摩诃婆罗多 · 章 3.279
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.279.1
मारीचस्त्वथ संभ्रान्तो दृष्ट्वा रावणमागतम् ।
पूजयामास सत्कारैः फलमूलादिभिस्ततः ॥ ३.२७९.१ ॥
于是摩利遮见罗波那到来,心中惶恐,便以礼敬之意,以果实、根茎等供养他。
3.279.2
विश्रान्तं चैनमासीनमन्वासीनः स राक्षसः ।
उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम् ॥ ३.२७९.२ ॥
那罗刹坐在正在休息的罗波那身旁,他通晓言语之意,善于言辞,便以谦逊之语对他说。
3.279.3
न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव ।
कच्चित्प्रकृतयः सर्वा भजन्ते त्वां यथा पुरा ॥ ३.२७९.३ ॥
你的气色不太好。你的城中一切安好吗?你所有的臣民还像从前一样侍奉你吗?
3.279.4
किमिहागमने चापि कार्यं ते राक्षसेश्वर ।
कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम् ॥ ३.२७९.४ ॥
罗刹之主啊,你来此有何事务?即使极其艰难,也请视之为已经办成。
3.279.5
शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम् ।
समासेनैव कार्याणि क्रोधामर्षसमन्वितः ॥ ३.२७९.५ ॥
罗波那满怀愤怒与不甘,将罗摩所做的一切简要地讲给他听。
3.279.6
मारीचस्त्वब्रवीच्छ्रत्वा समासेनैव रावणम् ।
अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै ॥ ३.२७९.६ ॥
摩利遮听罗波那简略述说后,说道:“你只要去面见罗摩便够了,因为我深知他的威力。”
3.279.7
बाणवेगं हि कस्तस्य शक्तः सोढुं महात्मनः ।
प्रव्रज्यायां हि मे हेतुः स एव पुरुषर्षभः।
विनाशमुखमेतत्ते केनाख्यातं दुरात्मना ॥ ३.२७९.७ ॥
谁能承受那大德者箭矢的力量?这位人中雄牛正是我流放的原因。这是你毁灭的门户——是哪个恶人告诉你的?
3.279.8
तमुवाचाथ सक्रोधो रावणः परिभर्त्सयन् ।
अकुर्वतोऽस्मद्वचनं स्यान्मृत्युरपि ते ध्रुवम् ॥ ३.२७९.८ ॥
罗波那愤怒地斥责他说:“若你不遵从我的话,死亡对你也必定到来。”
3.279.9
मरीचश्चिन्तयामास विशिष्टान्मरणं वरम् ।
अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम् ॥ ३.२७९.९ ॥
摩利遮思量:“死于卓越者之手更好。既然死亡必定降临,我就做他所愿。”
3.279.10
ततस्तं प्रत्युवाचाथ मारीचो रक्षसांवरम् ।
किं ते साह्यां मया कार्यं करिष्याम्यवशोपि तत् ॥ ३.२७९.१० ॥
于是摩利遮对罗刹中的最优者说:“你需要我帮你做什么?即便身不由己,我也会做那件事。”
3.279.11
तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय ।
रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः ॥ ३.२७९.११ ॥
十首者对他说:“去吧,引诱悉多,化作有宝石角、宝石斑纹毛皮的鹿。”
3.279.12
ध्रुवं सीता समालक्ष्यत्वां रामं चोदयिष्यति ।
अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति ॥ ३.२७९.१२ ॥
悉多看见你必定会催促罗摩;待迦库特斯塔远去,悉多便会顺从于你。
3.279.13
तामादायापनेष्यामि ततः स नभविष्यति ।
भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे ॥ ३.२७९.१३ ॥
我将带走她;那时他(罗摩)将不复存在。因失去妻子,恶念之人说:请为我做此事。
3.279.14
इत्येवमुक्तोमारीचः कृत्वोदकमथात्मनः ।
रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः ॥ ३.२७९.१४ ॥
被如此说后,摩哩818为自己献上水祭,深感痛苦地跟随走在前面的罗波那。
3.279.15
ततस्तस्याश्रमं गत्वारामस्याक्लिष्टकर्मणः ।
