Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.255

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.255.1

ततः कर्णो महेष्वासो बलेन महता वृतः ।
द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ ॥ ३.२५५.१ ॥

于是,大弓箭手迦尔纳被庞大的军队包围,围困了德鲁帕达美丽的城市,啊,婆罗多族的雄牛。

3.255.2

युद्धेन महता चैनं चक्रे वीरं वशानुगम् ।
सुवर्णं रजतं चापि रत्नानि विविधानि च।
करं च दापयांमास द्रुपदं नृपसत्तम ॥ ३.२५५.२ ॥

他以大战使那位英雄臣服,并让德鲁帕达献上金、银及各色宝石作为贡赋,啊,最优秀的王者。

3.255.3

तं विनिर्जित्य राजेन्द्र राजानस्तस्य येऽनुगाः ।
तान्सर्वान्वशगांश्चक्रे करं चैनानदापयत् ॥ ३.२५५.३ ॥

啊,诸王之主,他战胜了德鲁帕达,并使其所有随从诸王臣服,又让他们也纳贡。

3.255.4

अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान् ।
भगदत्तं च निर्जित्य राधेयो गिरिमारुहत् ॥ ३.२५५.४ ॥

随后他前往北方,使诸人主臣服;战胜婆伽达多后,罗陀之子迦尔纳登上了山。

3.255.5

हिमवन्तं महाशैलं युध्यमानश्च शत्रुभिः ।
प्रययौ च दिशः सर्वान्नृपतीन्वशमानयत् ॥ ३.२५५.५ ॥

他与敌人作战,来到大山喜马拉雅,并使各方诸王臣服。

3.255.6

स हैमवतिकाञ्जित्वा करं सर्वानदापयत् ।
नेपालविषये ये च राजानस्तानवाजयत् ॥ ३.२५५.६ ॥

他战胜喜马拉雅诸族,使他们全部纳贡,又征服了尼泊尔地区的诸王。

3.255.7

अवतीर्य ततः शैलात्पूर्वां दिशमभिद्रुतः ।
अङ्गान्वङ्गान्कलिङ्गांश्च शुण्डिकान्मिथिलानथ ॥ ३.२५५.७ ॥

随后他从山上下来,向东方疾驰,又征讨了盎伽、盎伽、羯陵伽、舜迪迦与弥提罗。

3.255.8

मागधान्कर्कखण्डांश्च निवेश्य विषयेऽऽत्मनः ।
आवशीरांश्च योध्यांश्च अहिक्षत्रांश्च सोऽजयत् ॥ ३.२५५.८ ॥

他把摩揭陀人与迦尔坎达人安置于自己的领地之内,又征服了阿伐希罗人、耶输陀耶人与阿希刹特罗人。

3.255.9

पूर्वां दिशं विनिर्जित्य वत्सभूमिं तथाऽगमत् ॥ ३.२५५.९ ॥

彻底征服东方之后,他随即前往跋蹉之地。

3.255.10

वत्सभूमिं विनिर्जित्य केवलां मृत्तिकावतीम् ।
मोहनं पत्तनं चैव त्रिपुरीं कोसलां तथा ॥ ३.२५५.१० ॥

征服跋蹉之地后,他又尽数征服了泥土城、莫诃那城、三城与憍萨罗。

3.255.11

एतान्सर्वान्विनिर्जित्य करमादाय सर्वशः ।
दक्षिणां दिशमास्थाय कर्णो जित्वा महारथान्।
रुक्मिणं दाक्षिणात्येषु योधयामास सूतजः ॥ ३.२५५.११ ॥

他征服了所有这些地方,全面征收了贡赋,然后转向南方,击败了诸位大车战士,并让鲁克民在南方诸国之间作战。

3.255.12

स युद्धं तुमुलं कृत्वा रुक्मी प्रोवाच सूतजम् ।
प्रीतोस्मि तव राजेन्द्र विक्रमेण बलेन च ॥ ३.२५५.१२ ॥

打完那场激烈的战斗后,鲁克民对御者之子说:“诸王之王啊,我为你的勇武与力量而感到欣慰。”

