摩诃婆罗多 · 章 3.266
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.266.1
का त्वं कदम्बस्य विनम्य शाखां ।
किमाश्रमे तिष्ठसि शोभमाना।
देदीप्यमानाऽग्निशिखेव नक्तं ।
व्याधूयमाना पवनेन सूभ्रूः ॥ ३.२६६.१ ॥
你是谁?你弯下迦丹波树的枝条,在这隐修处光彩照人地站立?夜里如火焰般燃烧,被风吹动,美眉的女子啊。
3.266.2
अतीव रूपेण समन्विता त्वं ।
न चाप्यरण्येषु बिभेषि किंनु।
देवी नु यक्षी यदिदानवी वा ।
वराप्सरा दैत्यवराङ्गना वा ॥ ३.२६६.२ ॥
你容貌极美,难道在林中你不害怕吗?你是天女、夜叉女,还是达那婆女?是上等的阿普萨拉,还是达伊提亚的上等妻子?
3.266.3
वपुष्मती वोरगराजकन्या ।
वनेचरी वा क्षणदाचरस्त्री।
त्वं देवराज्ञो वरुणस्य पत्नी ।
यमस्य सोमस्य धनेश्वरस्य ॥ ३.२६६.३ ॥
你是身姿美好的蛇王之女,还是林中漫游的女子,或是夜中行走的女子?你是天王、伐楼那、阎摩、月神或财神的妻子吗?
3.266.4
धातुर्विधातुः सवितुर्विभोर्वा ।
शक्रस्य वा त्वं सदनात्प्रपन्ना।
न ह्येव नः पृच्छसि ये वयं स्म ।
न चापि जानीम तवेह नाथम् ॥ ३.२६६.४ ॥
你是从持双、创造者、萨维特里、毗布或帝释的住处而来的吗?你不问我们,我们也不知道你在此的夫主是谁。
3.266.5
वयं हि मानं तव वर्धयन्तः ।
पृच्छाम भद्रेप्रभवं प्रभुं च।
आचक्ष्व बन्धूंश्च पतिं कुलं च ।
जातिं च यच्चेगह करोषि कार्यम् ॥ ३.२६६.५ ॥
我们敬重你而问:好女子啊,请告诉我们你的出身和夫主;说说你的亲属、丈夫、家族、种姓,以及你在此所做的事。
3.266.6
अहं तु राज्ञः सुरथस्य पुत्रो ।
यं कोटिकाश्येति विदुर्मनुष्याः।
वश्येन्द्रियः सत्यरतिर्वरोरु ।
वृद्धोपसेवी गुरुपूजकश्च ॥ ३.२६६.६ ॥
我是国王苏罗陀的儿子,人们称我为俱提迦奢。我控制感官,乐于真理,哦,大腿优美的女子,我侍奉长者,尊敬师长。
3.266.7
असौ तु यस्तिष्ठतिकाञ्चनाङ्गे ।
तथे हुतोऽग्निश्चयने यथैव।
तरिगर्तराजः कमलायताक्षः ।
क्षेमंकरो नाम स एष वीरः ॥ ३.२६६.७ ॥
那位站立着、身躯如金、犹如祭坛上所供奉之火的人,那位莲花眼的英雄,是名为刹摩卡罗的三乡之王。
3.266.8
अस्मात्परस्त्वेष महाधनुष्मा-
न्पुत्रः कुलिन्दाधिपतेर्वरिष्ठः।
निरीक्षते त्वां विपुलायताक्षः ।
सुपुष्पितः पर्वतवासनित्यः ॥ ३.२६६.८ ॥
在他之后是这位大弓手,即库林达王之最优秀的儿子;他以宽广的眼睛注视着你——常住山中,容光焕发。
3.266.9
असौ तु यः पुष्करिणीसमीपे ।
श्यामो युवा तिष्ठति दर्शनीयः।
इक्ष्वाकुराजः सुबलस्य पुत्रः ।
स एव हन्ता द्विषतां सुगात्रि ॥ ३.२६६.९ ॥
那位站在莲池旁的人,肤色黝黑,是令人愉悦的年轻人,伊刹婆迦王族的国王,苏巴拉之子——他正是敌人的杀戮者,哦,身段美好的女子。
3.266.10
यस्यानुयात्रं ध्वजिनः प्रयान्ति ।
सौवीरका द्वादशराजपुत्राः।
शोणाश्वयुक्तेषु रथेषु सर्वे ।
मस्वेषु दीप्ता इव इव्यवाहाः ॥ ३.२६६.१० ॥
随其后行进的是披甲的部众——苏维罗人和十二位王子,皆乘坐红马所驾的战车,如同燃烧的献祭之火。
3.266.11
अङ्गारकः कुञ्जरो गुप्तकश्च ।
श्रुंजयः संजयसुप्रवृद्धौ।
प्रभंकरोऽथ भ्रमरो रविश्च ।
शूरः प्रतापःकुहनश्च नाम ॥ ३.२६६.११ ॥
安伽罗迦、俱闍罗、古普塔迦、师伦阇耶与桑阇耶,二人皆极为强盛;其次是普拉班迦罗、跋罗摩罗与罗维,勇士舒罗、普罗塔帕与库哈纳。
3.266.12
यं षट्सहस्रा रथिनोऽनुयान्ति ।
नागा हयाश्चैव पदातिनश्च।
जयद्रथो नाम यदि श्रुतस्ते ।
सौवीरराजः सुभगे स एषः ॥ ३.२६६.१२ ॥
六千车兵、象骑、马骑与步兵追随其后——美人啊,若你听过闍耶陀罗这个名字,他便是这位娑维罗王。
3.266.13
तस्यापरे भ्रातरोऽदीनसत्वा ।
बलाहकानीकविदारणाद्याः।
सौवीरवीराः प्रवरा युवानो ।
राजानमेते बलिनोऽनुयान्ति ॥ ३.२६६.१३ ॥
他的其他兄弟,意志坚毅者,以伐罗诃迦与阿尼迦毗陀罗那为首,娑维罗的杰出青年勇士——这些有力者追随国王。
3.266.14
एतैः सहायैरुपयाति राजा ।
मरुद्गणैरिन्द्र इवाभिगुप्तः।
अजानतां ख्यापय नः सुकेशि ।
कस्यासि भार्या दुहिता च कस्य ॥ ३.२६६.१४ ॥
国王与这些随从同来,如因陀罗被摩录多群所护卫。请告诉我们这些不知情的人,美发者:你是谁的妻子,谁的女儿?