Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.256

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.256.1

जित्वा तु पृथिवीं राजन्सूतपुत्रो जनाधिप ।
अब्रवीत्परवीरघ्नो दुर्योधनमिदं वचः ॥ ३.२५६.१ ॥

王啊,人主!征服大地之后,御者之子、敌方英雄的杀者,对难敌说了这些话。

3.256.2

दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव ।
श्रुत्वा वाचं तथा सर्वं कर्तुमर्हस्यरिंदम ॥ ३.२५६.२ ॥

难敌,俱卢之子,听我要对你说的话。降伏敌人者,听了这番话,你应当全部去做。

3.256.3

तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम ।
तां पालय यथा शक्रो हतशत्रुर्महामनाः ॥ ३.२५६.३ ॥

英雄,最优秀的王者!如今这大地对你而言再无敌手。请像杀尽敌人、心胸宽广的帝释天那样守护它。

3.256.4

एवमुक्तस्तु कर्णेन कर्णं राजाऽब्रवीत्पुनः ।
न किंचिद्दुर्लभं तस्य यस् त्वं पुरुषर्षभ ॥ ३.२५६.४ ॥

御者之子如此说后,王又对迦尔纳说:"人中之雄牛啊,对于你这样的人,没有什么难以获得的。"

3.256.5

सहायश्चानुरक्तश्च मदर्थं च समुद्यतः ।
अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम् ॥ ३.२५६.५ ॥

你是我的助手,忠诚而且愿为我而行动。我有一个打算,请如实地听好。

3.256.6

राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा ।
कमम स्पृहा समुत्पन्ना तां संपादय सूतज ॥ ३.२५६.६ ॥

看到般度之子卓越的王祭,我心中生起了一个愿望。御者之子啊,请成就它。

3.256.7

एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत् ।
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम ॥ ३.२५६.७ ॥

卡尔纳如此被询问后对国王说道:众王之最啊,今日大地上的所有守护者都臣服于你。

3.256.8

आहूयन्तां द्विजवराः संभाराश्च यथाविधि ।
संभ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च ॥ ३.२५६.८ ॥

请召来最优秀的再生者,依照规定备齐物资;库鲁之最啊,也请备好祭祀的器具。

3.256.9

ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः ।
क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम ॥ ३.२५६.९ ॥

也请召来如所说的、精通吠陀的祭司;国王啊,愿他们依照经典行礼,征服敌人者啊。

3.256.10

बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः ।
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ ॥ ३.२५६.१० ॥

愿这场丰盛饮食、德行圆满的大祭祀也为你而举行,婆罗多之牛啊。

3.256.11

एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशांपते ।
पुरोहितं समानाय्य वचनं चेदमब्रवीत् ॥ ३.२५६.११ ॥

卡尔纳如此说后,人主啊,持国之子召来祭司,说出了这番话。

3.256.12

राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम् ।
आहरस्व यथाशास्त्रं यथान्यायं यथाक्रमम् ॥ ३.२५६.१२ ॥

请依照经典、依礼法与次第,圆满完成最殊胜的祭祀——王祭,并使其丰厚的酬谢悉数备足。

3.256.13

स एवमुक्तो नृपतिमुवाच द्विजसत्तमः ॥ ३.२५६.१३ ॥

婆罗门中最优秀者如此被问后,对国王说道。

3.256.14

ब्राह्मणैः सहितो राजन्ये तत्रासन्समागताः ।
न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे।
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम ॥ ३.२५६.१४ ॥

刹帝利国王与婆罗门一同聚集于此。大王,只要坚战尚在,俱卢中最优秀者、诸王中最优秀者,您家族中就无法举行那至上的祭祀。

3.256.15

दीर्घायुर्जीवति च ते धृतराष्ट्रः पिता नृप ।
अतश्चापि विरुद्धस्ते क्रतुरेणष नृपोत्तमः ॥ ३.२५६.१५ ॥

你的父亲持国王长寿在世。大王,因此这至上的祭祀对你而言也是不宜的。

3.256.16

अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो ।
तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम ॥ ३.२५६.१६ ॥

主上,还有另一个与王祭相当的伟大祭会。大王之主,请以此举行祭祀。请听我这番话。

3.256.17

य इमे पृथिवीपालाः करदास्तव पार्थिव ।
ते करान्संप्रयच्छन्तु सुवर्णं च कृताकृतम् ॥ ३.२५६.१७ ॥

大王,这些守护大地的诸王,他们是您的纳贡者,应当献上贡赋,以及已加工与未加工的黄金。

3.256.18

तेन ते क्रियतामद्यलाङ्गलं नृपसत्तम ।
यज्ञवाटस् ते भूमिः कृष्यतां तेन भारत ॥ ३.२५६.१८ ॥

最优秀的国王,请用此为您今天就制造一把犁。婆罗多之子,请用它来耕耘您的祭场。

3.256.19

तत्र यज्ञो नृपश्रेष्टः प्रभूतान्नः सुसंस्कृतः ।
प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः ॥ ३.२५६.१९ ॥

在那里,诸王之最,愿这场食物充足、安排妥善的祭祀依照规矩进行,四方无所阻碍。

3.256.20

एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः ।
एतेन नेष्टवान्कश्चिदृतेविष्णुं पुरातनम् ॥ ३.२५६.२० ॥

这是你的名为毗湿奴的祭祀,适合善人。除古老的毗湿奴外,无人以此行祭。

3.256.21

राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः ।
अस्माकं रोचते चैव श्रेयश्च तव भारत ॥ ३.२५६.२१ ॥

这大祭祀可与卓越的王祭相媲美。婆罗多之子啊,它合我们的心意,对你也有益。

3.256.22

निर्विघ्नश्च भवत्येष सफला स्यात्स्पृहा तव ।
तस्मादेष महाबाहो तव यज्ञः प्रवर्तताम् ॥ ३.२५६.२२ ॥

它将无所阻碍,你的心愿也会圆满。因此,大臂者啊,愿你的这场祭祀得以进行。

3.256.23

एवमुकत्स्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः ।
कर्णं च सौबलं चैव भ्रातॄश्चैवेदमब्रवीत् ॥ ३.२५६.२३ ॥

婆罗门如此说后,持国之子的那位王对迦尔纳、萨乌巴拉以及众兄弟也这样说道。

3.256.24

रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः ।
रोचते यदि युष्माकं तस्मात्प्रब्रूत माचिरम् ॥ ३.२५६.२४ ॥

婆罗门的这些话我全都赞同,毫无疑问。若你们也认同,就请不要耽搁,立即说出来。

3.256.25

एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम् ।
संदिदेश ततोराजाव्यापारस्थान्यथाक्रमम् ॥ ३.२५६.२५ ॥

众人被如此告知,都说:“就照您说的办。”于是国王按次序向参与工程的人下达了命令。

3.256.26

हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः ।
यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम् ॥ ३.२५६.२६ ॥

为制造犁,所有工匠也都受到了指令;哦,诸王中最优秀者,一切都按所说的次序完成了。