Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.247

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.247.1

ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत् ।
मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः ॥ ३.२४७.१ ॥

于是大弓手、大光辉的阿周那在乾闼婆军中间笑着对citrasena说了这番话。

3.247.2

किं ते व्यवसितं वीर कौरवाणां विनिग्रहे ।
किमर्थं च सदारोऽयं निगृहीतः सुयोधनः ॥ ३.२४७.२ ॥

英雄啊,你在制服俱卢族时的决心是什么?为何这位苏尤陀那与妻子一同被擒?

3.247.3

विदितोऽयमभिप्रायस्तत्रस्थेन दुरात्मनः ।
इन्द्रेण धार्तराष्ट्रस्य सकर्णस्य धनंजय ॥ ३.२४७.३ ॥

邪恶的持国之子与迦尔纳的这一意图,在场的因陀罗早已知晓,阿周那啊。

3.247.4

वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत् ।
समस्थो विषमस्थांस्तान्द्रक्ष्यामीत्यनवस्थितान् ॥ ३.२४७.४ ॥

知道你们居于林中,像不配享有般受苦,我将站在平地上,看那些站在险地、摇摇欲坠的人。

3.247.5

इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम् ।
ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः ॥ ३.२४७.५ ॥

这些人来是为了嘲笑名声显赫的德罗波蒂;诸神之主知道了他们的意图,便对我说。

3.247.6

गच्छ दुर्योधनं बद्ध्वा सहामात्यमिहानय ।
धनंजयश्च ते रक्ष्यः रसह भ्रातृभिराहवे ॥ ३.२४७.६ ॥

去吧,把难敌连同他的大臣一起捆绑带来这里;在战斗中,你和兄弟们须保护达那闼耶。

3.247.7

स च प्रियः सखा तुभ्यं शिष्यश् तव पाण्डवः ।
वचनाद्देवराजस् ततोऽस्मीहागतो द्रुतम् ॥ ३.२४७.७ ॥

他是你亲爱的朋友和弟子,般度之子。我奉天王之命,迅速来到这里。

3.247.8

अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम् ।
नेष्याम्येनं कदुरात्मानं पाकशासनशासनात् ॥ ३.२४७.८ ॥

这个恶人已被缚。我将前往天界;奉因陀罗之命,我要带走这个恶人。

3.247.9

उत्सृज्यतां चित्रसेन भ्राताऽस्माकं सुयोधनः ।
धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम् ॥ ३.२४७.९ ॥

持明,请释放我们的兄弟苏约陀那。若你愿为我做善事,就依照法王的口信去做吧。

3.247.10

पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति ।
प्रलब्धा धर्मराजस्य कृष्णायाश्च धनंजय ॥ ३.२४७.१० ॥

此罪人向来作恶,不配获释。持财啊,他欺骗了法王与黑公主。

3.247.11

नेदं चिकीर्षितं तस् कुन्तीपुत्रो युधिष्ठिरः ।
जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि ॥ ३.२४७.११ ॥

这并非他所愿。贡提之子坚战知道此事;听了法王之言后,你可照你的意愿行事。

3.247.12

ते सर्व एव राजनमभिजग्मुर्युधिष्ठिरम् ।
अभिगम्य च तत्सर्वं शशंसुस्तस्य चेष्टितम् ॥ ३.२४७.१२ ॥

他们都去见国王坚战,走到他面前,将他的所作所为全部陈述了一遍。

3.247.13

अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा ।
मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च ॥ ३.२४७.१३ ॥

阿闍多until 尔时,阿阇多设特鲁闻乾闼婆之言,即令释放一切乾闼婆,并称赞他们。

3.247.14

चित्रसेनस्तदा वाक्यमुवाच प्रौढया गिरा ।
मुञ्चध्वंसानुजामात्यं सदारं च सुयोधनम् ॥ ३.२४७.१४ ॥

于是,支多罗犀那以坚定的声音说道:“释放苏尤陀那,连同他的幼弟、大臣和妻子。”

3.247.15

गन्धर्वास्तु वचः श्रुत्वा चित्रसेनस्य वै द्रुतम् ।
राजानं मोचयामासुर्बद्धं निगडबन्धनैः ॥ ३.२४७.१५ ॥

乾闼婆们听到支多罗犀那的话,迅速释放了被铁镣锁住的国王。

3.247.16

सदारं सानुगामात्यं बालजालमयेन ये ।
लुछन्तश्चापि ते सर्वे युधिष्ठिरसमीपतः ॥ ३.२४७.१६ ॥