3.255.13

न ते विघ्नं करिष्यामि प्रतिज्ञां समपालयम् ।
प्रीत्या चाहं प्रयच्छामि हिरण्यं यावदिच्छसि ॥ ३.२५५.१३ ॥

我不会阻挠你,我已完全遵守了诺言。我乐意给你你所想要的所有黄金。

3.255.14

समेत्य रुक्मिणा कर्णः पाण्ड्यं शैलं च सोगमत् ॥ ३.२५५.१४ ॥

卡尔纳与鲁克明会面后,前往潘底亚王和那座山。

3.255.15

स केवलं रणए चैव नीलं चापि महीपतिम् ।
वेणुदारिसुतं चैव ये चान्ये नृपसत्तमाः।
दक्षिणस्यां दिशि नृपान्करान्सर्वानदापयत् ॥ ३.२५५.१५ ॥

他独自在战斗中征服了大地之主尼罗、韦努达里之子以及其他最优秀的国王,并使南方的所有国王纳贡。

3.255.16

शैशुपालिं ततो गत्वा विजिग्ये सूतनन्दनः ।
पार्श्वस्थांश्चापि नृपतीन्वशे चक्रे महाबलः ॥ ३.२५५.१६ ॥

随后他前往希苏帕拉之子处将其征服,这位大力者又使站在其身旁的诸王臣服。

3.255.17

आवन्त्यांश्च वशे कृत्वा साम्ना च भरतर्षभ ।
वृष्णिभिः सह संम्य पश्चिमामपि निर्जयत् ॥ ३.२५५.१७ ॥

婆罗多族的雄牛啊,他以和解之法使阿వన్తి诸王臣服,又与韦尔希尼人联合,征服了西方。

3.255.18

वारुणीं दिशमागम्य यावनान्वर्बरांस्तथा ।
नृपान्पश्चिमभूमिस्थान्दापयामास वै करान् ॥ ३.२५५.१८ ॥

他到达西方,使希腊人、蛮族以及居于西方土地的诸王纳贡。

3.255.19

विजित्य पृथिवीं सर्वां सपूर्वापरदक्षिणाम् ।
सम्लेच्छाटविकान्वीरः सपर्वतनिवासिनः ॥ ३.२५५.१९ ॥

英雄征服了整个大地——东、西、南方——也征服了蛮夷、林居者和住在山中的人。

3.255.20

भद्रान्रोहितकांश्चैव आग्रेयान्मालवानपि ।
गणान्सर्वान्विनिर्जित्य नीतिकृत्प्रहसन्निव ॥ ३.२५५.२० ॥

彻底征服了所有部族——跋陀罗、罗希塔迦、阿格雷亚和摩罗婆——这位通晓政治的人仿佛微笑着前行。

3.255.21

शशकान्यवनांश्चैव विजिग्ये सूतनन्दनः ।
नग्नजित्प्रमुखांश्चैव गणाञ्जित्वा महारथान् ॥ ३.२५५.२१ ॥

御者之子征服了沙沙迦和耶婆那;又征服了以那伽吉特为首的诸部族和大战车武士,然后继续前进。

3.255.22

एवं स पृथिवीं सर्वां वशे कृत्वा महारथः ।
विजित्य पुरुषव्याघ्रो नागसाह्वयमागमत् ॥ ३.२५५.२२ ॥

这位大战车武士就这样征服并降服了整个大地,这位人中之虎来到了那伽萨赫瓦耶(象城,即哈斯蒂纳普拉)。

3.255.23

तमागतं महेष्वासं धार्तराष्ट्रो जनाधिपः ।
प्रत्युद्गत्य महाराज सभ्रातृपितृबान्धवः ॥ ३.२५५.२३ ॥

对于到来的这位大弓箭手,持国之子、人主迎上前去,与兄弟、父亲和亲族一同,啊大王。

3.255.24

अर्चयामास विधिना कर्णमाहवशोभिनम् ।
आश्रावयच्च तत्कर्म प्रीयमाणो जनेश्वरः ॥ ३.२५५.२४ ॥

