Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.244

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.244.1

अस्मानभिगतांस्तात भयार्ताञ्छरणैषिणः ।
कौरवान्विषमप्राप्तान्कथं ब्रूयास्त्वमीदृशम् ॥ ३.२४४.१ ॥

亲爱的,那些因恐惧而痛苦、寻求庇护、陷入困境的俱卢族人已来到我们这里——你怎能说出这样的话?

3.244.2

भवन्ति भेदा ज्ञातीनां कलहाश्च वृकोदर ।
प्रसक्तानि च वैराणि ज्ञातिधर्मो न नश्यति ॥ ३.२४४.२ ॥

亲族之间会有分裂与争吵,狼腹啊,仇怨也会持续;然而亲族之法并不会因此消亡。

3.244.3

यदा तु कश्चिज्ज्ञातीनां बाह्यः प्रार्थयते कुलम् ।
न मर्षयन्ति तत्सन्तो बाह्येनाभिप्रधर्षणम् ॥ ३.२४४.३ ॥

当某个外人觊觎亲族的家族时,善人不会容忍外人的这种侵犯。

3.244.4

जानात्येष हि दुर्बुद्धिरस्मानिह चिरोषितान् ।
स एवं परिभूयास्मानकार्षीदिदमप्रियम् ॥ ३.२४४.४ ॥

这个心术不正的人知道我们在此居住已久。他就这样羞辱了我们,做出了这件令人不快的事。

3.244.5

दुर्योधनस्य ग्रहणाद्गन्धर्वेण बलाद्रणे ।
स्त्रीणां बाह्याभिमर्शाच्च हतं भवति नः कुलम् ॥ ३.२४४.५ ॥

因为乾闼婆在战斗中强行擒获了难敌,又因外人触犯了妇女,我们的家族就要毁灭。

3.244.6

श्चरणं च प्रपन्नानां त्राणार्थं च कुलस्य च ।
उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत मा चिरम् ॥ ३.२४४.६ ॥

为了保护寻求庇护的人和保卫家族,起来吧,人中之虎!不要迟疑,准备好吧。

3.244.7

अर्जुनश्च यमौ चैव त्वं च भीमापराजितः ।
मोक्षयध्वं नरव्याघ्रा ह्रियमाणं सुयोधनम् ॥ ३.२४४.७ ॥

阿周那、双生子,还有你,不可战胜的怖军——人中猛虎啊,去解救正被掳走的苏瑜陀那吧。

3.244.8

एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः ।
धृतराष्ट्रस्य पुत्राणां विमला काञ्चनध्वजाः ॥ ३.२४४.८ ॥

人中猛虎啊,这些战车装备了一切兵器——是持国之子的,洁净无瑕,有金色的旗帜。

3.244.9

सस्वनानधिरोहध्वं नित्यसज्जानिमान्रथान् ।
इन्द्रसेनादिभिः सूतैः कृतशस्त्रैरधिष्ठितान् ॥ ३.२४४.९ ॥

登上这些轰鸣、时刻待命的战车吧,它们由因陀罗塞那等精通武艺的御者驾驭。

3.244.10

एतानास्थाय वै यत्ता गन्धर्वान्योद्धुमाहवे ।
सुयोधनस्य मोक्षाय प्रयतध्वमतनद्रिताः ॥ ३.२४४.१० ॥

登上它们,准备在战场上与乾达婆交战,不知疲倦地为解救苏瑜陀那而奋力吧。

3.244.11

परैः परिभवे प्राप्ते वयं पञ्चोत्तरं शतम् ।
परस्परविरोधे तु वयं पञ्चैव ते शतम् ॥ ३.२४४.११ ॥

当敌人带来败亡时,我们是一百零五人;但在内部相争时,我们只有五人,而他们有一百人。

3.244.12

य एव कश्चिद्राजन्यः शरणार्थमिहागतम् ।
परं शक्त्याभिरक्षेत किं पुनस्त्वं वृकोदर ॥ ३.२४४.१२ ॥

凡此处的刹帝利,对前来寻求庇护者都应尽全力保护——何况是你,狼腹啊。

3.244.13

एवमुक्तस्तु कौन्तेयः पुनर्वाक्यमभाषत ।
कोपसंरक्तनयनः पूर्ववैरमनुस्मरन् ॥ ३.२४४.१३ ॥

被如此质问后,昆缇之子再次开口,怒目通红,回想着往昔的仇怨。

3.244.14

पुरा जतुगृहेऽनेन दग्धुमस्मान्युधिष्ठिर ।
दुर्बुद्धिर्हि कृता वीर तदा दैवेन रक्षिताः ॥ ३.२४४.१४ ॥