与妻子、随从和大臣一起,他们都撕扯着由发丝编成的帷幕,来到了坚战附近。

3.247.17

पतिता लज्जिताश्चैव तस्थुश्चाधोमुखास्तदा ।
युधिष्ठिरोपि दयया तान्समीक्ष्य तथागतान् ॥ ३.२४७.१७ ॥

他们跌倒在地、羞愧难当,低着头站立;坚战见他们如此模样,也怀着慈悲看着他们。

3.247.18

दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः ।
दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः ॥ ३.२४७.१८ ॥

幸而,你们都强大有能,却没有伤害这个行为恶劣的持国之子,连同他的大臣、族人和亲属。

3.247.19

उपकारो मसांस्तात कृतोऽयं मम खेचर ।
कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः ॥ ३.२४७.१९ ॥

亲爱的孩子,天行者们,你们为我做了这件好事。因这恶人的释放,我的家族并未蒙受耻辱。

3.247.20

आज्ञापयध्वमिष्टानि प्रीतं मां दर्शनेन वः ।
प्राप्य सर्वानभिप्रायांस्ततो व्रजत मा चिरम् ॥ ३.२४७.२० ॥

见到你们我很欣喜。请说出你们所有的愿望,然后不要耽搁,立即离去。

3.247.21

अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता ।
सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः ॥ ३.२४७.२१ ॥

得到智慧的般度之子许可后,乾闼婆们与阿普萨拉斯一同,在众人之首的citrasena率领下,满心欢喜地离去了。

3.247.22

देवलोकं ततो गत्वा गन्धर्वैः सहितस्तदा ।
न्यवेदयच्च तत्सर्वं चित्रसेनः शतक्रतोः ॥ ३.२४७.२२ ॥

随后,citrasena与乾闼婆们一同前往天界,将一切禀报了Śatakratu(因陀罗)。

3.247.23

देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत् ।
दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि ॥ ३.२४७.२३ ॥

天王也以神圣的甘露之雨,使在战斗中被俱卢族杀死的那些乾闼婆复活了。

3.247.24

ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः ।
कृत्वा च रदुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः ॥ ३.२४७.२४ ॥

随后,他们将那些亲族与国王的妻子全部释放,完成了那桩艰难的事业,般度五子心中欢喜。

3.247.25

सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः ।
बभ्राजिरे महात्मानः क्रतुमध्ये यथाऽग्नयः ॥ ३.२४७.२५ ॥

众库鲁与妇孺共同敬奉之下,那些大车战士、大德之人,如祭祀中的火焰般光辉闪耀。

3.247.26

ततो दुर्योधनं मुक्तं भ्रातृभिः सहितस्तदा ।
युधिष्ठिरस्तु प्रणयादिदं वचनमब्रवीत् ॥ ३.२४७.२६ ॥

于是,与诸弟同在的坚战释放了难敌,并出于亲情说出了这番话。

3.247.27

रमा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित् ।
न हि साहसकर्तारः सुखमेघन्ति भारत ॥ ३.२४७.२७ ॥

孩子,安心吧;今后绝不可再做这样鲁莽的事。婆罗多之后,行事鲁莽者不能得享安乐。

3.247.28

स्वस्तिमान्सहितः सर्वैर्ब्रातृभिः कुरुनन्दन ।
गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः ॥ ३.२४७.२८ ॥

库鲁之喜,愿你与诸弟平安归家,随你所愿;切莫心存芥蒂。

3.247.29

पाण्डवेनाभ्यनुज्ञानो राजा दुर्योधनस्तदा ।
अभिवाद्य धर्मपुत्रं गतेन्द्रिय इवातुरः।
विदीर्यमाणो व्रीडावाञ्जगाम नगरं प्रति ॥ ३.२४७.२९ ॥

得到般度子的许可后,国王难敌向法之子行礼,然后如同失去心神、痛苦不堪,羞愧撕扯着他,他朝城中走去。

3.247.30

तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः ।
भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः ॥ ३.२४७.३० ॥

那位俱卢子离去之后,贡提之子英雄坚战与诸弟一同,受到再生者们的敬重。

3.247.31

तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः ।
तथा द्वैतवने तस्मिन्विजहार मुदा युतः ॥ ३.२४७.३१ ॥

他被所有这些苦行者环绕,如同因陀罗被诸天环绕一般,欢喜地在那座双叉林中游居。