Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.269

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.269.1

सरोषरागोपहतेन वल्गुना ।
सरागनेत्रेण नतोन्नतभ्रुवा।
मुखेन विस्फूर्य सुवीरराष्ट्रपं ।
ततोऽब्रवीत्तं द्रुपदात्मजा पुनः ॥ ३.२६९.१ ॥

于是德鲁帕达之女,美丽的面容因愤怒而泛红,眼睛通红,眉毛时扬时落,面容颤动,再次对苏威罗国的君主说道。

3.269.2

यशस्विनस्तीक्ष्णविषान्महारथा-
नभिब्रुवन्मूढ न लज्जसे कथम्।
महेन्द्रकल्पान्निरतान्स्वकर्मसु ।
स्तितान्समूहेष्वपि यक्षरक्षसाम् ॥ ३.२६९.२ ॥

愚人啊,你为何不羞愧,竟诋毁那些声名显赫、如毒箭般锐利的大车战士?他们如同摩亨德罗(因陀罗),专注于自己的职责,即便在夜叉和罗刹的军队中也屹立不动。

3.269.3

न किंचिदार्याः प्रवदन्ति पापं ।
वनेचरंवा गृहमेधिनं वा।
तपस्विनं संपरिपूर्णविद्यं ।
भजन्ति चैवं सुनराः सुवीर ॥ ३.२६९.३ ॥

高贵之人对林居者、居家者或学问圆满的苦行者,从不说任何恶言。苏威罗啊,善人正是如此尊敬他们。

3.269.4

अहं तु मन्ये तव नास्ति कश्चि-
देतादृशे क्षत्रियसंनिवेशे।
यस्त्वद्य पातालमुखे पतन्तं ।
पाणौ गृहीत्वा प्रतिसंहरेत ॥ ३.२६९.४ ॥

我认为,在这样一群刹帝利之中,没有你的人能够在今天拉住你的手,阻止你坠入冥界之口。

3.269.5

नागं प्रमिन्नं गिरिकूटकल्प-
मुपत्यकां हैमवतीं चरन्तम्।
दण्डीव यूथादपसेधसि त्वं ।
यो जेतुमाशंससि धर्मराजम् ॥ ३.२६९.५ ॥

就像手持木杖的守卫把受伤的象从象群中赶走,那象如山峰一般,在喜马拉雅山麓徘徊,你也想要战胜法王。

3.269.6

बाल्यात्प्रसुप्तस्य महाबलस्य ।
सिंहस् पक्ष्माणि मुखाल्लुनासि।
पदा समाहत्य पलायमानः ।
क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ॥ ३.२६९.६ ॥

你出于少年的愚昧,从熟睡的大力狮子口中拔取它的鬃毛;当你一脚踢后逃跑,看见愤怒的毗摩森那时。

3.269.7

महाबलं घोरतरं प्रवृद्धं ।
जातं हरिं पर्वतकन्दरेषु।
प्रसुप्तमुग्रं प्रपदेन हंसि ।
यः क्रुद्धमायोत्स्यसि जिष्णुमुग्रम् ॥ ३.२६९.७ ॥

你用脚踢那生于山洞、强大而极其可怖的狮子,那沉睡的猛兽;你将与愤怒猛烈的胜利者(阿周那)交战。

3.269.8

कृष्णोरगौ तीक्ष्णमुखौ द्विजिह्वौ ।
मत्तः पदा क्रामसि पुच्छदेशे।
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां ।
जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ॥ ३.२६९.८ ॥

你毫不畏惧我,用脚踩在两条黑色毒蛇的尾部,蛇口尖利,双舌分叉;你想与两位人中之最的般度之子,那些幼弟交战。

3.269.9

यथा च वेणुः कदली नलो वा ।
फलन्त्यभावाय न भूतयेऽऽत्मनः।
तथैव मां तैः परिरक्ष्यमाणा-
मादास्यसे कर्कटकीव गर्भम् ॥ ३.२६९.९ ॥

正如竹子、芭蕉或芦苇结出果实,却是为了自身的毁灭而非福祉,你也会将受他们保护的我据为己有,如同雌蟹吞下自己的胚胎。

3.269.10

जानामि कृष्णे विदितं ममैत-
द्यथाविधास्ते नरदेवपुत्राः।
न त्वेवमेतेन विभीषणेन ।
शक्या वयं त्रासयितुं त्वयाऽद्य ॥ ३.२६९.१० ॥

