摩诃婆罗多 · 章 3.273
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.273.1
जयद्रथस्तु संप्रेक्ष्यभ्रातरावुद्यतायुधौ ।
प्रादावत्तूर्णमव्यग्रो जीवितेप्सुः सुदुःखितः ॥ ३.२७३.१ ॥
然而,胜车见到两位兄弟举起武器,因渴望生存而极为忧惧,便毫不慌乱地迅速逃走了。
3.273.2
लताभिः संवृते कक्षे किरीटं रत्नभास्वरम् ।
अपविध्यप्रधावन्तं निलीयन्तं वनान्तरे ॥ ३.२७३.२ ॥
他扔掉镶嵌宝石、闪闪发光的冠冕,奔跑着躲进了藤蔓覆盖的灌木丛中,隐藏在林中深处。
3.273.3
भीमसेनस्तु तं कक्षे लीयमानं भयाकुलम् ।
मार्गमाणोऽवतीर्याशु रथाद्रत्नविभूपितात्।
अभिद्रुत्य निजग्राहकेशपक्षे ह्यमर्षणः ॥ ३.२७३.३ ॥
毗摩娑那寻找躲在灌木丛中、惊恐万分的他,迅速从镶满宝石的战车上跳下,怒冲冲地扑过去,抓住了他的头发。
3.273.4
समुद्यम्य च तं भीमो निष्पिपेप महीतले ।
गले गृहीत्वाराजानं पातयामास चैव ह ॥ ३.२७३.४ ॥
毗摩娑将他举起,重重摔在地上,抓住国王的咽喉,将他推倒在地。
3.273.5
पुनः स जीवमानस्य तस्योत्पतितुमिच्छतः ।
पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ॥ ३.२७३.५ ॥
当他仍然活着、想要跳起逃走时,那位大臂者一边他哀嚎,一边用脚猛踢他的头部。
3.273.6
तस्य जानू ददौ भमो जघ्ने चैनमरत्निना ।
स मोहमगमद्राजा प्रहारवरपीडितः ॥ ३.२७३.६ ॥
毗摩娑击打他的膝盖,又用前臂击打他;那国王被这些精妙的打击折磨,昏了过去。
3.273.7
सरोषं भीमसेनं तु वारयामास फल्गुनः ।
दुःशलायाः कृतेराजा यत्त्वामाहेति कौरव ॥ ३.२७३.७ ॥
阿周那制止了愤怒的怖军,说道:“俱卢之子啊,想想国王因杜哈莎拉而对你说的话。”
3.273.8
नायं पापसमाचारो मत्तो जीवितुमर्हति ।
कृष्णायास्तदनर्हायाः परिक्लेष्टा नराधमः ॥ ३.२७३.८ ॥
这个行恶之人不配从我手中活下去;这个最卑劣的人折磨了不该受此苦的克利什那。
3.273.9
किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी ।
त्वं च बालिशया बुद्ध्या सदैवास्मान्प्रबाधसे ॥ ३.२७३.९ ॥
既然国王总是仁慈的,我能做什么呢?而你以孩子般的见识,总是欺压我们。
3.273.10
एवमुक्त्वा सटास्तस्य पञ्चचक्रे वृकोदरः ।
अर्धचन्द्रेण वाणेन किंचिदब्रुवतस्तदा ॥ ३.२७३.१० ॥
说完这些,狼腹用半月形箭五次削断了他的发辫,那时他什么也没说。
3.273.11
विकल्पयित्वा राजानं ततः प्राह वृकोदरः ।
जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ॥ ३.२७३.११ ॥
于是狼腹对国王说:“愚蠢的人啊,你若想活命,就听我说的理由吧。”
3.273.12
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च ।
एवं चेज्जीवितं दद्यामेष युद्धजितो विधिः ॥ ३.२७३.१२ ॥
