摩诃婆罗多 · 章 3.272
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.272.1
संतिष्ठध्वं प्रहरत तूर्णं विपरिधावत ।
इति स्म सैन्धवो राजा चोदयामास तान्नृपन् ॥ ३.२७२.१ ॥
“坚守阵地,迅速攻击,四面冲杀!”信度王便这样激励那些国王。
3.272.2
ततो घोरतमः शब्दोरणे समभवत्तदा ।
भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् ॥ ३.२७२.२ ॥
那时战场上爆发出极为可怖的喧嚣,军队看到了毗摩、阿周那和双生子,以及坚战。
3.272.3
शिबिसिंधुत्रिगर्तानां विषादश्चाप्यजायत ।
तान्दृष्ट्वापुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान् ॥ ३.२७२.३ ॥
尸毗、信度与三伽陀的人也生起了沮丧,当他们看见那些如虎般强大的人中雄杰。
3.272.4
हेमबिन्दुं महोत्सेधां सर्वशैक्यायसीं गदाम् ।
प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् ॥ ३.२७२.४ ॥
毗摩手持镶有金点、极其高大、全由铁制的铁杵,向被时运驱使的信度王冲去。
3.272.5
तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत् ।
महता रथवंशेन परिवार्य वृकोधरम् ॥ ३.२७२.५ ॥
于是,堵住那处缺口,科提伽希耶以庞大的战车阵将狼腹(毗摩)团团包围。
3.272.6
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः ।
कीर्यमाणोपि बहुभिर्न स्म भीमोऽभ्यकम्पत ॥ ३.२७२.६ ॥
虽被众多英雄臂膀掷出的投枪、长矛与箭矢所射穿,毗摩却丝毫不动。
3.272.7
गजं तु सगजारोहं पदातींश्च चतुर्दश ।
जघान गदया भीमः सैन्धवध्वजंनीमुखे ॥ ३.२७२.७ ॥
毗摩以权杖打死了载着信度王旗帜的大象及其御者,并在军阵前列杀死了十四名步兵。
3.272.8
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान् ।
परीप्समानः सौवीरं जघान ध्वजिनीमुखे ॥ ३.२७२.८ ॥
普利塔之子阿周那欲保护苏维罗人,在军阵前列杀死了来自山区的五百名勇猛的大车战士。
3.272.9
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् ।
निमेषमात्रेण शतं जघान समरे तदा ॥ ३.२७२.९ ॥
国王亲自在一瞬间,便在战斗中杀死了苏维罗诸勇士中最杰出的一百名战士。
3.272.10
ददृशे नकुलस्तत्ररथात्प्रस्कन्द्य खङ्गधृत् ।
शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः ॥ ३.२७२.१० ॥
只见那里的无种从战车上跳下,手持利剑,一次又一次地像播种一样抛洒步兵护卫的头颅。
3.272.11
सहदेवस्तु संयाय रथेन गजयोधिनः ।
पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः ॥ ३.२७२.११ ॥
偕提婆乘战车疾驰而上,以铁箭射落象兵,犹如孔雀从树上坠落。
3.272.12
ततस्त्रिगर्तः सधनुरवतीर्य महारथात् ।
गदया चतुरो वाहान्राज्ञस्तस् तदाऽवधीत् ॥ ३.२७२.१२ ॥
于是三乡王持弓从大战车上下来,以权杖击杀了国王的四匹马。
3.272.13
तमथाभ्यागतं राजा पदातिं कुन्तिनन्दनः ।
अर्धचन्द्रेण बाणएन विव्याधोरसि धर्मराट् ॥ ३.२७२.१३ ॥
那时,贡蒂之子、法王国王用半月形箭射穿了走近的步兵的胸膛。
3.272.14
स भिन्नहृदयो वीरो वक्राच्छोणितमुद्वमन् ।
पपाताभिमुखं प्राप्तश्चिन्नमूल इव द्रुमः ॥ ३.२७२.१४ ॥
那位英雄心脏被刺穿,口中吐血,像被砍断根的树一样向前倒下。
3.272.15