克里希纳啊,那些人王之子是什么样的人,我是知道的;但有这位可怖的人在,今天我们不会被你如此吓倒。

3.269.11

वयं पुनः सप्तदशेषु कृष्णे ।
कुलेषु सर्वेऽनवमेषु जाताः।
षड्भ्यो गुणेभ्योऽभ्यधिका विहीना ।
न्मन्यामहे द्रौपदी पाण्डुपुत्रान् ॥ ३.२६९.११ ॥

克里希纳啊,我们又生于十七个最尊贵的家族,在六种德性上我们更胜而不缺失。德劳帕蒂啊,我们不把般度之子放在眼里。

3.269.12

सा क्षिप्रमातिष्ठ गजं रथं वा ।
न वाक्यमात्रेण वयं हि शक्याः।
आशंस वा त्वं कृपणं वदन्ती ।
सौवीरराजस्य पुनः प्रसादम् ॥ ३.२६९.१२ ॥

你快快登上象或车吧;仅凭言语是无法吓住我们的。或者,你就可怜巴巴地说话,再去指望索维罗国王的恩典吧。

3.269.13

महाबला किंत्विह दुर्बलेव ।
सौवीरराजस्य मताऽहमस्मि।
नाहं प्रमाथादिह संप्रतीता ।
सौवीरराजं कृपणं वदेयम् ॥ ३.२६९.१३ ॥

我在此虽似柔弱,但索维罗国王却视我为强大。我在此不会因恐惧而动摇;难道我要向索维罗国王可怜地说话吗?

3.269.14

यस्या हि कृष्णौ पदवीं चरेतां ।
समास्थितावेकरथे समेतौ।
इन्द्रोऽपितां नापहरेत्कथंचि-
न्मनुष्यमात्रः कृपणः कुतोऽन्यः ॥ ३.२६९.१४ ॥

两位克里希纳同乘一辆车,跟随她的道路,即使因陀罗也无法以任何方式夺走她;那么一个可怜的凡人又怎能夺走她呢?

3.269.15

यथा विकीटी परवीरघाती ।
निघ्नन्रथस्थो द्विषतां मनांसि।
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा ।
वक्षं दहन्नग्निरिवोष्णगेषु ॥ ३.२६९.१५ ॥

如同杀戮敌方英雄的毗基提,站在战车上击打敌人的心,为了我将冲入你的军队,犹如火焰焚烧夏季枯草的胸膛。

3.269.16

जनार्दनः सान्धकवृष्णिवीरो ।
महेष्वासाः केकयाश्चापि सर्वे।
एते हि सर्वे मम राजपुत्राः ।
प्रहृष्टरूपाः पदवीं चरेयुः ॥ ३.२६९.१६ ॥

Janārdana、Sātvata、Andhaka与Vṛṣṇi族的英雄、伟大的弓箭手,以及Kekaya的王子们——他们都是我的王子;愿他们面带喜色,走上自己的道路。

3.269.17

मौर्वीविसृष्टाः स्तनयित्नुघोषा ।
गाण्डीवमुक्तास्त्वतिवेगवन्तः।
हस्तं समाहत्य धनंजयस्य ।
भीमाः शब्दं घोरतरं नदनति ॥ ३.२६९.१७ ॥

从弓弦射出、带着雷鸣般吼声、由甘狄拔弓射出、速度极快的箭——被持弓人(阿周那)的手一击,它们发出更加可怕、骇人的声响。

3.269.18

गाण्डीवमुक्तांश्च महाशरौघान् ।
पतङ्गसङ्घानिव शीघ्रवेगान्।
यदा द्रष्टास्यर्जुनं वीर्यशालिनं ।
तदा स्वबुद्धिं प्रतिनिन्दितासि ॥ ३.२६९.१८ ॥

从甘狄拔弓射出的大箭洪流,如蝗群般迅疾——当你看见勇武的阿周那时,你便会责备自己的见识。

3.269.19

सशङ्खघोषः सतलत्रघोषो ।
गाण्डीवधन्वा मुहुरुद्वहंश्च।
यदा शरानर्पयिता तवोरसि ।
तदा मनस्ते किमिवाभविष्यत् ॥ ३.२६९.१९ ॥

伴着海螺之声与护臂的弦响,持甘狄拔弓者一次又一次地举起弓——当他把箭射向你的胸膛时,你的心将会是怎样的呢?