“你必须在集会和殿堂中说:‘我是奴隶。’如果我这样饶你性命,这就是战胜者的规矩。”
3.273.13
एवमस्त्विति तं राजा कृच्छ्रमाणो जयद्रथः ।
प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम् ॥ ३.२७३.१३ ॥
陷于困境的国王胜车说:“就这样吧。”他对战场上光彩照人的人中虎毗摩说道。
3.273.14
तत एनं विचेष्टन्तं वद्ध्वा पार्थो वृकोदरः ।
रथमारोपयामास विसंज्ञं पांसुकुण्ठितम् ॥ ३.२७३.१४ ॥
于是,普利塔之子狼腹将挣扎中的他捆住,把这昏迷、满身尘土的人抬上了战车。
3.273.15
ततस्तं रथमास्थाय भीमः पार्तानुगस्तदा ।
अग्र्यमाश्रममध्यस्थामभ्यगच्छद्युधिष्ठिरम् ॥ ३.२७३.१५ ॥
于是,毗摩登上那辆战车,随着般度之子们,来到站在修行处中央的最上者坚战面前。
3.273.16
दर्शयामास भीमस्तु तदवस्थं जयद्रथम् ।
तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत् ॥ ३.२७३.१६ ॥
毗摩把处于那种境地的胜车显示出来。国王看见他,便笑着说:“放了他吧。”
3.273.17
राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै ।
दासभावं गतो ह्येष पाण्डूनां पापचेतनः ॥ ३.२७३.१७ ॥
毗摩对国王说:“告诉德劳帕蒂。”这个心怀恶念的人,确实已沦为般度诸子的奴仆。
3.273.18
तमुवाच च ततो ज्येष्ठो भ्राता सप्रणयं वचः ।
मुञ्चेममधमाचारं प्रमाणा यदि ते वयम् ॥ ३.२७३.१८ ॥
于是长兄温和地对他说:“如果我们在你心中有分量,就放了这个行为卑劣的人吧。”
3.273.19
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम् ।
दासोऽयंमुच्यतां रात्रस्त्वयापञ्चशिखः कृतः ॥ ३.२७३.१९ ॥
德罗波蒂望着怖军和坚战说:"此人是奴隶,应当释放。夜间你们已将他弄成了五绺发髻。"
3.273.20
एवमुक्तः स भीमस्तु भ्रात्रा चैव च कृष्णया ।
मुमोच तं महापापं जयद्रथमचेतनम् ॥ ३.२७३.२० ॥
兄长与克里希那(德罗波蒂)如此说后,怖军便释放了那个大罪人、昏迷的胜车。
3.273.21
स मुक्तोऽभ्येत्यराजानमभिवाद्य युधिष्ठिरम् ।
ववन्दे विह्वलोराजातांश्च वृद्धान्मुनींस्तदा ॥ ३.२७३.२१ ॥
获释后,他走到国王面前向坚战行礼;随后惊惶的国王也向那些长者与圣仙行礼。
3.273.22
तमुवाच धृणी राजा धर्मपुत्रो युधिष्ठिरः ।
तथाजयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना ॥ ३.२७३.२२ ॥
于是慈悲的法之子国王坚战对他说话,看到胜车被萨维亚萨钦(阿周那)擒获。
3.273.23
अदासो गच्छ मुक्तोसि मैवं कार्षीः पुनः क्वचित् ।
स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षत्रसहायवान् ॥ ३.२७३.२३ ॥
"你不是奴隶,去吧,你已获释。以后再也不要做这种事。好色之徒,你该受耻辱;虽有刹帝利相助,你仍是卑劣之人。"
3.273.24
एवंविधं हि क कुर्यात्त्वदनयः पुरुषाधमः ।