往昔在漆宫中,此人心怀恶念,意欲焚烧我们,英雄啊;当时судьба(天命)保护了我们。

3.244.15

कालकूटविषं तीक्ष्णं भोजने मम भारत ।
उप्त्वा गङ्गां लतापाशैर्वैद्ध्वा च प्राक्षिपत्प्रभो ॥ ३.२४४.१५ ॥

婆罗多啊,锐利的迦罗古陀毒被放入我的食物中;他将我投入恒河,并用藤蔓绳索捆绑,把我抛弃了,主啊。

3.244.16

रसातलं च संप्राप्य तदा वासुकिमञ्जसा ।
तत्र दृष्ट्वा तु राजेन्द्रपुनः प्राप्तो महीतलम् ॥ ३.२४४.१६ ॥

到达地底世界,在那里迅速见到了婆苏枳,王中之王啊,他又回到了大地表面。

3.244.17

द्यूतकालेऽपिकौन्तेय वृजिनानि कृतनि वै ।
द्रौपद्याश्च पराभर्शः केशग्रहणमेव च।
वस्त्रापहरणं चैव सभामध्ये कृतानि वै ॥ ३.२४४.१७ ॥

贡蒂之子啊,在掷骰子的时候也犯下了恶行:对德罗帕蒂的侮辱、抓她的头发、剥夺她的衣裳,都是在大会堂中间做的。

3.244.18

राज्यं चाच्छिद्य राजेन्द्र उक्तवान्परुषाणि नः ।
पुरा कृतानां पापानां फलं भुङ्क्ते सुयोधनः ॥ ३.२४४.१८ ॥

王中之王啊,他夺取了王国,并对我们说了粗暴的话。苏尤达那如今正承受着他往昔所作恶行的果报。

3.244.19

अस्माबिरेवकर्तव्यं धार्तराष्ट्रस्य निग्रहम् ।
अन्येन तु कृतं तद्वै मैत्र्यमस्माकमिच्छता।
उपकारी तु गन्धर्वो मा राजन्विमना भव ॥ ३.२४४.१९ ॥

惩罚持国之子本应由我们自己来做;但是想与我们结交的另一人做了此事。乾闼婆是恩人;大王,不要沮丧。

3.244.20

एतस्मिन्नन्तरे राजंश्चित्रसेनेन वै हृतः ।
विललाप सुदुःखार्तो नीयमानः सुयोधनः ॥ ३.२४४.२० ॥

此时,大王,被质多犀那劫持带走的苏耶陀那因极度悲痛而哀叹。

3.244.21

युधिष्ठिर महाबाहो सर्वधर्मभृतांवर ।
सपुत्रान्सहदारांश्च गन्धर्वेण हृतान्बलात् ॥ ३.२४४.२१ ॥

大臂的坚战啊,持法者中最优秀的!乾闼婆以武力夺走了你的儿子们和妻子们。

3.244.22

पाण्डुपुत्र महाबाहो कौरवाणां यशस्कर ।
सर्वधर्मभृतां श्रेष्ठ गन्धर्वेण हृतं बलात्।
रक्षस्व पुरुषव्याघ्र युधिष्ठिर महायशः ॥ ३.२४४.२२ ॥

般度之子,大臂者,为俱卢族增光者,持法者中最优秀的!乾闼婆以武力劫走了他们。请保护他们,坚战啊,人中之虎,大名者!

3.244.23

भ्रातरं ते महाबाहो बद्ध्वा नयति मामयम् ।
दुश्शासनं दुर्विषहं दुर्मुखं दुर्जयं तथा ॥ ३.२४४.२३ ॥

大臂者啊,此人正捆绑你的兄弟并带走我,还有难安、难以忍受、难面及难胜。

3.244.24

बद्ध्वा हरन्ति गन्धर्वा अस्मान्दारांश्च सर्वशः ।
अनुधावत मां क्षिप्रं रक्षध्वं पुरुषोत्तमाः ॥ ३.२४४.२४ ॥

乾闼婆们正捆绑我们,将我们所有人和妻子们全部劫走。快追随我!人中之最者啊,请保护我们!

