Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.277

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.277.1

ततो ब्रह्मर्षयः सर्वे सिद्धा देवर्षयस्तथा ।
हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः ॥ ३.२७७.१ ॥

于是诸梵仙、成就者与天仙,都推举火神为前导,前往梵天处寻求庇护。

3.277.2

योसौ विश्रवसः पुत्रो दशग्रीवो महाबलः ।
अवध्यो वरदानेन कृतो भगवता पुरा ॥ ३.२७७.२ ॥

那位毗首罗婆之子、十颈的大力者,往昔因世尊赐予的恩惠而被赋予不可杀之身。

3.277.3

स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः ।
ततो नस्त्रातु भगवान्नान्यस्त्राता हि विद्यते ॥ ३.२७७.३ ॥

他大力,以对婆罗门的种种恶行压迫一切众生。因此愿世尊护佑我们,因为再无其他护佑者。

3.277.4

न स देवासुरैः शक्यो युद्धे जेतुं विभावसो ।
विहितं तत्रयत्कार्यमभितस्तस्य निग्रहः ॥ ३.२७७.४ ॥

啊,毗婆娑!他在战场上连诸天与阿修罗也无法战胜。当务之急是从四面八方制服他。

3.277.5

तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः ।
विष्णुः प्रहरतां श्रेष्ठः स तत्कर्म करिष्यति ॥ ३.२७७.५ ॥

为了这一目的,奉我之命,四臂的毗湿奴已经降临;他是最优秀的战士,将完成那件事。

3.277.6

पितामहस्ततस्तेषां संनिधौ शक्रमब्रवीत् ।
सर्वैर्देवगणैः सार्धं संभव त्वं महीतले ॥ ३.२७७.६ ॥

于是祖父在他们面前对因陀罗说:'你当与诸天众一同降生于大地。'

3.277.7

विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः ।
जनयध्वं सुतान्वीरान्कामरूपबलान्वितान् ॥ ३.२७७.७ ॥

你们要从母熊与母猴之中,以各种方式生出毗湿奴的助手——英勇的儿子,具有随意变化形体的力量。

3.277.8

ते यथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् ।
ससृजुर्देवगन्धर्वाः पुत्रान्वानररूपिणः ॥ ३.२७७.८ ॥

众神与乾闼婆接受了世尊所吩咐的命令,于是生出了具有猴子形貌的儿子们。

3.277.9

ततो भागानुभागेन देवगन्धर्वदानवाः ।
अवतर्तुं महीं सर्वे मन्त्रयामासुरञ्जसा ॥ ३.२७७.९ ॥

于是诸神、乾闼婆与檀那婆,全都按部分与次分,立即商议降临大地。

3.277.10

अवतेरुर्महीं स्वर्गादंशैश्च सहिताः सुराः ।
ऋषयश्च महात्मानः सिद्धाश्च सह किन्नरैः।
चारणाश्चासृजन्घोरान्वानरान्वनचारिणः ॥ ३.२७७.१० ॥

诸神连同其部分从天界降临大地,大仙、悉陀与紧那罗,以及乾闼婆,共同创造了游荡于林中的可怖猿猴。

3.277.11

यस्य देवस्य यद्रूपं वेषस्तेजश्च यद्विधम् ।
अजायन्त समास्तेन तस्य तस्य सुतास्तदा ॥ ३.२७७.११ ॥

每位神具有怎样的形貌、装束与光辉,那位神的儿子们便依其相似而于彼时出生。

3.277.12

तेषां समक्षं गन्धर्वी दुन्दुभीं नाम नामतः ।
शशास वरदो देवो गच्छ कार्यार्थसिद्धये ॥ ३.२७७.१२ ॥

在他们面前,赐福的神明吩咐名为敦都毗的乾闼婆女说:“去吧,为了完成使命。”

3.277.13

पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः ।
मन्थरा मानुषे लोके कुब्जा समभवत्तदा ॥ ३.२७७.१३ ॥

闻祖父之言,乾闼婆女敦度毗便于人间化为驼背的曼瑟罗。

3.277.14

शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः ।
वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान् ॥ ३.२७७.१४ ॥

以因陀罗为首的诸位天神之最,在猴族与熊族的优秀女子中生下了儿子。

3.277.15

तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च ।
भेत्तारो गिरिशृङ्गाणां सालतालशिलायुधाः ॥ ३.२७७.१५ ॥

他们都在名声与力量上追随父辈,能摧毁山峰,以娑罗树、多罗树和巨石为武器。

3.277.16

वज्चसंहननाः सर्वेसर्वेऽमोघवलास्तथा ।
कामवीर्यबलाश्चैवसर्वे बुद्धिविशारदाः ॥ ३.२७७.१६ ॥

身躯坚如金刚,皆具不失之力,随意拥有勇力与威力,皆精通智慧。

3.277.17

नागायुतसमप्राणा वायुवेगसमा जवे ।
यथेच्छविनिपाताश्च केचिदत्र वनौकसः ॥ ३.२७७.१७ ॥

生命气息等同万头象,迅捷如风,此地一些林居者能随意降落。

3.277.18

एवं विधाय तत्सर्वं भगवाँल्लोकभावनः ।
मन्थरां बोधयामास यद्यत्कार्यं त्वया तथा ॥ ३.२७७.१८ ॥

如此安排一切之后,护持世间的世尊告知曼瑟罗:凡你所应做之事,便照此而行。

3.277.19

सा तद्वच समाज्ञाय तथा चक्रे मनोजवा ।
इतश्चेतश्च गच्छन्ती वैरसंधुक्षणे रता ॥ ३.२७७.१९ ॥

她完全领会了他的话,便照着去做,快如心念,四处奔走,专心挑起仇怨。