摩诃婆罗多 · 章 3.271
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.271.1
ततो घोरतरः शब्दो वने समभवत्तदा ।
भीमसेनार्जुनौ दृष्ट्वाक्षत्रियणाममर्षिणाम् ॥ ३.२७१.१ ॥
那时,林中升起了极为可怖的喧哗,愤怒的非刹帝利人看见了怖军与阿周那。
3.271.2
तेषां ध्वजाग्राण्यभिवीक्ष्य राजा ।
स्वयंदुरात्मा कुरुपुङ्गवानाम्।
जयद्रथो याज्ञसेनीमुवाच ।
रथे स्थितां भानुमतीं हतौजाः ॥ ३.२७१.२ ॥
望见他们的旗杆顶端,俱卢的俊杰、邪恶的国王遮昙陀罗失去了威势,对站在车上的耶若塞尼(德罗波蒂)说道。
3.271.3
आयान्तीमे पञ्चरथा महान्तो ।
मन्ये च कृष्णे पतयस्तवैते।
सा जानती ख्यापय नः सुकेशि ।
परंपरं पाण्डवानां रथस्थम् ॥ ३.२७१.३ ॥
这五辆大车正在驶来;克里希纳啊,我想这些是你的丈夫。美发女子,你既然知道,就一一告诉我们,那些站在车上的般度之子是谁。
3.271.4
किं ते ज्ञातैर्मूढ महाधनुर्धरै-
रनायुष्यं कर्म कुत्वाऽतिघोरम्।
एते वीराः पतयो मे समेता ।
न वः शेषः कश्चिदिहास्ति युद्धे ॥ ३.२७१.४ ॥
愚人啊,这些大弓箭手亲族对你有什么用?你犯下了极其可怖、断送寿命的罪行,我的这些英雄丈夫已聚集于此;战斗中你们之中将无一人幸存。
3.271.5
आख्यातव्यं त्वेव सर्वं मुमूर्षो-
र्मया तुभ्यं पृष्टया धर्म एषः।
न मे व्यथा विद्यते त्वद्भयं वा ।
संपश्यन्त्याः सानुजं धर्मराजम् ॥ ३.२७१.५ ॥
你这求死之人,既然你问,把一切告诉你,这正是我的义务。看着与弟弟们同在的法王,我既无悲伤,也不怕你。
3.271.6
यस् ध्वजाग्रे नदतो मृदङ्गौ ।
नन्दोपनन्दौ मधुरौ सुयुक्तौ।
एनं स्वधर्मार्थविनिश्चयज्ञं ।
सदा जनाः कृत्यवन्तोऽनुयान्ति ॥ ३.२७१.६ ॥
旗杆顶端有两面鼓轰鸣,难陀与优波难陀,声音甘美,配置得当。知晓自身法与利之决断的此人,有职责的人们总是追随着他。
3.271.7
य एष जाम्बूनदशुद्धगौरः ।
प्रचण्डघोणस्तनुरायताक्षः।
एतं कुरुश्रेष्ठतमं वदन्ति ।
युधिष्ठिरं धर्मसुतं पतिं मे ॥ ३.२७१.७ ॥
此人肤色纯白如赡部金,鼻梁挺峻,身形清瘦,双眼细长,人们称之为俱卢中最杰出者:法之子坚战,我的夫君。
3.271.8
अप्येष शत्रोः शरणागतस्य ।
दद्यात्प्राणान्धर्मचारी नृवीरः।
परैह्येनं मूढ जवेन भूतये ।
त्वमात्मनः प्राञ्जलिर्न्यस्शस्त्रः ॥ ३.२७१.८ ॥
这位遵循法的人中英雄,即使对已投降的敌人,难道也会舍弃自己的性命吗?愚人啊,为了你自己的利益,快去他那里,合掌而行,放下兵器。
3.271.9
अथाप्येनं पश्यसि यं रथस्यं ।
महाभुजं सालमिव प्रवृद्धम्।
संदष्टौष्ठं भ्रुकुटीसंहतभ्रुवं ।
वृकोदरो नाम पतिर्ममैषः ॥ ३.२७१.९ ॥
还有你看见站在战车上的那位,大臂、高大如娑罗树,咬着嘴唇,皱着眉头,名叫狼腹的,就是我的夫君。
3.271.10
आजानेया बलिनः साधुदान्ता ।
महाबलाः शूरमुदावहन्ति।
एतस्य कर्माण्यतिमानुषाणि ।
भीमेति शब्दोऽस्य ततः पृथिव्याम् ॥ ३.२७१.१० ॥
强健、驯服良好、力量巨大的良驹承载着这位英雄。他的事迹超越常人,因此他在世上的名字叫做坚力(Bhīma)。
3.271.11
नास्यापराद्धाः शेषमवाप्नुवन्ति ।
नायं वैरं विस्मरते कदाचित्।
वैरस्यान्तं संविधायोपयाति ।
पश्चाच्छान्तिं न च तत्तप्यतीव ॥ ३.२७१.११ ॥
凡冒犯他的人都不会留下任何余地。他从不忘记仇恨。只有在结束仇怨之后,他才得到平静,事后也不会为此深深懊悔。
3.271.12
धनुर्धराग्र्यो धृतिमान्यशस्वी ।
जितेन्द्रियो वृद्धसेवी नृवीरः।
