Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.282

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.282.1

ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् ।
मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम् ॥ ३.२८२.१ ॥

于是他看见她,因丈夫之忧而痛苦,悲戚,身着污秽的衣裳,身上只剩几颗宝珠作装饰,哭泣着,是那忠贞的妻子。

3.282.2

राक्षसीभिरुपास्यन्तीं समासीनां शिलातले ।
रावणःकामबाणार्तो ददर्शोपससर्प च ॥ ३.२८२.२ ॥

她坐在石板上,被罗刹女们侍奉。罗波那被欲望之箭所折磨,看见了她,便走近她。

3.282.3

देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि ।
अजितोशोकवनिकां ययौ कन्दर्पपीडितः ॥ ३.२८२.३ ॥

在战斗中不被诸天、檀那婆、乾闼婆、夜叉与紧那罗所战胜的他,被爱神所折磨,前往无忧树林。

3.282.4

दिव्याम्बरधरः श्रीमन्सुमृष्टमणिकुण्डलः ।
विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् ॥ ३.२८२.४ ॥

他身着天衣,光彩照人,戴着打磨光亮的宝珠耳环,头戴缀满各色花鬘的宝冠,宛如具象化的春天。

3.282.5

न कल्पवृक्षसदृशोयत्नादपि विभूषितः ।
श्मशानचैत्यद्रुमवद्भूषितोऽपि भयंकरः ॥ ३.२८२.५ ॥

虽经精心装饰,他却不像如意树;虽装饰得如同火葬场塔庙中的树木,他仍然令人恐怖。

3.282.6

स तस्यास्तनुमध्यायाः समीपे रजनीचरः ।
ददृशे रोहिणीमेत्य शनैश्चर इव ग्रैहः ॥ ३.२८२.६ ॥

那夜行者出现在那位纤腰女子身旁,如同土星接近罗西尼星宿。

3.282.7

स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः ।
इदमित्यब्रवीद्वाक्यं त्रस्तां रौहीमिवाबलाम् ॥ ३.२८२.७ ॥

他对这位纤腰美人说话,被花幡神(爱神)的箭所伤,对这惊恐如鹿的柔弱女子说了这些话。

3.282.8

सीते पर्याप्तमेतावत्कृतोभर्तुरनुग्रहः ।
प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते ॥ ३.२८२.८ ॥

悉多啊,对你的丈夫这样的恩惠已经足够了。纤细的人啊,请施恩,让你自己装扮起来吧。

3.282.9

भजस्वमां वरारोहे महार्हाभरणाम्बरा ।
भवमे सर्वनारीणामुत्तमा वरवर्णिनी ॥ ३.२८२.९ ॥

请接受我吧,美腰的人啊,身着贵重的饰物与衣裳。你要成为所有女子中最优秀的,美貌的人啊,成为我的人吧。

3.282.10

सन्ति मे देवक्न्याश्च गन्धर्वाणआं च योषितः ।
सन्ति दानवन्याश् दैत्यानां चापि योषितः।
तासामद्यविशालाक्षि सर्वासां मे भवोत्तमा ॥ ३.२८२.१० ॥

我有天女,也有乾闼婆的女子;也有檀那婆的女儿和提迭的女子。宽眼的人啊,在她们所有人之中,今天你要成为我最优秀的。

3.282.11

चतुर्दश पिशाचीनां कोट्यो मे वचने स्थिताः ।
द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् ॥ ३.२८२.११ ॥

十四千万的毕舍遮听我号令而立,人肉食的罗刹,行为可怖者,数目是其两倍。

3.282.12

ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः ।
केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः ॥ ३.२८२.१२ ॥

接着,听从我话语的夜叉是其三倍,其中一些依附于我的兄长、财神。

3.282.13

गन्दर्वाप्सरसो भद्रे मामापानगतं सदा ।
उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम ॥ ३.२८२.१३ ॥

善良的女子啊,乾闼婆与阿布沙罗们总是服侍我,当我躺在饮宴之处时,正如他们服侍我的兄长一样,美腿的女子啊。

3.282.14

पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः ।
पञ्चमो लोकपालानामिति मे प्रथितं यशः ॥ ३.२८२.१४ ॥

我也是婆罗门仙人、牟尼毗首罗婆的亲生之子;作为诸世界守护者中的第五位,我的名声广为流传。

3.282.15

दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च ।
यथैव त्रिदशेशस्यतथैव मम भामिनि ॥ ३.२८२.१५ ॥

正如三十三天之主所拥有的,光彩照人的女子啊,我也有神圣的食物与饮料,种类繁多。

3.282.16

क्षीयतां दुष्कृतं कर्म वनवासकृतं तव ।
भार्या मे भवसुश्रोणि यथा मण्डोदरीतथा ॥ ३.२८२.१६ ॥