कर्म धर्मविरुद्धं वै लोकदुष्टं च दुर्मते ॥ ३.२७३.२४ ॥
除了你这样的最卑贱之人,谁会做出这样的事?噢,恶念之人,此事违背法,为世人所憎恶。
3.273.25
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम् ।
संप्रेक्ष्यभरतश्रेष्ठः कृपां चक्रे नराधिपः ॥ ३.२७३.२५ ॥
他仿佛已失去生气,婆罗多族最优秀的人主看着这作恶之人,便generated 生起了怜悯。
3.273.26
धर्मे ते वर्धतां वुद्धिर्मा चाधर्मे मनः कृथाः ।
साश्च साथपादातः स्वस्ति गच्छ जयद्रथ ॥ ३.२७३.२६ ॥
愿你的智慧在法中增长,不要将心思放在非法上。携带马匹、战车与步兵,平安地去吧,胜车。
3.273.27
एवमुक्तस्तु सव्रीजं तूष्णीं किंचिदवाङ्युखः ।
जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत ॥ ३.२७३.२७ ॥
听罢此言,那位王有些羞愧,低着头默默地,因悲痛所苦,婆罗多啊,朝恒河门而去。
3.273.28
स देवं शरणं गत्वा विरूपाक्षमुमापतिम् ।
तपश्चचार विपुलं तस्य प्रीतो वृषध्वजः ॥ ३.२७३.२८ ॥
他投奔神明,对毗卢迦叔(乌玛之主)行了大苦行;牛旗者因他而欢喜。
3.273.29
बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः ।
वरं चास्मै ददौ देवः स जग्राह च तच्छृणु ॥ ३.२७३.२९ ॥
三目之神欢喜地亲自接受了供奉,神又赐他一个恩惠,他接受了。请听其详。
3.273.30
समस्तान्सरथान्पञ्चजयेयं युधि पाण्डवान् ।
इति राजाऽब्रवीद्देवं नेति देवस्तमब्रवीत् ॥ ३.२७३.३० ॥
“愿我能在战场上战胜所有五位般度子及其战车。”国王如此对神说。神对他说:“不。”
3.273.31
अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि ।
ऋतेऽर्जुनं महाबाहुं नरं नाम सुरेश्वरम् ॥ ३.२७३.३१ ॥
在战场上,你能够阻挡那些无法战胜、无法杀死的人——唯有双臂有力的阿周那例外,他就是名为那罗的诸神之主。
3.273.32
बदर्यां तप्ततपसं नारायणसहायकम् ।
अजितं सर्वलोकानां देवैरपि दुरासदम् ॥ ३.२७३.३२ ॥
在巴达里修持苛烈苦行、以那罗延为助手的人,为一切世界所不能征服,连诸神也难以接近。
3.273.33
मया दत्तं पाशुपतं दिव्यमप्रतिमं शरम् ।
अवाप लोकपालेभ्यो वज्रादीन्स महाशरान् ॥ ३.२७३.३३ ॥
我所赐予的神圣无双的帕舒帕塔箭;他又从世界的守护神那里获得了金刚杵等大箭。
3.273.34
देवदेवो ह्यनन्तात्मा विष्णुः सुरगुरुः प्रभुः ।
प्रधानपुरुषोऽव्यक्तोविश्वात्माविश्वमूर्तिमान् ॥ ३.२७३.३४ ॥
诸神之神,无限之魂的毗湿奴,诸神的导师,主宰,原初之人,未显者,宇宙之魂,以宇宙为形体。
3.273.35
युगान्तकाले संप्राप्ते कालाग्निर्दहते जगत् ।
सपर्वतार्णवद्वीपं सशैलवनकाननम्।
निर्दहन्नागलोकांश्चपातालतलचारिणः ॥ ३.२७३.३५ ॥