3.269.20

गदाहस्तं भीममभिद्रवन्तं ।
माद्रीपुत्रौ संपतन्तौ दिशश्च।
अमर्षजं क्रोधविषं वमन्तौ ।
दृष्ट्वा चिरं तापमुपैष्यसेऽधम ॥ ३.२६९.२० ॥

你看见比玛手持鎚棒冲来,玛德利的两个儿子向四方冲击,喷吐着因愤懑而生的怒毒——卑贱的女人啊,你将长久地承受煎熬。

3.269.21

यथा वाऽहं नातिचरे कथंचि-
त्पतीन्महार्हान्मनसाऽपिजातु।
तेनाद्य सत्येन वशीकृतंत्वां ।
द्रष्टास्मि पार्थैः परिकृष्यमाणम् ॥ ३.२६९.२१ ॥

若我从未以任何方式、即使在心中,违背过我尊贵的丈夫,那么凭此真实,今日你将被制服,被普利塔之子们拖走。

3.269.22

न संभ्रमं गन्तुमहं हि शक्ष्ये ।
त्वया नृशंसेन विकृष्यमाणा।
समागताऽहं हि कुरुप्रवीरैः ।
पुनर्वनं काम्यकमागताऽस्मि ॥ ३.२६९.२२ ॥

残忍者啊,你拖拽着我,我不能慌乱地行走。我曾与库鲁的英雄们同来;如今我又来到了迦摩耶迦森林。

3.269.23

इत्येवमुक्तस्तु स सिन्धुनाथ-
स्तां द्रौपदीमाहविशालनेत्राम्।
आरुह्यतामाशु रथं मदीयं ।
मा त्वां वलाद्दौपदिकर्षयेहम् ॥ ३.२६९.२३ ॥

如此被责备后,信度之主对广眼的德罗波蒂说:“快上我的战车,免得我强行拖你,德罗波蒂。”

3.269.24

सा ताननुप्रेक्ष्य विशालनेत्रा ।
जिघृक्षमाणानवभर्त्सयन्ती।
प्रोवाच मा मा स्पृशतेति भीता ।
धौम्यं प्रचुक्रोश पुरोहितं सा ॥ ३.२६९.२४ ॥

广眼的她看着那些想要抓住她的人,斥责他们,惊恐地说:“不要碰我!”然后她向祭司达乌摩大声呼救。

3.269.25

जग्राह तामुत्तरवस्त्रदेशे ।
जयद्रथस्तं समवाक्षिपत्सा।
तया समाक्षिप्ततनुः स पापः ।
पपात शाखीव निकृत्तमूलः ॥ ३.२६९.२५ ॥

胜车抓住了她上衣的边角,但她将他推开。被她推倒,这个罪人像断了根的树一样倒下。

3.269.26

प्रगृह्यमाणा तु महाजवेन ।
मुहुर्विनिःश्वस्य च राजपुत्री।
सा मृष्यमाणा रथमारुरोह ।
धौम्यस्य पादावभिवाद्य कृष्णा ॥ ३.२६९.२६ ॥

公主被急速拖拽,反复深深叹息。她忍受着上了战车;向达摩耶的双足行礼之后,黑公主登上了战车。

3.269.27

नेयं शक्या त्वया नेतुमविजित्य महारथान् ।
धर्मं क्षत्रस् पौराणमवेक्षस्व जयद्रथ ॥ ३.२६९.२७ ॥

你若不能战胜伟大的战车勇士,便不能带走她。胜车啊,请思考刹帝利的古老法则。

3.269.28

क्षुद्रं कृत्वाफलंपापं त्वं प्राप्स्यसि न संशयः ।
आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ॥ ३.२६९.२८ ॥

你犯下这卑劣而徒劳的罪行,毫无疑问必将承受其报应;当你走近以法王为首的英勇般度五子时。

3.269.29

इत्युक्तवाह्रियमाणां तां राजपुत्रीं यशस्विनीम् ।
अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ॥ ३.२६९.२९ ॥

说完这些,达摩耶随即跟随被带走的那位光荣的公主,走在步兵之中。