Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.270

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.270.1

ततो दिशः संपरिवृत्य पार्था ।
मृगान्वराहान्महिपांस्च हन्वा।
धनुर्धराः श्रेष्ठतमाः पृथिव्यां ।
पृथक्चरन्तः सहिता बभूवुः ॥ ३.२७०.१ ॥

随后,普利塔之子包围各方,猎杀了鹿、野猪和水牛。大地上最优秀的弓箭手,虽然分散行走,却仍然聚在一起。

3.270.2

ततो मृगव्यालजनानुकीर्णं ।
महावनं तद्विहगोपघुष्टम्।
भ्रातॄंश्च तानभ्यवदद्युधिष्ठिरः ।
श्रुत्वा गिरो व्याहरतां मृगाणाम् ॥ ३.२७०.२ ॥

随后,在那座充满鹿、猛兽与人群、回荡着鸟鸣的大森林里,坚战听到鹿说话的声音,便对诸位兄弟说道。

3.270.3

आदित्यदीप्तां दिशमभ्युपेत्य ।
मृगा द्विजाः क्रूरमिमे वदन्ति।
आयासमुग्रं प्रतिवेदयन्तो ।
महाभयं शत्रुभिर्वाऽवमानम् ॥ ३.२७०.३ ॥

这些鹿和鸟飞向如太阳般光亮的方位,说出严厉的话语,宣告剧烈的痛苦与巨大的恐惧,或来自敌人的屈辱。

3.270.4

क्षिप्रं निवर्तध्वमलं मृगैर्नो ।
मनो हि मे दूयति दह्यते च।
बुद्धिं समाच्छाद्य च मे समन्यु-
रुद्धूयते प्राणपतिः शरीरे ॥ ३.२७०.४ ॥

快点回去吧,这些鹿对我们毫无用处。我的心痛苦燃烧;它遮蔽了我的心智,主宰生命的力量在我体内带着愤怒而震动。

3.270.5

सरः सुपर्णन हृतोरगेन्द्र-
मराजकं राष्ट्रमिवेह शान्तम्।
एवंविधं मे प्रतिभाति काम्यकं ।
शौण्डैर्यथा पीतसुरश्च कुम्भः ॥ ३.२७०.५ ॥

此迦mya迦森林在我看来,就像蛇王被金翅鸟夺走的湖泊,又像没有国王而寂静的国家,或像被醉酒者喝空的酒罐。

3.270.6

ते सैन्धवैरग्न्यनिलोग्रवेगै-
र्महाजवैर्वाजिभिरुह्यमानाः।
युक्तैर्बृहद्भिः सुरथैर्नृवीरा-
स्तदाश्रमायाभिमुखा बभूवुः ॥ ३.२७०.६ ॥

那些人中雄杰,驾着大而良好的战车,由速度如火如风的信度良驹牵引,此时转向了苦行林。

3.270.7

तेषां तु गोमायुरनल्पघोषो ।
निवर्ततां वाममुपेत्य पार्श्वम्।
प्रव्याहरत्तत्प्रविमृश्य राजा ।
प्रोवाच भीमं च धनंजयं च ॥ ३.२७०.७ ॥

他们转身回来时,一只豺狼从左侧走近,发出大声嗥叫。国王仔细思量之后,对怖军和财主说道。

3.270.8

यथा वदत्येप विहीनयोनिः ।
सालावृकोवाममुपेत्य पार्स्वम्।
सुव्यक्तमस्मानवमत्य पापैः ।
कृतोऽभिमर्दः कुरुभिः प्रसह्य ॥ ३.२७०.८ ॥

正如这低贱之身的豺狼从左侧走来说话,显然是那些恶劣的俱卢人轻慢我们,并以暴力侵犯了我们。

3.270.9

एत्याथ ते तद्वनमाविशन्तो ।
महत्यरण्ये मृगयां चरित्वा।
बालामपश्यन्त तदा रुदन्तीं ।
धात्रेयिकां प्रेष्यवधूं प्रियायाः ॥ ३.२७०.९ ॥

此后他们进入那片森林,在大荒野中狩猎之后,看见一位正在哭泣的少女——心爱之人的乳母,一名婢女。

3.270.10

तामिन्द्रसेनस्त्वरितोऽभिसृत्य ।
रथादवप्लुत्य ततोऽभ्यधावत्।
प्रोवाच चैनां वचनं नरेन्द्र ।
धात्रेयिकामार्ततरस्तदानीम् ॥ ३.२७०.१० ॥

因陀罗sena急忙走到她面前,跳下战车向她奔去。王啊,他此时极为悲痛,对那乳母说了这些话。

3.270.11

कच्चित्परैर्नापकृतं वनेऽस्मिन् ॥ ३.२७०.११ ॥

这片森林中是否有其他人伤害过我们?

3.270.12

पर्याकुला साधु समीक्ष्यसूत-
मभ्यापतन्तं द्रुतमिन्द्रसेनम्।
उरो घ्नती कष्टतरं तदानी-
मुच्चैः प्रचुक्रोश हृतेति देवी ॥ ३.२७०.१२ ॥

她惊惶不安,清楚地看到因陀罗塞纳迅速朝她奔来,于是极度痛苦地捶打胸膛,高声呼喊:“我被劫走了!”