当纪元终结之时,时间之火焚烧世界,连同山岳、海洋、岛屿、丘陵、森林与园林;它彻底焚毁蛇界以及行走于地底深处之人。
3.273.36
अथान्तरिक्षे सुमहन्नानावर्णाः पयोधराः ।
घोरस्वरा विनदिनस्तटिन्मालावलम्बिनः।
समुत्तिष्ठन्दिशः सर्वाविवर्षन्तः समन्ततः ॥ ३.२७३.३६ ॥
那时天空升起巨大的、色彩斑斓的乌云,发出可怕的吼声,悬挂着闪电的花环,向四面八方涌起,四处降下暴雨。
3.273.37
ततोऽग्नीं शमयामासुः संवर्ताग्निनियामकाः ।
अक्षमात्रैश्च धाराभिस्तिष्ठन्त्यापूर्य सर्वशः ॥ ३.२७३.३७ ॥
于是掌控劫末之火的神明熄灭了那火。他们以如车轴孔般粗的水流从四面八方注满一切,屹立不动。
3.273.38
एकार्णवे तदातस्मिन्नुपशान्तचराचरे ।
नष्टचन्द्रार्कपवने ग्रहनक्षत्रवर्जिते।
चतुर्युगसहस्रान्ते सलिलेनाप्लुता मही ॥ ३.२७३.३८ ॥
那时,在一切动与不动都已止息的唯一大海中,月、日与风皆已灭尽,无星辰行列,于四时代千周之末,大地被水淹没。
3.273.39
ततो नारायणाख्यस्तु सहस्राक्षः सहस्रपात् ।
सहस्रशीर्पा पुरुषः स्वप्नुकामस्त्वतीन्द्रियः ॥ ३.२७३.३९ ॥
于是名为那罗延的那位本体,具有千目、千足、千首,超越诸根,欲要入睡。
3.273.40
फणासहस्रविकटं शेषं पर्यङ्कभोगिनम् ।
सहस्रमिव तिग्मांशुसंघातममितद्युतिम्।
कुन्देन्दुहारगोक्षीरमृणालकुमुदप्रभम् ॥ ३.२७३.४० ॥
千头可怖的舍沙蛇,充当卧榻,宛如千道日光的聚合,光明无量,光辉如茉莉、月亮、珠链、牛乳、莲茎与白莲。
3.273.41
तत्रासौ भगवान्देवः स्वपञ्जलनिधौ तदा ।
नैशेन तमसा व्याप्तां स्वां रात्रिंकुरुते विभुः ॥ ३.२७३.४१ ॥
彼时,那位世尊之神,在作为其居所的大海之上,创造出一个被夜之黑暗所充满的、属于他自己的夜晚,他是无所不在的主宰。
3.273.42
सत्वोद्रेकात्प्रबुद्धस्तु शून्यं लोकमपश्यत ।
इमं चोदाहरन्त्यत्रश्लोकं नारायणं प्रति ॥ ३.२७३.४२ ॥
因萨埵之盛而醒来,他看见世界空无一物。关于此事,人们吟诵一首关于那罗延的颂诗。
3.273.43
आपो नारास्तत्तनव इत्यपां नाम शुश्रुमः ।
अयनं तेन चैवास्ते तेन नारायणः स्मृतः ॥ ३.२७३.४३ ॥
水被称为“那罗”(nāra),因为它们是他的身体,我们如是听闻。因他栖居其中,他被称为那罗延(Nārāyaṇa)。
3.273.44
प्रध्यानसमकालं तुप्रजाहेतोः सनातनः ।
ध्यातमात्रे तु भगवन्नाभ्यां पद्मः समुत्थितः ॥ ३.२७३.४४ ॥
永恒者为众生深深入定之时,仅因被冥想,一朵莲花便从世尊的肚脐中升起。
3.273.45
ततश्चतुर्मुखो ब्रह्मा नाभिपद्माद्विनिःसृतः ।
तत्रोपविष्टः सहसा ब्रह्मा लोकपितामहः ॥ ३.२७३.४५ ॥
随后,四面梵天从脐莲中出现。梵天,诸世界的祖父,忽然在那里坐下。
3.273.46
शून्यं दृष्ट्वा जगत्कृत्स्नं मानसानात्मनः समान् ।
ततो मरीचिप्रमुखान्महर्षीनसृजन्नव ॥ ३.२७३.४६ ॥