चक्रतुस्तद्यथा सर्वमुभौ यत्पूर्वमन्त्रितम् ॥ ३.२७९.१५ ॥
于是二人来到无费力之业的罗摩的修行处,一切都照先前所约定的去做。
3.279.16
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डीत्रिदण्डधृत् ।
मृगश्चभूत्वामारीचस्तं देशमुपजग्मतुः ॥ ३.२७९.१६ ॥
罗波那化为剃发、持净瓶与三杖的苦行者,摩哩818化为鹿,二人来到那个地方。
3.279.17
दर्शयामास मारीचो वैदेहीं मृगरूपधृत् ।
चोदयामास तस्यार्थे सा रामं विधिचोदिता ॥ ३.२७९.१७ ॥
化为鹿形的摩哩818向毗提诃之女(悉多)显现;她受命运驱使,为他催促罗摩。
3.279.18
रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः ।
रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया ॥ ३.२७९.१८ ॥
罗摩为让她欢喜,迅速取弓,留下罗什曼那守护,怀着捕获那鹿的心愿出发了。
3.279.19
स धन्वी बद्धतूणीरः खङ्गगोधाङ्गुलित्रवान् ।
अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा ॥ ३.२७९.१९ ॥
Rāma手持弓,背负箭袋,佩剑,戴皮护臂与指套,追赶那只鹿,正如楼陀罗追赶星鹿一般。
3.279.20
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसो व्रजन् ।
चकर्ष महदध्वानं रामस्तं वुबुधे ततः ॥ ३.२७९.२० ॥
那罗刹再次隐没;随后又在罗摩面前显现而去,将他引至很远之处。罗摩这时才察觉了他。
3.279.21
निशाचरं विदित्वा तं राघवः प्रतिभानवान् ।
अमोघं शरमादाय जघान मृगरूपिणम् ॥ ३.२७९.२१ ॥
罗摩辨认出那夜行者,机敏的罗怙后裔取一支不虚发之箭,射倒了这化作鹿形之物。
3.279.22
स रामवाणाभिहतः कृत्वा रामस्वरं तदा ।
हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह ॥ ३.२७९.२२ ॥
被罗摩之箭射中的它,便模仿罗摩的声音,痛苦地呼喊:“哎呀,悉多!哎呀,罗什曼那!”
3.279.23
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम् ।
साप्रापतत्ततः सीता तामुवाचाथ लक्ष्मणः ॥ ३.२७९.२३ ॥
毗提诃公主听到那悲声,悉多便奔出;这时罗什曼那对她说话。
3.279.24
अलं ते शङ्कया भीरु को रामं प्रहरिष्यति ।
मुहूर्ताद्द्रक्ष्यसे रामं भर्तारं त्वं शुचिस्मितम् ॥ ३.२७९.२४ ॥
“胆小的人啊,你不必惊疑。谁敢伤害罗摩?转眼之间,你就会见到你的夫君罗摩,那笑容纯净的人。”
3.279.25
इत्युक्ता सा प्ररुदती पर्यशङ्कत लक्ष्मणम् ।
हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणा ॥ ३.२७९.२५ ॥
她被如此说后,哭泣着开始怀疑罗什曼。因女性的本性而被毁,她的装饰本是纯净的品行。
3.279.26
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता ।
नैष कामो भवेन्मूढ यं त्वं प्रार्थयसे हृदा ॥ ३.२७९.२६ ॥
那位贞节的妻子开始严厉地对他说:"愚人啊,你心中所渴望的这个欲念,绝不会实现。"
3.279.27
अप्यहंशस्त्रमादाय हन्यामात्मानमात्मना ।
पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम् ॥ ३.२७९.२७ ॥
即使我,也可以拿起武器,亲手杀死自己,或从山峰跌落,或投入火中。
3.279.28
रामं भर्तारमुत्सुज्यन त्वहं त्वां कथञ्चन ।
निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा ॥ ३.२७९.२८ ॥
我抛弃丈夫罗摩,绝不会以任何方式侍奉像你这样的卑劣之人,正如母虎不会去找豺狼。
3.279.29
एतादृशं वचः श्रुत्वा लक्ष्मणः प्रियराघ्नव ।
पिधायकर्णौ सद्वृत्तः प्रस्थितो येन राघवः ॥ ३.२७९.२९ ॥
罗什曼听到这样的话,作为罗ghava所钟爱、品行端正的人,便捂住双耳,朝罗ghava所在的方向走去。