愿你在林中居住时所造的恶业消灭。美臀的女子啊,像曼陀达利一样成为我的妻子吧。

3.282.17

इत्युक्ता तेन वैदेही परिवृत्य सुभानना ।
तृणमनतरतः कृत्वातमुवाच निशाचरम् ॥ ३.२८२.१७ ॥

他这样说完,容颜美丽的毗提诃公主转过身来,在自己与他之间放了一根草,然后对这个夜行者说道。

3.282.18

अशिवेनातिवामोरूरजस्रं नेत्रवारिणा ।
स्तनावपतितौ बाला संहतावभिवर्षती ॥ ३.२८२.१८ ॥

美腿的女子啊,这位少女因不祥的境况,不停地以泪水浸湿着那垂落、紧贴在一起的双乳。

3.282.19

व्यवस्थाप्यकथंचित्सा विषादादतिमोहिता ।
उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता ॥ ३.२८२.१९ ॥

她勉强镇定下来,因悲痛而极度迷乱,以丈夫为神明的毗提诃公主对那卑贱之人说出了这番话。

3.282.20

असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर ।
विषादयुक्तमेतत्ते मया श्रुतमभाग्यया।
तद्भद्रमुख भद्रं ते मानसं विनिवर्त्यताम् ॥ ३.२८२.२० ॥

罗刹之王啊,你一再说出这样充满卑劣之意的话,而我因命运不济不得不听到。因此,吉祥面容的你,愿你安好;请收回你的心意吧。

3.282.21

परदाराऽस्म्यलभ्या च सततं च पतिव्रता ।
न चैवौपयिकी भार्य मानुषी तव राक्षस ॥ ३.२८२.२१ ॥

我是他人之妻,且始终忠于丈夫,是不可得的。罗刹啊,人间女子甚至不适合做你的妻子。

3.282.22

विवशां धर्षयित्वच कां त्वं प्रीतिमवाप्स्यसि ।
न च पालयसे धर्मं लोकपालसमः कथम् ॥ ३.२८२.२२ ॥

欺凌一个无助的女子,你能得到什么快乐?你与世界守护者齐等,怎么却不守护法(达摩)呢?

3.282.23

भ्रातरं राजराजं तं महेश्वरसस्वं प्रभुम् ।
धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे ॥ ३.२८२.२३ ॥

你自称是王中之王、大自在天之财富的主人、财神毗沙门(俱毗罗)的兄弟,为何在此竟不感到羞耻?

3.282.24

इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ ।
शिरोधरां च तन्वङ्गी मुस्वं प्रच्छाद्यवाससा ॥ ३.२८२.२४ ॥

说完这番话,悉多放声痛哭,乳房与颈项颤动;那娇小的女子用衣襟遮住了脸。

3.282.25

तस्य रुदत्या भामित्या दीर्घा वेणी सुसयता ।
ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि ॥ ३.२८२.२५ ॥

她哭泣而愤怒时,那条长而束好的发辫盘在头顶,像一条黑色光滑的蛇。

3.282.26

श्रुत्वा तद्रावणो वाक्यं सीतयोक्तं सुनिषुरम् ।
प्रत्याख्यातोऽपिदुर्मेधाः पुनरेवाब्रवीद्वचः ॥ ३.२८२.२६ ॥

罗波那虽听到悉多所说的那些极为严厉的话,又被拒绝,这个昏愚的人仍再次说了这些话。

3.282.27

काममङ्गनि मे सीते दुनोतु मकरध्वजः ।
नत्वामकामां सुश्रोणीं समेप्ये चारुहासिनीं ॥ ३.२८२.२७ ॥

悉多啊,即使摩羯旗(爱神)折磨我,我也不会去亲近你这不愿意的、腰身优美、笑容甜美的人。

3.282.28

किंनु शक्यं मया कर्तुं यत्त्वमद्यापिमानुषम् ।
आहारभूतमस्माकं राममेवानुरुध्यसे ॥ ३.२८२.२८ ॥

那么我能做什么呢?你仍然只渴望罗摩,这个作为我们食物的人类。

3.282.29

इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसमहेश्वरः ।
तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् ॥ ३.२८२.२९ ॥

他对这位肢体无瑕的女子这样说完,那罗刹大王便就地隐形,朝他所愿的方向去了。

3.282.30

राक्षसीभिः परिवृतावैदेही शोककशिंता ।
सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा ॥ ३.२८२.३० ॥

被罗刹女围绕、因悲伤而憔悴的毗提诃公主(悉多),受到特里遮吒的侍奉,那时便住在了那里。