भ्राता च शिष्यश्च युधिष्ठिरस्य ।
धनंजयो नाम पतिर्ममैषः ॥ ३.२७१.१२ ॥
弓手中的第一人,坚毅而有名望,克制诸根,侍奉长者,人中英雄。他是坚战的兄弟和弟子,名叫财施的这位,便是我的丈夫。
3.271.13
यो वै न कामान्न भयान्न लोभा-
त्त्यजेद्धर्मं न नृशंसं च कुर्यात्।
स एष वैश्वानरतुल्यतेजाः ।
कुन्तीसुतः शत्रुसहः प्रमाथी ॥ ३.२७१.१३ ॥
他不因欲望、恐惧或贪婪而舍弃法,也不行残忍之事——这位光辉如同火神毗舍婆那的,便是贡蒂之子,能忍受敌人,又能摧毁他们。
3.271.14
यः सर्वधर्मार्तविनिश्चयज्ञो ।
भयार्तानां भयहर्ता मनीषी।
बन्धुप्रियः शस्त्रभृतां वरिष्ठो ।
महाहवेष्वप्रतिवार्यवीर्यः ॥ ३.२७१.१४ ॥
他通晓一切法与苦难的确定之理,是为恐惧所苦者驱散恐惧的智者,为亲族所爱,是持武器者中的第一人,在大战中其勇力无人能挡。
3.271.15
यस्योत्तमं रूपमाहुः पृथिव्यां ।
यं पाण्डवाः परिरक्षन्ति सर्वे।
प्राणैर्गरीयांसमनुव्रतं वै ।
स एष वीरो नकुलः पतिर्मे ॥ ३.२७१.१५ ॥
其绝顶的容貌被称为天下无双,众般遮那兄弟皆以性命守护他,他比性命更珍贵、更忠诚——这位英雄无种便是我的丈夫。
3.271.16
यः खङ्गयोधी लघुचित्रहस्तो ।
महांश्च धीमान्सहदेवोऽद्वितीयः।
यस्याद्यकर्म द्रक्ष्यसे मूढसत्व ।
शतक्रतोर्वा दैत्यसेनासु सङ्ख्ये ॥ ३.२७१.१६ ॥
那位善用剑、手法轻巧娴熟、伟大而智慧的偕天,无与伦比。愚昧之人啊,今日你将看到他在战斗中的功绩,就像因陀罗(百祭者)对阿修罗大军所做的那样。
3.271.17
शूरः कृतास्त्रो मतिमान्मनस्वी ।
प्रियंकरो धर्मसुतस्य राज्ञः।
हुताशचन्द्रार्कसमानतेजा ।
जघन्यजः पाण्डवानां प्रियश्च ॥ ३.२७१.१७ ॥
勇敢、精通武器、聪慧而高尚,是法王之子国王所喜爱的人;他的光辉与火、月、日相等。他是般度五子中最年幼的,也是他们所钟爱的人。
3.271.18
बुद्ध्या समो यस् नरो न विद्यते ।
वक्ता तथा सत्सु विनिश्चयज्ञः।
सएष शूरो नित्यममर्षणश्च ।
धीमान्प्राज्ञः सहदेवः पतिर्मे ॥ ३.२७१.१८ ॥
论智慧无人能与他相比;在善人之中,他是能言善辩、通晓决断之人。那位英雄,始终不能容忍侮辱,聪慧而有见识的偕天,是我的丈夫。
3.271.19
त्यजेत्प्राणान्प्रविशेद्धव्यवाहं ।
न त्वेवैष व्याहरेद्धर्मबाह्यम्।
सदा मनस्वी क्षत्रधर्मे रतश्च ।
कुन्त्याः प्राणैरिष्टतमो नृवीरः ॥ ३.२७१.१९ ॥
他可以舍弃生命、投入火中,却绝不会说出违背法的话。他始终高尚,专注于刹帝利的本分,是人中之雄,比昆提自己的生命更为她所珍爱。
3.271.20
विशीर्यनतीं नावमिवार्णवान्ते ।
रत्नाभिपूर्णां मकरस्य पृष्ठे।
सेनां तवेमां हतसर्वयोधां ।
विक्षोभितां द्रक्ष्यसि पाण्डुपुत्रैः ॥ ३.२७१.२० ॥
如同在大海尽头破碎的船,满载珠宝于摩伽罗(makara)背上,你这支所有勇士都已被杀的军队,你将看到被般度之子搅乱。
3.271.21
इत्येते वै कथिताः पाण्डुपुत्रा ।
यांस्त्वं मोहादवमत्य प्रवृत्तः।
यद्येतेभ्यो मुच्यसे रिष्टदेहः ।
पुनर्जन्म प्राप्स्यसे जीवितं च ॥ ३.२७१.२१ ॥
这样,般度之子已被告知于你。你因迷惑而轻视他们并向他们进发。若你能脱离他们而身体无损,你将获得再生和生命。
3.271.22
ततः पार्थाः पञ्चपञ्चेन्द्रकल्पा-
स्त्यक्त्वा त्रस्तान्प्राञ्जलींस्तान्पदातीन्।
यथाऽनीकं शरवर्षान्धकारं ।
चक्रुः क्रुद्धाः सर्वतस्ते निगृह्य ॥ ३.२७१.२२ ॥
于是如因陀罗般的普利塔之子们,五人一组,抛下那些惊恐合掌的步兵,愤怒地从四面八方夹击军队,以箭雨造成一片黑暗。