Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.254

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.254.1

एवं गतेषु पार्थेषु वने तस्मिन्महात्मसु ।
धार्तराष्ट्रा महेष्वासाः किमकुर्वत सत्तमाः ॥ ३.२५४.१ ॥

此时般度之子已入那大林,持大弓的持国子们做了什么,诸位最善者?

3.254.2

कर्णो वैकर्तनश्चैव शकुनिश्च महाबलः ।
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि ॥ ३.२५४.२ ॥

维卡尔坦之子迦尔纳、大力的沙恭尼,以及毗湿摩、德罗纳、克里帕——请你为我述说他们的事。

3.254.3

एवं गतेषु पार्थेषु विसृष्टे च सुयोधने ।
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः।
भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वच ॥ ३.२५४.३ ॥

般度之子如此离去,苏由陀那被释放并回到了象城,由般度之子所赦免。大王啊,毗湿摩对持国之子说了这番话。

3.254.4

उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम् ।
वचनं ते न रुचितं मम तन्न कृतं च ते ॥ ३.२५४.४ ॥

孩子,你去苦行林时,我就曾经说过:你的话不合我意,而你也没有照做。

3.254.5

ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात् ।
मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे ॥ ३.२५४.५ ॥

此后,英雄啊,你被敌人强行擒获,又被懂得法义的般度五子所救——你却并不感到羞耻。

3.254.6

प्रत्यक्षं तव गान्धारे ससैन्यस् विशांपते ।
सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात् ॥ ३.२५४.६ ॥

就在你眼前,持国的……甘陀利之子啊,人主,连同你的军队,御者之子迦尔纳因畏惧而从与乾闼婆的那场战斗中逃走了。

3.254.7

क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज ।
व्यपायात्पृष्ठतस्तस्मात्प्रेक्षमाणः पुनःपुनः ॥ ३.२५४.७ ॥

啊,王中之王,王子,与你的军队一同呼喊着,他从那里退去,一次又一次回头张望。

3.254.8

दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम् ।
कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मते ॥ ३.२५४.८ ॥

啊,大臂者,恶念者,你已见识了大心的般度诸子以及御者之子迦尔纳的勇武。

3.254.9

न चापि पादभाक्कर्णः पाण्डवानां महात्मनाम् ।
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल ॥ ३.२५४.९ ॥

啊,爱法者,无论在弓术、勇武还是法义上,迦尔纳都不及大心的般度诸子的四分之一。

3.254.10

तस्मादहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः ।
रसन्धिं सन्धिविदांश्रेष्ठ कुलस्यास्य विवृद्धये ॥ ३.२५४.१० ॥

因此,我认为与那些大心的般度诸子和解是适宜的,啊,精通和约者中最优秀的人,为了这个家族的昌盛。

3.254.11

एवमुक्तश्च भीष्मेण धार्तराष्ट्रो जनेश्वरः ।
प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः ॥ ३.२५४.११ ॥

被毗湿摩如此说后,持国之子、人主,忽然大笑,啊,国王,与沙恭尼一同启程了。

3.254.12

तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः ।
अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम् ॥ ३.२५४.१२ ॥

得知他要出发,迦尔纳、难降等大弓手便跟随那大力的持国之子而去。

3.254.13

तांस्तु संप्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः ।
लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम् ॥ ३.२५४.१३ ॥

大王啊,库鲁族祖父毗湿摩见他们出发,羞愧不已,便回到自己的住所。

3.254.14

गते भीष्मे महाराज धार्तराष्ट्रो जनेश्वरः ।
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः ॥ ३.२५४.१४ ॥

大王啊,毗湿摩离去之后,人民之主、持国之子又回到那个地方,与大臣们商议。

3.254.15

किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते ।
कथं च सुकृतं तत्स्यान्मन्त्रयामास भारत ॥ ३.२५४.१५ ॥

对我们有利的是什么?还有什么事尚未完成?如何才能办得妥善?婆罗多啊,他就此商议。

3.254.16

दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव ।
भीष्मोस्मान्निन्दति सदा पाण्डवांश्च प्रशंसति ॥ ३.२५४.१६ ॥

杜尤陀那,库鲁之子,听我要对你说的话:毗湿摩总是指责我们,而赞美般度五子。

3.254.17

त्वद्वेषाच्च महाबाहो मामपि द्वेष्टुमर्हति ।
विगर्हते च मां नित्यं त्वत्समीपे नरेश्वर ॥ ३.२५४.१७ ॥