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट् ।
हताश्वः सहदेवस्य प्रतिपेदे महारथम् ॥ ३.२७२.१५ ॥
法王与因陀罗塞那同行,跳下战车,走向萨哈德瓦的大车夫,那人的马已被杀死。
3.272.16
नकुलं त्वभिसंवार्य क्षेमंकरमहामुखौ ।
उभावुभतस्तीक्ष्णैः शरवर्षैरवर्षताम् ॥ ३.२७२.१६ ॥
二人包围了那库拉,克谢曼卡拉与摩诃穆卡从两侧倾下锐利的箭雨。
3.272.17
तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ ।
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः ॥ ३.२७२.१७ ॥
那两人如雨季的云般降下箭雨,被玛德丽之子以劈裂之箭逐一射倒。
3.272.18
त्रिगर्तराजः सुरथस्तस्याथ गजूर्गतः ।
रथमाक्षेपयामास गजेन गजयानवित् ॥ ३.२७२.१८ ॥
于是三摩国王苏罗陀骑在象上,精通象战,用他的象冲击其战车,将它推了回去。
3.272.19
नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान् ।
उद्धाम्य स्तानमास्थाय तस्थौ गिरिवाचलः ॥ ३.२७२.१९ ॥
无畏的那古罗手持盾牌与剑,从战车跃下,登上象身,屹立如山,纹丝不动。
3.272.20
सुरथस्तं गजवरं वधाय नकुलस्य तु ।
प्रेषयामास सक्रोधमत्युच्छ्रितकरं ततः ॥ ३.२७२.२० ॥
于是苏罗陀怒火中烧,驱使那头高高扬起鼻子的最好的象向前,要杀死那古罗。
3.272.21
नकुलस्तस्य नागस्य समीपपरिवर्तिनः ।
सविषाणं भुजं मूले खङ्गेन निरकृन्तत ॥ ३.२७२.२१ ॥
那古罗用剑从根部斩断了靠近过来的那头象的带牙长鼻。
3.272.22
स विनद्यमहानादं गजः किङ्किणिभूषणः ।
पतन्नवाक्शिरा भूमौ हस्त्यारोहमपोथयत् ॥ ३.२७२.२२ ॥
那头饰有铃铛的象发出巨大的吼声,头朝下倒在地上,压碎了骑在它身上的人。
3.272.23
स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः ।
भीमसेनरथं प्राप्य शर्म लेभे महारथः ॥ ३.२७२.२३ ॥
那位英雄、玛德丽之子、大车士那古罗完成了这一伟业,到达了毗摩娑那的战车,在那里获得了庇护。
3.272.24
भीमस्त्वापततो राज्ञः कोटिकाश्यस् संगरे ।
सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः ॥ ३.२७२.२४ ॥
然而毗摩在战斗中,用剃刀般锋利的箭斩下了正扑来的科提伽希耶王的御者之头,那御者正在驱赶马匹。
3.272.25
न बुबोध हतं सूतं स राजा बाहुशालिना ।
तस्याश्वा व्यद्रवन्सङ्ख्ये हतमसूतास्ततस्ततः ॥ ३.२७२.२५ ॥
国王没有察觉他的御者已被那臂力强大者杀死。战斗中,他的马失去了御者,四处奔逃。
3.272.26
विरथं हतसूतं तं भीमः प्रहरतांवरः ।
जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः ॥ ३.२७२.२६ ॥
般度之子、勇士中最杰出的毗摩,走近已失去御者、没有战车的他,以手掌和长矛将他击倒。
3.272.27
द्वादशानां तु सर्वेषां सौवीराणां धनंजयः ।
चकर्त निशितैर्भल्लैर्धनूंषि च शिरांसि च ॥ ३.२७२.२७ ॥
财富征服者以锋利的宽头箭,斩断了全部十二名娑维罗人的弓和头颅。
3.272.28
शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि ।
जघानातिरथः सङ्ख्ये बाणगोचरमागतान् ॥ ३.२७२.२८ ॥
大车将阿周那在战斗中也杀死了进入箭射范围的尸毗人、甘蔗王族的首领、三乡人和信度人。
3.272.29
सूदिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना ।
सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः ॥ ३.२७२.२९ ॥
许多被那位左手神射手阿周那杀死的人显露出来:有旗幡的象,有旌旗的大车战士。
3.272.30
प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति ।
शरीराण्यशिरस्कानि विदेहानि शिरांसि च ॥ ३.२७२.३० ॥
遍布战场、覆盖大地的,是无头的尸身和无身的头颅。
3.272.31
श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः ।
अतृप्यंस्तत्रवीराणां हतानां मासशोणितैः ॥ ३.२७२.३१ ॥
狗、秃鹫、鹭、乌鸦、鸢、豺狼和渡鸦在那里以被杀勇士的血肉得到了满足。
3.272.32
एवं तीक्ष्णशरज्वालैर्गाण्डीवानिलचोदितैः ।
सेनेन्धनं ददाहाशु सरोषः पार्थपावकः ॥ ३.२७२.३२ ॥
如此,被甘狄拔弓之风所驱动、以利箭之焰燃烧的般度之子之火,愤怒地迅速焚烧了作为燃料的军队。
3.272.33
चक्राणां पतितानां च युगानां च महीपते ।
तूणीराणआं पताकानां ध्वजानां च रथैः सह ॥ ३.२७२.३३ ॥
大王啊,倒下的车轮和轭,箭袋、旗帜和幢幡,连同战车。
3.272.34
ईषाणामनुकर्षाणां त्रिवेणूनां तथैव च ।
अक्षाणामथ योक्राणां प्रतोदानां च राशयः ॥ ३.२७२.३४ ॥
还有辕杆、牵索、三重杆、车轴、缰绳和刺棒的堆积。
3.272.35
शिरसां पतितानां च कुण्डलोष्णीषधारिणाम् ।
भुजानां मकुटानां च हाराणामङ्गदैः सह ॥ ३.२७२.३५ ॥
戴着耳环和头巾的人被砍落的头颅、手臂、王冠、项链与臂钏。
3.272.36
छत्राणां व्यजनानां च चर्मणआं वर्मणां तथा ।
छिन्नानां कार्मुकाणां च पट्टसानां तथैव च ॥ ३.२७२.३६ ॥
还有伞盖、羽扇、盾牌、铠甲、断弓和剑的堆积。
3.272.37
शक्तीनामथ खङ्गानां दण्डानां सह तेमरैः ।
राशयश्चात्रदृश्यन्ते तत्रतत्र विशांपते ॥ ३.२७२.३७ ॥
矛、剑、棒与标枪的堆堆残骸到处可见,人主啊。
3.272.38
पतितैश्चैव मातङ्गैः सयोधैः पर्वतोपमैः ।
हयैर्द्विधाकृतैः सार्धं सादिभिः सायुधैस्तथा ॥ ३.२७२.३८ ॥
倒下的象群,如山般的战士,一分为二的马匹,连同骑手与兵器。
3.272.39
विप्रविद्धै रथैश्चैव निहतैश्चपदातिभिः ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ ३.२७२.३९ ॥
倾覆的战车与被杀的步卒;大地被血肉泥浆覆盖,已不可通行。
3.272.40
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः ।
विमुच्य कृष्णां संत्रस्तः पलायनपरोऽभवत् ॥ ३.२७२.४० ॥
诸英雄阵亡之后,信度王胜车放开了黑公主,惊恐万分,立即想要逃跑。
3.272.41
स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य ताम् ।
प्राणप्रेप्सुरुपाधावद्वनं तत्र नराधमः ॥ ३.२७२.४१ ॥
在那混乱的军中,这卑劣之人放下黑公主,为求保命,向林中奔逃而去。
3.272.42
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम् ।
माद्रीपुत्रेण वीरेण रथमारोपयत्तदा ॥ ३.२७२.४२ ॥
法王见黑公主在仙人达乌米亚的引导下前来,便令英勇的摩德利之子将她扶上战车。
3.272.43
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे ।
आदिश्यादिश्य नाराचैराजघान वृकोदरः ॥ ३.२७२.४३ ॥
于是,胜车已退,那支军队四散奔逃,狼腹(怖军)一次次瞄准,用铁箭射击。
3.272.44
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम् ।
वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान् ॥ ३.२७२.४४ ॥
然而善左射者阿周那见胜车逃跑,便阻止了正在杀戮信度军士的怖军。
3.272.45
यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः ।
तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् ॥ ३.२७२.४५ ॥
因他的过错,这难以承受的苦难降临于我们——那胜车,我在此战场上看不见。
3.272.46
मूढं नैकृतिकं दुष्टं द्रौपद्याः क्लेशकारिणम् ।
तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः।
अनामिषमिदं कर्म कथं वा मन्यते भवान् ॥ ३.२७२.४६ ॥
只去寻找那个愚蠢、狡诈、邪恶、使德罗波蒂受苦的人吧,愿你吉祥。倒下的战士对你有何用处?此事并非小事——你以为如何?
3.272.47
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता ।
युधिष्ठिरमभिप्रेत्य वाग्मी वचनमब्रवीत् ॥ ३.२७२.४७ ॥
智者阿周那如此说后,善辩的怖军望着坚战说了这番话。
3.272.48
हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः ।
गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः ॥ ३.२७२.४८ ॥
敌方的首领勇士已被杀死,他们大多四散逃遁。大王,请带着德罗波蒂从这里回去吧。
3.272.49
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना ।
प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय ॥ ३.२७२.४९ ॥
王中之王啊,与双生子和大德的达鲁摩一同抵达修行处之后,请好好安慰德罗波蒂,大王。
3.272.50
न हि मे मोक्ष्यतेजीवन्मूढः सैन्धवको नृपः ।
पातालतलसंस्थोपि यदि शक्रोस्य सारथिः ॥ ३.२७२.५० ॥
即使他住在地底深处,或是因陀罗的御者,那愚蠢的信度王也休想从我手中活着逃脱。
3.272.51
न हन्तव्यो महाबाहो दुरात्माऽपिस सैन्धवः ।
दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम् ॥ ३.२७२.५१ ॥
大臂者啊,即使那恶毒的信度王也不应被杀,应当想到杜什拉和名声显赫的甘陀利。
3.272.52
तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया ।
कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ ॥ ३.२७२.५२ ॥
德罗波蒂听后,心神慌乱,愤怒而知羞,且有智慧,便对毗摩说话——对她的两位夫君毗摩与阿周那。
3.272.53
कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः ।
सैन्धवापशदः पापो दुर्मतिः कुलपांसनः ॥ ३.२७२.५३ ॥
若要做我所喜爱的事,那么这个卑劣之人应当被处死——那信度的恶徒,有罪、心术不正、玷污家族。
3.272.54
भार्याभिहर्ता वैरी यो यश्च राज्यहरो रिपुः ।
याचमानोऽपिसंग्रामे न मोक्तव्यः कथंचन ॥ ३.२७२.५४ ॥
劫夺妻子的仇敌,以及夺取王国的敌人,即使在战场上哀求,也绝不可以任何方式将他释放。
3.272.55
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः ।
राजा निववृतेकृष्णामादाय सपुरोहितः ॥ ३.२७२.५५ ॥
如此说完,那两位人中猛虎前往信度王所在之处。王带着克利须那与祭司返回了。
3.272.56
स प्रविश्याश्रमपदमपविद्धवृसीकटम् ।
मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह ॥ ३.२७२.५६ ॥
