Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.275

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.275.1

प्राप्तमप्रतिमं दुःखं रामेण भरतर्षभ ।
रक्षसा जानकी तस्य हृता भार्या बलीयसा ॥ ३.२७५.१ ॥

婆罗多族的雄牛啊,罗摩遭遇了无与伦比的悲痛,因为他的妻子悉多被一个强大的罗刹劫走了。

3.275.2

आश्रमाद्राक्षसेन्द्रेण रावणेन दुरात्मना ।
मायामास्थाय तरसा हत्वा गृध्रं जटायुषम् ॥ ३.२७५.२ ॥

邪恶的罗刹王罗波那化作幻形,迅速从苦行林中将她劫走,并杀死了神鹫迦吒优。

3.275.3

प्रत्याजहार तां रामः सुग्रीवबलमाश्रितः ।
बद्ध्वा सेतुं समुद्रस्य दग्ध्वा लङ्कां शितैः शरैः ॥ ३.२७५.३ ॥

罗摩依靠须羯哩婆的军队夺回了她;他在海上架起桥梁,以利箭焚毁了楞伽城。

3.275.4

कस्मिन्नामः कुले जातः किंवीर्यः किंपराक्रमः ।
रावणः कस्य पुत्रो वा किं वैरं तस् तेन ह ॥ ३.२७५.४ ॥

他以何名、生于何族?他的威力与勇武如何?罗波那是谁的儿子?他与罗摩有何仇怨?

3.275.5

एतन्मे भगवन्सर्वं सम्यगाख्यातुमर्हसि ।
त्वया प्रत्यक्षोदृष्टं यथासर्वमशेषतः।
श्रोतुमिच्छामि चरितं रामस्याक्लिष्टकर्मणः ॥ ३.२७५.५ ॥

尊敬的大师,请您将您亲眼所见的一切,毫无遗漏地完整告诉我。我想听闻那不知疲倦之业的罗摩的事迹。

3.275.6

अजोनामाभवद्राजा महानिक्ष्वाकुवंशजः ।
तस् पुत्रो दशरथःशश्वत्स्वाध्यायवाञ्छुचिः ॥ ३.२७५.६ ॥

曾有一位名为阿阇的伟大国王,出生于甘蔗王族。他的儿子是十车王,常年专心诵习吠陀,品行纯洁。

3.275.7

अभवंस्तस्य चत्वारः पुत्रा धर्मार्थकोविदाः ।
रामलक्ष्मणशत्रुघ्ना भरतश्च महाबलः ॥ ३.२७५.७ ॥

他生有四子,精通法与利:罗摩、罗什曼那、设睹卢祇那,以及大力的婆罗多。

3.275.8

रामस्य माता कौसल्या कैकेयी भरतस्य तु ।
सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रायाः परंतपौ ॥ ३.२७५.८ ॥

罗摩的母亲是考萨利雅,婆罗多的母亲是凯凯伊;罗什曼那与设睹卢祇那,两位焚灭敌人者,是苏弥特拉的儿子。

3.275.9

विदेहराजो जनकः सीता तस्यात्मजा विमो ।
यां चकार स्वयं त्वष्टा रामस्य महिषीं प्रियाम् ॥ ३.२७५.९ ॥

毗提诃王遮那迦有一女悉多,啊,有力者!她由特瓦什塔亲自造就,成为罗摩心爱的正妃。

3.275.10

एतद्रामस्य ते जन्म सीतायाश्च प्रकीर्तितम् ।
रावणस्यापि ते जन्म व्याख्यास्यामि रजनेश्वर ॥ ३.२७५.१० ॥

罗摩与悉多的出生,已为你讲述。啊,夜之主,我也要为你解说罗波那的出生。

3.275.11

पितामहो रावणस्य साक्षाद्देवः प्रजापतिः ।
स्वयंभूः सर्वलोकानां प्रभुः स्रष्टा महातपाः ॥ ३.२७५.११ ॥

罗波那的祖父便是神祇生主本人——自生者、诸世界之主、创造者、大苦行者。

3.275.12

पुलस्त्यो नाम तस्यासीन्मानसो दयितः सुतः ।
तस्य वैश्रवणो नाम गवि पुत्रोऽभवत्प्रभुः ॥ ३.२७५.१२ ॥

他有一位心所生的爱子,名为补罗斯底;补罗斯底之子、名为毗沙罗婆那的主宰,乃是由伽维所生。

3.275.13

पितरं स समुत्सृज्य पितामहमुपस्थितः ।
तस्य कोपात्पिता राजन्ससर्जात्मानमात्मना ॥ ३.२७५.१३ ॥

他离开父亲,前往祖父那里侍奉。大王,因他的愤怒,他的父亲从自身中创造了自己。

3.275.14

स जज्ञे विश्रवा नाम तस्यात्मार्धेन वै द्विजः ।
प्रतीकाराय सक्रोधस्ततो वैश्रवणस्य वै ॥ ३.२७५.१४ ॥

他以名为毗首罗婆的婆罗门身份诞生,由自身的一半而生。然后,他愤怒地为报复吠室罗婆那而行动。

3.275.15

पितामहस्तुप्रीतात्मा ददौ वैश्रवणस् ह ।
अमरत्वं धनेशत्वं लोकपालत्वमेव च ॥ ३.२७५.१५ ॥

然而,心中欢喜的祖父赐予吠室罗婆那长生不死、财富之主之位,以及护世者之职。

3.275.16

ईशानन तथा सख्यं पुत्रं च नलकूवरम् ।
राजधानीनिवेसं च लङ्कांरक्षोगणान्विताम् ॥ ३.२७५.१६ ॥

与伊莎那的友谊、名为那罗俱瓦罗的儿子、建立王都,以及充满罗刹众的楞伽城。

3.275.17

विमानं पुष्पकं नाम कामगं च ददौ प्रभुः ।
यक्षाणामाधिपत्यंच राजराजत्वमेव च ॥ ३.२७५.१७ ॥

主赐予他名为布湿波迦的天车,随意而行,并赐予夜叉的统治权和王中之王的地位。