摩诃婆罗多 · 章 3.243
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.243.1
गन्धर्वैस्तु महाराज भग्ने कर्णे महारथे ।
संप्राद्रवच्चमूः सर्वा धार्तराष्ट्रस्य पश्यतः ॥ ३.२४३.१ ॥
大王啊,当大车将迦尔纳被击溃时,乾闼婆们在持国之子们眼前驱散了他们全部的军队。
3.243.2
तान्दृष्ट्वा द्रवतः सर्वान्धार्तराष्ट्रान्पराङ्मुखान् ।
दुर्योधनो महाराजो नासीत्तत्र पराङ्मुखः ॥ ३.२४३.२ ॥
大王难敌见所有持国之子逃跑、背转脸去,却没有在那里转身逃避。
3.243.3
तामापतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम् ।
महता शरवर्षेण सोऽभ्यवर्षदरिंदमः ॥ ३.२४३.३ ॥
看见乾闼婆的大军向他冲来,这位降伏敌人者便以密集的箭雨向他们倾泻。
3.243.4
अचिन्त्य शरवर्षं तु गन्धर्वास्तस्य तं रथम् ।
दुर्योधनं जिघांसन्तः समन्तात्पर्यवारयन् ॥ ३.२४३.४ ॥
乾闼婆们不顾他的箭雨,想要杀死难敌,从四面包围了他的战车。
3.243.5
युगमीषां वरूथं च तथैव ध्वजसारथी ।
अश्वांस्त्रिवेणुमक्षं च तिलशो व्यधमञ्छरैः ॥ ३.२४३.५ ॥
他以箭矢将轭、辕、甲、旗与御者、马匹、三重车架和车轴,一一击碎成芝麻般细小的碎片。
3.243.6
दुर्योधनं चित्रसनो विरथं पतितं भुवि ।
अभिद्रुस्य महाबाहुर्जीवग्राहमथाग्रहीत् ॥ ३.२४३.६ ॥
大臂的奇特军跃向跌落在地、失去战车的难敌,活生生地将他抓住。
3.243.7
तस्य बाहू महाराज बद्ध्वा रज्ज्वा महारथम् ।
आरोप्यस महाबाहुश्चित्रसेनो ननाद ह ॥ ३.२४३.७ ॥
大王啊,他用绳子捆住那位大车将的双臂,将他扶上战车;大臂的citrasena高声吼叫。
3.243.8
तस्मिन्गृहीते राजेन्द्र स्थितं दुःशासनं रथे ।
पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः ॥ ३.२४३.८ ॥
诸王之主啊,当他被擒,站在战车上的难敌之弟duḥśāsana被乾达婆们从四面团团围住并抓获。
3.243.9
विधिशतिं चित्रसेनमादायान्ये विदुद्रुवुः ।
विन्दानुविन्दावपरे राजदारांश्च सर्वशः ॥ ३.२४३.९ ॥
有些人带着citrasena逃走了;vinda、anuvinda及其他人则带着国王所有的妻子逃走了。
3.243.10
सेनास्तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः ।
पूर्वं प्रभग्नैः सहिताः पाण्डवानभ्ययुस्तदा ॥ ३.२४३.१० ॥
般度之子的军队在遭乾达婆袭击后,与先前已被击败的人一起,此时投奔了般度五子。
3.243.11
शकटापणवेशाश्च यानयुग्यं च सर्वशः ।
शरणं पाण्डवाञ्जग्मुर्हियमाणे महीपतौ ॥ ३.२४३.११ ॥
当国王被掳走时,车夫、商贾、仆役,以及一切车辆和驮畜,都前往般度五子处寻求庇护。
3.243.12
प्रियदर्शी महाबाहो धार्तराष्ट्रो महाबलः ।
गन्धर्वैर्ह्रियते राजा पार्थास्तमनुधावत ॥ ३.२४३.१२ ॥
大臂者啊,德兰多罗慧之子、可爱而有大力的国王正被乾达婆掳走;普利塔之子们啊,快去追赶他!