3.270.13

अनिन्द्यरूपा तु विशालनेत्रा ।
शरीरतुल्या कुरुपुङ्गवानाम्।
केनात्मनाशाय यदापनीता ।
छिद्रं समासाद्य नरेन्द्रपत्नी ॥ ३.२७०.१३ ॥

是谁抓住机会,劫走了这位无可挑剔、眼睛宽大、如同库鲁英雄之身的王后,自取灭亡?

3.270.14

यद्येव देवीं पृथिवीं प्रविष्टा ।
दिवं प्रपन्नाऽप्यथवा समुद्रम्।
तस्या गमिष्यन्ति पदे हि पार्था-
स्तथा हि संतप्यति धर्मराजः ॥ ३.२७०.१४ ॥

即便那位女神已进入大地,或升入天界,甚至沉入海洋,普利塔之子们也将追随她的足迹;因此法王正深感痛苦。

3.270.15

को हीदृशानामरिमर्दनानां ।
क्लेशक्षमाणामपराजितानाम्।
प्राणैः समामिष्टतमां जिहीर्षे-
दनुत्तमं रत्नमिव प्रमूढः ॥ ३.२७०.१५ ॥

哪个愚人会想夺走比生命更珍贵的她,就像要夺取至上的宝石一样,从如此摧敌、能忍苦、无敌的英雄手中?

3.270.16

न बुध्यते नाथवतीमिहाद्य ।
बहिश्चरं हृदयं पाण्डवानाम्।
कस्याद्य कायं प्रतिभिद्य घोरा ।
महीं प्रवेक्ष्यन्ति शिताः शराग्र्याः ॥ ३.२७०.१६ ॥

此地今日无人察觉她有庇护者;般度之子的心却在外游荡。今日究竟是谁的身体将被刺穿,让可怖的利箭直入大地?

3.270.17

मा त्वं शुचस्तां प्रति भीरु विद्धि ।
यथाऽद्य कृष्णा पुनरेष्यतीति।
निहत्य सर्वान्द्विषतः समग्रा-
न्पार्थाः समेष्यनत्यथ याज्ञसेन्या ॥ ३.२७०.१७ ॥

胆怯者啊,不要悲伤,要知道今天黑天女(德劳帕迪)就会回来。普利塔之子杀尽所有敌人后,将与祭生王之女重新团聚。

3.270.18

अथाब्रवीच्चारुमुखं प्रसृज्य ।
धात्रेयिका सारथिमिन्द्रसेनम्।
जयद्रथेनापहृताप्रमथ्य ।
पञ्चेन्द्रकल्पान्परिभूय कृष्णा ॥ ३.२७०.१८ ॥

于是容貌美丽的乳母派遣御者因陀罗塞那,说道:胜车已劫走黑天女,轻慢了五位如因陀罗般的英雄。

3.270.19

तिष्ठन्ति वर्त्मानि नवान्यमूनि ।
वृक्षाश्च न म्लान्ति तथैव भग्नाः।
आवर्तयध्वं ह्यनुयात शीघ्रं ।
न दूरयातैव हि राजपुत्री ॥ ३.२७०.१९ ॥

这些新的踪迹仍在,被折断的树木也未枯萎。请调转回头迅速追赶;王女尚未走远。

3.270.20

सन्नह्यध्वं सर्व एवेन्द्रकल्पा ।
महान्ति चारूणि च दंशनानि।
गृह्णीत चापानि महाधनानि ।
शरांश्च शीघ्रं पदवीं व्रजध्वम् ॥ ३.२७०.२० ॥

诸位如因陀罗般的英雄,都披上铠甲!取来精良宏大的护甲、珍贵的弓和箭,迅速沿着那条路前进。

3.270.21

पुरा हि निर्भर्त्सनदण्डमोहिता ।
प्रमूढचित्ता वदनेन शुष्यता।
ददाति कस्मैचिदनर्हते तनुं ।
वराज्यपूर्णामिव भस्मनि स्रुचम् ॥ ३.२७०.२१ ॥

她先前被威胁与惩罚所迷惑,心志昏乱,面容枯槁,便将自己的身体交给不配之人,正如将盛满上好酥油的勺子倾入灰烬之中。

3.270.22

पुरा तुषाग्नाविव हूयते हविः ।
पुरा श्मशाने स्रगिवापविद्ध्यते।
पुरा च सोमोऽध्वरगोऽवलिह्यते ।
शुना यथा विप्रजने प्रमोहिते ॥ ३.२७०.२२ ॥

往昔,如在糠火中献上祭品,如花环被抛弃于火葬场,如将往祭祀的苏摩被狗舔食,婆罗门众人迷乱之时便是如此。

3.270.23

पुरा हि पार्थाश्च दृतौ च कापिली ।
प्रसिच्छते क्षीरधारा यतध्वम्।
महत्यरण्ये मृगयां चरित्वा ।
पुरा सृगालो नलिनीं विगाहते ॥ ३.२७०.२३ ॥