见整个世界空无,他从自己的心意中创造了与自己相等的心生之子;随后他创造了以摩利described为首的九位大仙。
3.273.47
तेऽसृजन्सर्वभूतानि त्रसानि स्थावराणि च ।
यक्षराक्षसभूतानि पिशाचोरगमानुषान् ॥ ३.२७३.४७ ॥
他们创造了一切众生,动者与不动者:夜叉、罗刹、鬼神、毕舍遮、蛇与人类。
3.273.48
सृजते ब्रह्ममूर्तिस्तु रक्षते पौरुषी तनुः ।
रौद्री भावेन शमयेत्तिस्रोऽवस्थाः प्रजापतेः ॥ ३.२७३.४८ ॥
梵天之形创造,补鲁沙之身守护,而以愤怒之性,他平息生主的三种状态。
3.273.49
न श्रुतं ते सिन्धुपते विष्णोरद्भुतकर्मणः ।
कथ्यमानानि मुनिभिर्ब्राह्मणैर्वेदपारगैः ॥ ३.२७३.४९ ॥
海洋之主啊,你难道没有听说过吗?那位行事奇妙的毗湿奴,正是博通吠陀的仙人与婆罗门所传颂的。
3.273.50
जलेन समनुप्राप्ते सर्वतः पृथिवीतले ।
तदा चैकार्णवे तस्मिननेकाकाशे प्रभुश्चरन् ॥ ३.२७३.५० ॥
当水遍布大地表面之时,主便独自在那唯一的大洋之中、那广阔无边的虚空中游行。
3.273.51
निशायामिव खद्योतः प्रावृट्काले समन्ततः ।
प्रतिष्ठानाय पृथिवीं मार्गमाणस्तदाऽभवत् ॥ ३.२७३.५१ ॥
就像雨季的夜晚萤火虫四处飞舞一样,他那时在寻找让大地立足之处。
3.273.52
जले निमग्नां गां दृष्ट्वाचोद्धर्तुं मनसेच्छति ।
किंनु रूपमहं कृत्वासलिलादुद्धरे महीम् ॥ ३.२७३.५२ ॥
他看见大地沉没于水中,心中便想将其托起。“我当化作何种形象,从水中举起这片大地呢?”
3.273.53
एवं संचिन्त्य मनसा दृष्ट्वा दिव्येन चक्षुषा ।
जलक्रीडाभिरुचितं वाराहं रूपमस्मरत् ॥ ३.२७३.५३ ॥
他如此在心中思量,以神圣之眼观察之后,便想起了那喜爱在水中嬉戏的野猪之形。
3.273.54
कृत्वा वराहवपुपं वाङ्मयं वेदसंमितम् ।
दशयोजनविस्तीर्णमायतं शतयोजनम् ॥ ३.२७३.५४ ॥
他化作野猪之身,由吠陀之音构成,其量与吠陀相等,宽十由旬,长百由旬。
3.273.55
महापर्वतवर्ष्माभं तीक्ष्णदंष्ट्रंप्रदीप्तिमत् ।
महामेघौघनिर्घोपं नीलजीमूतसन्निभम् ॥ ३.२७३.५५ ॥
他的身躯如大山般庞大,獠牙锐利,光芒闪耀,吼声如大片云团,形似深蓝的雷雨云。
3.273.56
भूत्वा यज्ञवराहो वै अपः संप्राविशत्प्रभुः ।
दंष्ट्रेणैकेन चोद्धृत्यस्वे स्थाने न्यविशन्महीम् ॥ ३.२७३.५६ ॥
主神化为祭祀之野猪,进入水中,以一根獠牙托起大地,将其安置于原位。
3.273.57
पुनरेव महाबाहुरपूर्वां तनुमाश्रितः ।
नरस्य कृत्वाऽर्धतनुं सिंहस्यार्धतनुं प्रभुः ॥ ३.२७३.५७ ॥
大臂之主再次现出前所未有的形体:一半身躯为人,一半身躯为狮。
3.273.58
दैत्येन्द्रस्य सभां गत्वापाणिं संस्पृश्यपाणिना ।
दैत्यानामादिपुरुषः सुरारिर्दितिनन्दनः ॥ ३.२७३.५८ ॥
来到阿修罗之主的殿堂,手触其手之后,阿修罗的始祖,诸神之敌,提提之子——
3.273.59
दृष्ट्वा चापूर्ववपुषं क्रोधात्संरक्तलोचनः ।