大臂者啊,因为他憎恨你,他也便来憎恨我。人主啊,在你面前他总是责备我。

3.254.18

सोऽहं भीष्मवचस्तद्वै न मृष्यामीह भारत ।
त्वत्समं यदुक्तं च भीष्मेणामित्रकर्शन ॥ ३.२५४.१८ ॥

因此,婆罗多啊,毗湿摩把我与你相提并论的那些话,我在此不能忍受,你这制伏敌人者。

3.254.19

पाण्डवानां यशो राजंस्तव निन्दां च भारत ।
अनुजानीहि मां राजन्सभृत्यबलवाहनम् ॥ ३.२५४.१९ ॥

大王啊,婆罗多啊,请允许我去消除般度之子的名声与你的污名;大王啊,请允许我率领随从、军队和车乘前往。

3.254.20

जेष्यामि पृथिवीं राजन्सशैलवनकाननाम् ।
जिता च पाण्डवैर्भूमिश्चतुर्भिर्बलशालिभिः ॥ ३.२५४.२० ॥

大王啊,我将征服这连同山岳、森林与园林的大地,那是四位强大的般度之子所征服的大地。

3.254.21

तामहं ते विजेष्यामि एक एव न संशयः ।
संपश्यतु सुदुर्बुद्धिर्भीष्मः कुरुकुलाधमः ॥ ३.२५४.२१ ॥

那片大地我将独自为你征服,毫无疑问;让那愚昧的毗湿摩,这位古鲁家族中最卑劣的人,亲眼看看吧。

3.254.22

अनिन्द्यं निन्दते यो हि अप्रशंस्यं प्रशंसति ।
स पश्यतु बलं मेऽद्य आत्मानं तु विगर्हतु ॥ ३.२५४.२२ ॥

那个指责无可指责者、赞美不值赞美者的人,今日让他看看我的力量,让他自己责备自己吧。

3.254.23

अनुजानीहि मां राजन्ध्रुवो हि विजयस्तव ।
प्रतिजानामि ते सत्यं राजन्नायुधमालभे ॥ ३.२५४.२३ ॥

大王啊,请允许我;你的胜利是确定的。大王啊,我向你真诚立誓,并以手触摸武器。

3.254.24

तच्छ्रुत्वा तु वचो राजन्कर्णस्य भरतर्षभ ।
प्रीत्या परमया युक्तः कर्णमाह नराधिपः ॥ ३.२५४.२४ ॥

婆罗多族的雄牛啊,大王,听了迦尔纳的这番话,人主怀着无上的喜悦,对迦尔纳说道。

3.254.25

धन्योस्म्यनुगृहीतोस्मि यस्य मे त्वं महाबलः ।
हितेषु वर्तसे नित्यं सफलंजन्म चाद्य मे ॥ ३.२५४.२५ ॥

啊,大力者,我何其有幸,蒙你厚爱,你总是为我的利益而尽心;今日我的出生终于有了成果。

3.254.26

यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम् ।
तदा निर्गच्छ भद्रं ते ह्यनुशाधि च मामिति ॥ ३.२५४.२६ ॥

啊,英雄,当你认为该是消灭所有敌人的时候,便出发吧;愿你吉祥如意,并请吩咐我。

3.254.27

एवमुक्तस्तदा कर्णो धार्तराष्ट्रेण धीमता ।
सर्वमज्ञापयामास प्रायात्रिकमरिंदम ॥ ३.२५४.२७ ॥

智慧的持国之子如此说罢,迦尔纳便下令宣布出行的一切准备,啊,制服敌人者!

3.254.28

प्रययौ च महेष्वासो नक्षत्रे शुभदैवते ।
शुभेतिथौ मुहूर्ते च पुज्यमानो द्विजातिभिः ॥ ३.२५४.२८ ॥

大弓手在吉祥神明主management的星宿下、吉祥的太阴日与吉时出发,受到再生族的敬拜。

3.254.29

मङ्गलैश्च शुभैः स्नातो वाग्भिश्चापि प्रपूजितः ।
नादयन्रथघोषेण त्रैलोक्यं सचराचरम् ॥ ३.२५४.२९ ॥

他沐浴于吉祥的礼仪之中,受到善言的隆重赞颂,以战车的轰鸣使三界之中的动与不动之物都为之回响。