他依礼仪尊敬在战斗中光彩照人的迦尔纳;人主欢喜,便让人宣告他的功绩。

3.255.25

यन्न भीष्मान्न च द्रोणान्न कृपान्न च वाह्लिकात् ।
प्राप्तवानस्मि भद्रं ते त्वत्तःप्राप्तं मया हि तत् ॥ ३.२५५.२५ ॥

我未从毗湿摩、德罗纳、克里帕或跋利迦那里得到的,却从你这里得到了。愿你吉祥。

3.255.26

बहुना च किमुक्तेन शृणु कर्ण वचो मम ।
सनाथोस्मि महाबाहो त्वया नाथेन सत्तम ॥ ३.२५५.२६ ॥

何必多言?卡尔纳,听我的话。大臂者,善人中的最优者,有你作我的庇护者,我便有了依靠。

3.255.27

न हि ते पाण्डवाः सर्वे कलामर्हन्ति षोडशीम् ।
अन्येवा पुरुषव्याघ्र राजानोऽभ्युदितोदिताः ॥ ३.२५५.२७ ॥

人中之虎啊,般度诸子全部都不及你的十六分之一;其他屡次崛起的国王也是如此。

3.255.28

स भवान्धृतराष्ट्रं तं गान्धारीं च यशस्विनीम् ।
पश्य कर्ण महेष्वास अदितिं वज्रभृद्यथा ॥ ३.२५५.२८ ॥

卡尔纳啊,大弓箭手,你要看着持金刚者看待阿底提那样看着持国王与荣耀的甘达利。

3.255.29

ततो हलहलाशब्दः प्रादुरासीद्विशांपते ।
हाहाकाराश्च बहवो नगरे नागसाह्वये ॥ ३.२५५.२९ ॥

于是,人主啊,那名为象城的城中响起了“哈拉哈拉”的喧嚣,也有许多“哎呀”的哀叫之声。

3.255.30

रकेचिदेनं प्रशंसन्ति निन्दन्ति स्म तथा परे ।
तूष्णीमासंस्तथा चान्ये नृपास्तत्र जनाधिप ॥ ३.२५५.३० ॥

有人称赞他,也有人指责他;其他国王则默默坐在那里,人主啊。

3.255.31

एवं विजित्य राजेन्द्र कर्णः शस्त्रभृतांवरः ।
सपर्वतवनाकाशां ससमुद्रां सनुष्कुटाम् ॥ ३.२५५.३१ ॥

君王之主啊,如此,持武器者中最优秀的迦尔纳征服了大地,包括山川、森林、天空、海洋与陆地,

3.255.32

देशैरुच्चावचैः पूर्णां पत्तनैर्नगरैरपि ।
द्वीपैश्चानूपसंपूर्णैः पृथिवीं पृथिवीपते ॥ ३.२५५.३२ ॥

大地充满了各种国家、港口、城市,以及布满沼泽的岛屿,地上之主啊!

3.255.33

कालेन नातिदीर्घेण वशे कृत्वा तु पार्थिवान् ।
अक्षयं धनमादाय सूतजो नृपमभ्ययात् ॥ ३.२५५.३३ ॥

不久之后,他使诸王臣服,取得取之不尽的财富,御者之子便来到了国王面前。

3.255.34

प्रविश्य च गृहं राजन्नभ्यन्तरमरिंदम ।
गान्धारीसहितं वीरो धृतराष्ट्रं ददर्श सः ॥ ३.२५५.३४ ॥

国王啊,制服敌人者啊,英雄进入内室,看见了与甘陀利在一起的持国王。

3.255.35

पुत्रवच्च नरव्याघ्र पादौ जग्राह धर्मवित् ।
धृतराष्ट्रेण चाश्लिष्य प्रेम्णा चापि विसर्जितः ॥ ३.२५५.३५ ॥

人中之虎啊,精通法的他像儿子一样握住了他们的双脚;持国王拥抱他,并满怀爱意地送他离去。

3.255.36

तदाप्रभृति राजा च शकुनिश्चापि सौबलः ।
जानाते निर्जितान्पार्थान्कर्णेन युधि भारत ॥ ३.२५५.३६ ॥

从那时起,国王和苏跋罗之子沙恭尼也得知,般度之子们在战斗中已被迦尔纳击败,婆罗多啊。