往昔,如普利塔之子,又如皮囊中自褐色母牛流出奶汁之细流,你们要努力。如在大森林中狩猎之后,豺狼如往昔一般跳入莲池。

3.270.24

पुरा हि मन्त्राहुतिपूजितायां ।
हुताग्निवेद्यां बलिभुङ्गिलीयते।
श्रुतिं च सम्यक्प्रसृतां महाध्वरे ।
ग्राम्यो जनो यद्वदसौ न नाशयेत् ॥ ३.२७०.२४ ॥

往昔,在以咒语和供物供奉的燃烧火坛上,食供者被吞没;又如乡下之人不会毁坏在大祭中广为传布的圣典。

3.270.25

मा वः प्रियायाः सुनसं सुलोचनं ।
चन्द्रप्रभाच्छं वदनं प्रसन्नम्।
स्पृश्याच्छुभं कश्चिदकृत्यकारी ।
श्वा वै पुरोडाशमिवाध्वरस्थम् ॥ ३.२७०.२५ ॥

愿无作恶之人以吉手触碰你们所爱之人那鼻子秀美、眼睛明亮、如月光般清澈而安详的面容,正如狗触碰祭坛上的圣饼。

3.270.26

एतानि वर्त्मान्यनुयात शीघ्रं ।
मा वः कालः क्षिप्रमिहात्यगाद्वै ॥ ३.२७०.२६ ॥

快快循着这些道路前行,免得时光在此飞逝。

3.270.27

शीघ्रं प्रधावध्वमितो नरेन्द्रा ।
यावन्न दूरं व्रजतीति पापः।
प्रत्याहरध्वं द्विषतां सकाशा-
ल्लक्ष्मीमिव स्वां दयितां नृसिंहाः ॥ ३.२७०.२७ ॥

诸王啊,趁那恶人尚未走远,快从这里奔去。从敌人那里夺回来,就像夺回你们自己心爱的吉祥女神一样,人中雄狮们。

3.270.28

भद्रे प्रतिक्राम नियच्छ वाचं ।
माऽस्मत्सकाशे परुषाण्यवोचः।
राजानो वा यदि वा राजपुत्रा ।
बलेन मत्ताः पञ्चतां प्राप्नुवन्ति ॥ ३.२७०.२८ ॥

善良的女子啊,回去吧,收敛你的言语。不要在我们面前说粗暴的话。无论是国王还是王子,因力量而狂妄者必遭死亡。

3.270.29

एतावदुक्त्वा प्रययुर्हि शीघ्रं ।
तान्येव वर्त्मान्यनुवर्तमानाः।
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो ।
ज्यां विक्षिपन्तश्च महाधनुर्भ्यः ॥ ३.२७०.२९ ॥

说完这些,他们便迅速离去,沿着那同样的道路前行,像毒蛇一样一次又一次地喘息,并抖动着大弓的弓弦。

3.270.30

ततोऽपश्यंस्तस्य सैन्यस्य रेणु-
मुद्धूतं वै वाजिस्वुरप्रणुन्नम्।
पदातीनां मध्यगतं च धौम्यं ।
विक्रोशन्तं भीम पार्थेत्यभीक्ष्णम् ॥ ३.२७०.३० ॥

于是他们看见那支军队扬起的尘土,是被马蹄与马胸搅动起来的;又看见步兵中间的仙人达乌米亚不停地呼喊:「婆罗摩!阿周那啊!」

3.270.31

ते सान्त्व्य धौम्यं परिदीनसत्वाः ।
सुखं भवानेत्विति राजपुत्राः।
श्येना यथैवामिषसंप्रयुक्ता ।
जवेन तत्सैन्यमथाभ्यधावन् ॥ ३.२७०.३१ ॥

他们安慰仙人达乌米亚,心情极为沮丧,说道:“愿您平安。”随后,这些王子如同扑向肉食的鹰隼,疾速冲向那支军队。

3.270.32

तेषां महेन्द्रोपमविक्रमाणां ।
संरब्धानां धर्षणाद्याज्ञसेन्याः।
क्रोधः प्रजज्वाल जयद्रथं च ।
दृष्ट्वा प्रियां तस्य रथे स्थितां च ॥ ३.२७०.३२ ॥

那些勇武堪比因陀罗、因受辱而愤怒的英雄们怒火中烧;耶简塞尼(德劳帕蒂)的怒火也熊熊燃起。她看见了胜车,以及站在他战车上的心爱之人。

3.270.33

प्रचुक्रुशुश्चाप्यथ सिन्धुराजं ।
वृकोदरश्चैव धनंजयश्च।
यमौ च राजा च महाधनुर्धरा-
स्ततो दिशः संमुमुहुः परेषाम् ॥ ३.२७०.३३ ॥

随后他们向信度王(胜车)大声呼喊;狼腹(怖军)、财征(阿周那)、双生子以及大弓手国王(坚战)也都如此。于是敌人的方位都陷入迷乱。