迦。
3.236.11
सहदेवाच्च यो जातः श्रुतसेनस्तवात्मजः ।
सर्वेकुशलिनो वीराः कृतास्त्राश्च सुतास्तव ॥ ३.२३६.११ ॥
由偕天所生的你的儿子室鲁多塞那也在。你所有的儿子都是英雄,安然无恙,精通武艺。
3.236.12
अभिमन्युरिव प्रीता द्वारवत्यां रता भृशम् ।
त्वमिवैषां सुभद्रा च प्रीत्या सर्वात्मना स्थिता ॥ ३.२३६.१२ ॥
他们在德瓦拉卡快乐而满足,如同阿毗曼尤;正如你爱他们,苏跋陀罗也以全心的慈爱而居于此处。
3.236.13
प्रीयते तव निर्द्वन्द्वा तेभ्यश्च विगतज्वरा ।
दुःखिता तेन दुःखेन सुखेन सुखिता तथा ॥ ३.२३६.१३ ॥
她对你和他们心无挂碍、无忧无虑而欢喜;因他们的苦而苦,同样因他们的乐而乐。
3.236.14
भजेत्सर्वात्मना चैव प्रद्युम्नजननी तथा ।
भानुप्रभृतिभिश्चैनान्विशिनष्टि च केशवः ॥ ३.२३६.१४ ॥
普拉杜姆那之母也全心侍奉他们,婆诃奴等人亦然;而罗摩的同伴凯莎瓦也特别尊重他们。
3.236.15
भोजनाच्छादने चैषां नित्यं मे श्वशुरः स्थितः ।
रामप्रभृतयः सर्वे भजन्त्यन्धकवृष्णयः ॥ ३.२३६.१५ ॥
关于他们的饮食与衣着,我的岳父总是照料;罗摩及所有安陀迦与毗湿尼人都侍奉他们。
3.236.16
तुल्यो हिप्रणयस्तेषां प्रद्युम्नस्य च भामिनि ।
एवमादि प्रियं सत्यंहृद्यमुक्त्वा मनोनुगम् ॥ ३.२३६.१६ ॥
夫人啊,他们的情意与普拉杜姆那的情意实是相等的;说了这些亲切、真实、发自肺腑、合于心意的话之后——
3.236.17
गमनाय मनश्चक्रेवासुदेवरथं प्रति ।
तां कृष्णां कृष्णमहिषी चकाराभिप्रदक्षिणम् ॥ ३.२३६.१७ ॥
她决意启程,朝婆苏提婆的战车走去;克里希纳的正妃则围绕克里希那娅右行,以示敬礼。
3.236.18
आरुरोह रथं शौरेः सत्यभामाऽथ भामिनी ।
स्मयित्वातु यदुश्रेष्ठो द्रौपदीं परिसान्त्व्य च।
उपावर्त्य ततः शीघ्रैर्हयैः प्रायात्परंतपः ॥ ३.२३६.१८ ॥
于是光彩照人的萨提亚巴玛登上了肖里(克里希纳)的战车;诸雅度中最优秀者微笑着安慰德罗波蒂,然后调转车头,驾着疾驰的骏马离去,焚敌者啊。