他进入仙人居住之地,那里散落着被弃的坐垫和土坑,挤满了以摩根德耶为首的婆罗门。他看见了这一切。
3.272.57
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समाहितैः ।
समेयाय महाप्राज्ञः सभार्य भ्रातृमध्यगः ॥ ३.२७२.५७ ॥
那位大智者与妻子一同,站在兄弟之中,来到为德罗波蒂哀伤的那些沉静婆罗门身边。
3.272.58
ते स्म तं मुदिता दृष्ट्वा पुनरप्यागतं नृपम् ।
जित्वा तान्सिनधुसौवीरान्द्रौपदीं चाहृतां पुनः ॥ ३.२७२.५८ ॥
看见国王再次归来,他们欢喜;他们也看见了在战胜信度与索维罗人之后再次被带回的德罗波蒂。
3.272.59
स तैः परिवृतो राजातत्रैवोपविवेश ह ।
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी ॥ ३.२७२.५९ ॥
国王被他们围绕,就在那里坐下。光彩照人的克利须那与双生子一同走进了仙人居所。
3.272.60
भीमसेनार्जुनौ चापि श्रुत्वा क्रोशगतं रिपुम् ।
स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम् ॥ ३.२७२.६० ॥
毗摩娑那与阿周那听说敌人已离开一克罗舍之远,亲自驱策马匹,迅速朝他追去。
3.272.61
इदमत्यद्भुतं चात्र चकारातिरथोऽर्जुनः ।
क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत् ॥ ३.२७२.६१ ॥
此时,大车士阿周那完成了一件极其奇妙的事:他射杀了已奔出一俱卢舍之远的信度王的马匹。
3.272.62
स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः ।
अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः ॥ ३.२७२.६२ ॥
他具足神圣武器,即使在危难之时也不慌乱;以神武咒语加持的箭矢,他完成了艰难的壮举。
3.272.63
ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ ।
हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम् ॥ ३.२७२.६३ ॥
于是两位英雄,怖军与持财(阿周那),向信度王冲去——他的马已被杀死,他孤身一人,惊恐不安,心神混乱。
3.272.64
सैन्धवस्तु हतान्दृष्ट्वा तथाऽश्वान्स्वान्सुदुःखितः ।
रथात्प्रस्कन्द्य पद्भ्यां वै पलायनपरोऽभवत् ॥ ३.२७२.६४ ॥
然而信度王见自己的马已被杀死,极为悲痛;他从车上跳下,徒步逃走。
3.272.65
दृष्ट्वा रविक्रमकर्माणि कुर्वाणं च धनंजयम् ।
पलायनकृतोत्साहः प्राद्रवद्येन वै वनम् ॥ ३.२७२.६५ ॥
他见持财(阿周那)施展如日般的威力,便下定决心逃跑,径直跑入了森林。
3.272.66
सैन्धवं त्वमिसंप्रेक्ष्यपराक्रान्तं पलायने ।
अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् ॥ ३.२७२.६६ ॥
阿周那见信度王正竭力逃跑,便大臂的法尔古那一边追赶他,一边说出了这番话。
3.272.67
अनन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् ।
राजपुत्र निवर्तस्व न ते युक्तं पलायनम् ॥ ३.२७२.६७ ॥
以你的勇力,为何要强行求取一位女子?王子,回来吧;逃跑对你并不相称。
3.272.68
कथं ह्यनुचरान्हित्वा शत्रुमध्ये पलायसे ।
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत ॥ ३.२७२.६८ ॥
你为何抛下随从,逃入敌阵之中?虽然般度之子如此说,信度王仍未回头。
3.272.69
तिष्ठतिष्ठेति तं भीमः सहसाऽभ्यद्रवद्बली ।
मा वधीरिति पार्थस्तं दयावान्प्रत्यभाषत ॥ ३.२७२.६९ ॥
“站住,站住!”说罢,大力的毗摩突然冲向他。慈悲的般度之子回答道:“不要杀他。”