शूलोद्यतकरः स्रग्वी हिरण्यकशिपुस्तदा ॥ ३.२७३.५९ ॥
见到这前所未有的形体,希兰尼亚迦希普怒目赤红,手持高举的三叉戟,佩戴花环,此时——
3.273.60
मेघस्तनितनिर्घोषो नीलाभ्रचयसन्निभः ।
देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत् ॥ ३.२७३.६० ॥
吼声如雷鸣的云层,形似一堆深蓝的云,诸神之敌、提提所生的勇士,向人狮扑去。
3.273.61
समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण बलीयसा ।
नारसिंहेन वपुषादारितः करजैर्भृशम् ॥ ३.२७३.६१ ॥
于是他跃起,以锐利爪子的强大兽王、人狮之形,猛烈地将其撕裂。
3.273.62
एवं निहत्य भगवान्दैत्येनद्रं रिपुघातिनम् ।
भूयोऽन्यः पुण्डरीकाक्षः प्रभुर्लोकहिताय च।
कश्यपस्यात्मजः श्रीमानदित्या गर्भधारितः ॥ ३.२७३.६२ ॥
如此杀死了摧敌的提婆之主后,莲花眼的主为了世界的福祉,再次以另一种身份,作为迦叶波的光荣之子,在阿提提的胎中受孕。
3.273.63
पूर्णे वर्षसहस्रे तु प्रसूत भर्गमुत्तमम् ॥ ३.२७३.६३ ॥
满一千年时,她生下了至上的光辉者。
3.273.64
दुर्दिनाम्भोदसदृशो दीप्ताक्षो वामनाकृतिः ।
दण्डी कमण्डलुधरः श्रीवत्सोरसि भूषितः।
जटी यज्ञोपवीती च भगवान्बालरूपधृक् ॥ ३.२७३.६४ ॥
如暴雨云般,目光炽烈,身为侏儒之形,持杖与水瓶,胸前饰以吉祥痣,结着发髻,佩戴圣线,以童子之形示现的世尊。
3.273.65
यज्ञवाटं गतः श्रीमान्दानवेन्द्रस्य वै तदा ।
बृहस्पतिसहायोऽसौ प्रविष्टो बलिनो मखे ॥ ३.२७३.६५ ॥
那时,这位光荣者前往达那婆之主钵利的祭场;在祈祷之师brihaspati的陪伴下,进入了强大的钵利的祭祀。
3.273.66
तं दृष्ट्वावामनतनुं प्रहृष्टो बलिरब्रवीत् ।
प्रीतोस्मि दर्शने विप्र ब्रूहि त्वं किं ददानिते ॥ ३.२७३.६६ ॥
钵利见到这侏儒之身,欢喜地说:「婆罗门啊,见到您我很欢喜;请说,我该给您什么?」
3.273.67
एवमुक्तस्तु बलिना वामनः प्रत्युवाच ह ॥ ३.२७३.६७ ॥
毗卢遮那……(此处原文为“bali”,应为:)波利如此说后,侏儒(瓦马纳)回答道。
3.273.68
स्वस्तीत्युक्त्वा बलिं देवः स्मयमानोऽभ्यभाषत ।
मेदिनीं दानवपते देहि मे विक्रमत्रयम् ॥ ३.२७३.६८ ॥
神说:“吉祥。”微笑着对波利说:“达那婆之主啊,请给我三步的土地。”
3.273.69
बलिर्ददौ प्रसन्नात्मा विप्रायामिततेजसे ।
ततो दिव्याद्भुततमं रूपं विक्रमतोहरेः ॥ ३.२७३.६९ ॥
波利心怀喜悦,将土地交给了光辉无量的婆罗门。然后,迈步的哈里显现出神圣而极其奇妙的形象。
3.273.70
विक्रमैस्त्रिभिरक्षोभ्यो जहाराशु स मेदिनीम् ।
ददौ शक्राय च महीं विष्णुर्देवः सनातनः ॥ ३.२७३.७० ॥
无可动摇者以三步迅速取得了大地;永恒之神毗湿奴将这大地交给了帝释(因陀罗)。
3.273.71
एष ते वामनो नाम प्रादुर्भावः प्रकीर्तितः ।