3.244.25

यमौ मामनुधावेतां रक्षार्थं मम सायुधौ ।
कुरुवंशस्य सुमहदयशः प्राप्तमीदृशम्।
व्यपोहयध्वं गन्धर्वाञ्जित्वा वीर्येण पाण्डवाः ॥ ३.२४४.२५ ॥

愿那两位持械的孪生兄弟追随我来保护我。这样大的耻辱降临在俱卢族身上了。般度之子啊,凭勇力战胜乾闼婆,将它驱除吧。

3.244.26

एवं विलपमानस्य कौरवस्यार्तया गिरा ।
श्रुत्वा विलापं संभ्रान्तो घृणयाऽभिपरिप्लुतः ॥ ३.२४४.२६ ॥

这样,他听到哀嚎的俱卢族人痛苦的声音,心中慌乱,充满了怜悯。

3.244.27

युधिष्ठिरः पुनर्वाक्यं भीमसेनमथाब्रवीत् ।
सुयोधनस्य मोक्षाय प्रयतध्वमतन्द्रिताः ॥ ३.२४४.२७ ॥

于是坚战又对怖军说:"为了解救苏优陀那,不懈地努力吧。"

3.244.28

क इवार्यो दयेत्प्राणानभिधावेति चोदितः ।
प्राञ्जलं शरणापन्नं दृष्ट्वा शत्रुमपि ध्रुवम् ॥ ३.२४४.२८ ॥

哪位高尚的人会不怜惜性命?谁被催促后会奔赴?看到合掌前来寻求庇护的敌人,他必定会心生怜悯。

3.244.29

वरप्रदानं राज्यं च पुत्रजन्म च पाण्डवाः ।
शत्रोश्च मोक्षणं क्लेशास्त्रीणि चैकं च तत्समम् ॥ ३.२४४.२९ ॥

赐予恩惠、王国、生子,般度之子啊,释放敌人与种种苦难——这三者加上一者,而那也是相同的。

3.244.30

न ह्यस्त्यधिकमेतस्माद्यदापन्नः सुयोधनः ।
त्वद्बाहुबलमाश्रित्य जीवितं परिमार्गते ॥ ३.२४४.३० ॥

没有比这更大的了:苏优陀那陷入了困境,他依靠你臂膀的力量,正在寻求活命。

3.244.31

स्वयमेव प्रधावेयं यदि न स्याद्वृकोदर ।
विततो मे क्रतुर्वीर न हि मेऽत्र विचारणा ॥ ३.२४४.३१ ॥

狼腹啊,若非如此,我自己就会冲上前去。英雄,我的祭祀正在展开;此事我并无疑虑。

3.244.32

साम्नैव तु यथा भीम मोक्षयेथाः सुयोधनम् ।
तथा सर्वैरुपायैस्त्वं यतेथाः कुरुनन्दन ॥ ३.२४४.३२ ॥

婆罗多之子啊,若你能仅以和解之道救出苏陀那,便应如此;俱卢族之欢喜者啊,你应当以一切方法努力。

3.244.33

न साम्ना प्रतिपद्येत यदि गन्धर्वराडसौ ।
पराक्रमेण मृदुना मोक्षयेथाः सुयोधनम् ॥ ३.२४४.३३ ॥

若那位乾达婆王不肯以和解相从,便以温和的勇力救出苏陀那。

3.244.34

अथासौ मृदुयुद्धेन न मुञ्चेद्भीम कौरवान् ।
सर्वोपायैर्पिमोच्यास्ते निगृह्य परिपन्थिनः ॥ ३.२४४.३४ ॥

若他即使以温和之战也不放出俱卢族人,那么,婆罗多之子啊,便以一切方法擒住那些敌人,使俱卢族人获释。

3.244.35

एतावद्धि मया शक्यं संदेष्टुं वै वृकोदर ।
वैताने कर्मणि तते वर्तमाने च भारत।
वरप्रदानं सुमहद्याचकस्य प्रकीर्तितम् ॥ ३.२४४.३५ ॥

狼腹啊,我只能指示到此。婆罗多后裔啊,在广大的吠檀那祭祀进行之时,向乞求者赐予恩惠被称为极其伟大。

3.244.36

अजातसत्रोर्वचनं तच्छ्रुत्वा तु धनंजयः ।
प्रतिजज्ञे गुरोर्वाक्यं कौरवाणां विमोक्षणम् ॥ ३.२४४.३६ ॥

阿遮多舍睹律的这番话,财富征服者听后,许诺依照师长之命,解救俱卢族人。

3.244.37

यदि ककसाम्ना न मोक्ष्यन्ति गन्धर्वा धृतराष्ट्रजान् ।
अद्य गन्धर्वराजस्य भूमिः पास्यति शोणितम् ॥ ३.२४४.३७ ॥

若乾闥婆不以乌鸦式的柔和手段释放持国之子,今日大地将饮乾闥婆王的血。

3.244.38

अर्जुनस्य तु तां श्रुत्वा प्रतिज्ञां सत्यवादिनः ।
कौरवाणां तदा राजन्पुनः प्रत्यागतं मनः ॥ ३.२४४.३८ ॥

大王,俱卢族人听到说真话的阿周那的那个誓言后,心意便又转回来了。