3.279.30
स रामस्य पदंगृह्य प्रससार धनुर्धरः ।
अवीक्षमाणो विम्बोष्ठीं प्रययौ लक्ष्मणस्तदा ॥ ३.२७९.३० ॥
那位持弓的罗什曼踏着罗摩的足迹前行,不看那位唇如红果的女子;于是罗什曼从那里离开了。
3.279.31
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत ।
अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः ॥ ३.२७९.३१ ॥
此时,罗刹罗波那出现了。他虽不吉,却以吉祥之形显现,如同被灰烬覆盖的火。
3.279.32
यतिवेपप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम् ।
उपागच्छत्स वैदेहीं रावणः पापनिश्चयः ॥ ३.२७९.३२ ॥
他伪装成苦行者,欲劫夺这位无瑕之人,心怀恶念的罗波那走近了毗提诃。
3.279.33
सा तमालक्ष्यसंप्राप्तं धर्मज्ञा जनकात्मजा ।
निमन्त्रयामास तदा फलमूलाशनादिभिः ॥ ३.२७९.३३ ॥
毗提诃之女精通法,见他到来,便以果实、根茎等食物邀请他。
3.279.34
अवमत्यततः सर्वं स्वं रूपं प्रत्यपद्यत ।
सान्त्वयामास वैदेहीं कामी राक्षसपुङ्गवः ॥ ३.२७९.३४ ॥
随后他脱去伪装,显出本相。好色的罗刹之首便用甜言蜜语安抚毗提诃。
3.279.35
सीते राक्षसराजोऽहंरावणो नाम विश्रुतः ।
मम लङ्कापुरी नाम्ना रम्या पारे महोदधेः ॥ ३.२७९.३५ ॥
悉多啊,我是罗刹之王,名叫罗波那。我那座名为楞伽的美丽城市,位于大海的彼岸。
3.279.36
तत्र त्वं नरनारीषु शोभिष्यसि मया सह ।
भार्या मे भव सुश्रोणि तापसं त्यज राघवम् ॥ ३.२७९.३६ ॥
在那里,你将与我一同在男女之中光彩照人。美腰的女子啊,做我的妻子吧,抛弃那位苦行者罗ghava。
3.279.37
एवमादीनि वाक्यानि श्रुत्वा तस्याथ जानकी ।
पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः ॥ ३.२७९.३७ ॥
闻其此言,妙腰的耶那基以双手掩耳,说道:“不可如此说。”
3.279.38
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् ।
शुष्येत्तोयनिधौ तोयं चन्द्रः शीतांशुतां त्यजेत् ॥ ३.२७९.३८ ॥
即使星辰之天坠落,大地碎裂,海水干涸,月亮舍弃其清凉之光——
3.279.39
उष्णांशुत्वमथो जह्यादादित्यो वह्निरुष्णताम् ।
त्यक्त्वाशैत्यं भजेन्नाहं त्यजेयंरघुनन्दनम् ॥ ३.२७९.३९ ॥
即使太阳舍弃其热,火舍弃其热而取冷,我也绝不舍弃罗怙之子的喜乐。
3.279.40
कथं हि भिन्नकरटं पद्मिनं वनगोचरम् ।
उपस्थाय महानागं करेणुः सूकरं स्पृशेत् ॥ ३.२७९.४० ॥
林中漫游、额间裂开的大象旁,雌象怎会走近并去触碰野猪呢?
3.279.41
कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम् ।
लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरेः ॥ ३.२७९.४१ ॥
饮蜂蜜酒、饮甘美的摩陀婆,何女子会贪恋苏维罗酒呢?你当记住。
3.279.42
इति सा तं समाभाष्य प्रविवेशाश्रमं ततः ।
क्रोधात्प्रस्फुरमाणौष्ठी विधुन्वाना करौ मुहुः ॥ ३.२७९.४२ ॥
她如此对他说完,便走进了净修林;因愤怒嘴唇颤抖,屡次挥动双手。
3.279.43
तामधिद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत् ॥ ३.२७९.४३ ॥
罗波那扑向那位美臀的女子,制止了她。
3.279.44
भर्त्सयित्वातु रूक्षेण स्वरेण गतचेतनाम् ।
मूर्धजेषु निजग्राह ऊर्ध्वमाचक्रमे ततः ॥ ३.२७९.४४ ॥
他以粗厉的声音斥责她,抓住已失去知觉的她的头发,将她提起,继续前行。
3.279.45
तां ददर्श ततो गृध्रो जटायुर्गिरिगोचरः ।
रुदतीं रामरामेति हियमाणां तपस्विनीम् ॥ ३.२७९.४५ ॥
那时住在山中的秃鹫迦吒优看见了她——那位苦行女子,正哭喊着“罗摩,罗摩”,被人劫走。