तेन देवाः प्रादुरासन्वैष्णवं चोच्यते जगत् ॥ ३.२७३.७१ ॥
这被宣告为你的化身,名为瓦马纳。由此诸神显现,而这世界被称为毗湿奴的(世界)。
3.273.72
असतां निग्रहार्थाय धर्मसंरक्षणाय च ।
अवतीर्णो मनुष्याणामजायत यदुक्षये।
यं देवंविदुषोगान्ति तस्य कर्माणि सैन्दव ॥ ३.२७३.७२ ॥
为制伏恶人、护持正法而降临者,在Yadu族覆灭之时降生于人间。萨因达瓦啊,这些就是那位智者所颂扬之神的事迹。
3.273.73
अनाद्यन्तमजं देवं प्रभुंलोकनमस्कृतम् ।
यं देवं विदुषोगान्तितस् कर्माणि सैन्धव ॥ ३.२७३.७३ ॥
无始无终、不生的主宰之神,受万界敬礼,智者所趋向的那位神——啊,信度王,这便是他的作为。
3.273.74
यमाहुरजितंकृष्णं शङ्खचक्रगदाधरम् ।
श्रीवत्सधारिणं देवं पीतकौशेयवाससम् ॥ ३.२७३.७४ ॥
人们称之为不可战胜的黑天的那位神,手持螺号、轮与杵,胸佩室利吠磋标记,身着黄色丝衣。
3.273.75
प्रधानं सोऽस्त्रविदुषां तेन कृष्णन रक्ष्यते ॥ ३.२७३.७५ ॥
他是精通兵器者中的首位;他由那位黑天所守护。
3.273.76
सहायः पुण्डरीकाक्षः श्रीमानतुलविक्रमः ।
समानस्यन्दने पार्थमास्थाय परवीरहा ॥ ३.२७३.७६ ॥
作为助手的莲花眼者、光荣者、无比英勇者,与阿周那同乘一辆相等的战车,乃是敌方英雄的杀手。
3.273.77
न शक्यते तेन जेतुं त्रिदशैरपि दुःसहः ।
कः पुनर्मानुषो भावो रणे पार्थं विजेष्यति ॥ ३.२७३.७७ ॥
即使诸神也不能战胜他,他是难以抵挡的;那么,凡人之性的谁能在战场上战胜阿周那?
3.273.78
तमेकं वर्जयित्वातु सर्वंयौधिष्ठिरं बलम् ।
चतुरः पाण्डवात्राजन्दिनैकं जेप्यसे रिपून् ॥ ३.२७३.७८ ॥
除去他一人,凭借坚战的全部军队——啊,般度王,你将在一日之内击败那些敌人。
3.273.79
तस्मात्त्वंपार्थरहितान्पाण्डवान्वारयिष्यसि ।
एतद्धि पुरुषव्याघ्र मया दत्तो वरस्तव ॥ ३.२७३.७९ ॥
因此你将阻挡失去帕尔塔的般度五子。人中猛虎啊,这一恩赐是我赐予你的。
3.273.80
इत्येवमुक्त्वा नृपतिं सर्वपापहरो हरः ।
उमापतिः पशुपतिर्यज्ञहा त्रिपुरार्दनः ॥ ३.२७३.८० ॥
如此对国王说完,夺去一切罪恶的哈罗,乌摩之主,众生之主,毁坏祭祀者,摧毁三城者,
3.273.81
वामनैर्विकटैः कुब्जैरुग्रश्रवणदर्शनैः ।
वृतः पारिषदैर्घोरैर्नानाप्रहरणोद्यतैः ॥ ३.२७३.८१ ॥
被侏儒、怪异者、驼背者围绕,听之见之皆令人恐惧,可怕的随从们高举各种兵器。
3.273.82
त्र्यम्बको राजशार्दूल भगनेत्रनिपातनः ।
उमासहायो भगवांस्तत्रैवान्तरधीयत ॥ ३.२७३.८२ ॥
王中猛虎啊,三眼神曾击落薄伽的双眼;伴随乌摩的世尊就在那里隐没了。
3.273.83
एवमुक्तस्तु नृपतिः स्वमेव भवनं ययौ ।
पाण्डवाश्च वने तस्मिन्न्यवसन्काम्यके तथा ॥ ३.२७३.८३ ॥
国王听罢此言,便回到自己的宫殿;般度五子也居住在那片迦摩耶迦森林中。