3.243.13
दुःशासनो दुर्विषहो दुर्मुखो दुर्मुखो दुर्जयस्तथा ।
बद्ध्वा ह्रियन्ते गन्धर्वै राजदाराश्च सर्वशः ॥ ३.२४३.१३ ॥
难降、难胜、恶面、恶面与难胜,以及国王的妃子们,都被乾闼婆捆绑着从四面八方带走。
3.243.14
इतिदुर्योधनामात्याः क्रोशन्तो राजगृद्धिनः ।
आर्ता दीनास्ततः सर्वे युधिष्ठिरमुपागमन् ॥ ३.२४३.१४ ॥
于是,贪图王位的难敌大臣们哭喊着,痛苦而可怜,全都来到坚战面前。
3.243.15
तांस्तथा व्यथितान्दीनान्भिक्षमाणान्युधिष्ठिरम् ।
वृद्धान्दुर्योधनामात्यान्भीमसेनोऽभ्यभाषत ॥ ३.२४३.१५ ॥
坚战面前恳求的那些痛苦可怜的难敌老臣们,怖军对他们说道。
3.243.16
महता हि प्रयत्नेन संनह्य गजवाजिभिः ।
अन्यथा वर्तमानानामर्थो जातोऽयमन्यथा ॥ ३.२४३.१६ ॥
以巨大的努力,连同象群和马匹一同披甲备战,事情却对那些行事相反的人转为另一种结果。
3.243.17
अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् ॥ ३.२४३.१७ ॥
我们应当做的,乾闼婆们已经做了。
3.243.18
दुर्मन्त्रितमिदं तावद्राज्ञो दुर्द्यूतदेविनः ।
दीनान्दुर्योधनस्यास्मान्द्रष्टुकामस्य दुर्मतेः ॥ ३.२४३.१८ ॥
这是沉迷恶劣赌博的国王的恶谋;恶意的难敌想要看到我们陷入困苦。
3.243.19
द्वेष्टारमन्ये क्लीवस्य घातयन्तीति नः श्रुतम् ।
इदं कृतं नः प्रत्यक्षं गन्धर्वैरतिमानुषम् ॥ ३.२४३.१९ ॥
我们曾听说,别人说敌人是被无能之人所杀。但乾闼婆在我们眼前做成了这超人的事。
3.243.20
दिष्ट्या लोके पुमानस्ति कश्चिदस्मन्प्रिये स्थितः ।
येनास्माकं हृतो भार आसीनानां सुखावहः ॥ ३.२४३.२० ॥
幸而世上有一人站在我们所爱之人的一边,他夺走了让我们安坐而享乐的那份重担。
3.243.21
शीतवातातपसहांस्तपसा चैव कर्शितान् ।
समस्थो विषमस्थान्हि द्रष्टुमिच्छति दुर्मतिः ॥ ३.२४३.२१ ॥
心术不正者站在平地上,想要看见我们——我们忍受着寒冷、风和暑热,因苦行而消瘦,站在崎岖的地上。
3.243.22
अधर्मचारिणस्तस्य कौरव्यस्य दुरात्मनः ।
ये शीलमनुवर्तन्ति ते पश्यन्ति पराभवम् ॥ ३.२४३.२२ ॥
那些遵循那位行不义、心术邪恶的考拉瓦之品行的人,将会见到败亡。
3.243.23
अधर्मो हि कृतस्तेन येनैतदुपलक्षितम् ।
अनृशंसास्तु कौन्तेयास्तत्प्रत्यक्षं ब्रवीमि वः ॥ ३.२४३.२३ ॥
造成此事的不义之举是他所做的。但昆提之子仁慈;这是我当着你们的面直言相告。
3.243.24
एवं ब्रुवाणं कौन्तेयं भीमसेनमपस्वरम् ।
न कालः परुषस्यायमिति राजाऽभ्यभाषत ॥ ३.२४३.२४ ॥
昆提之子毗摩罗婆那如此粗声说话时,国王说:“这不是说严厉之言的时候。”