摩诃婆罗多 · 章 3.283
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.283.1
राघवः सहसौमित्रिः सुग्रीवेणाभिपालितः ।
वसनमाल्यवतः पृष्ठे ददर्श विमलं नभः ॥ ३.२८३.१ ॥
受须羯剌那(Sugrīva)护佑的罗怙后裔与妙臂(Saumitri)一同,在婆萨那-摩利耶梵山之背望见了澄澈的天空。
3.283.2
सदृष्ट्वाविमले व्योम्नि निर्मलं शसलक्षणम् ।
ग्रहनक्षत्रताराभिरनुयान्तममित्रहा ॥ ३.२८३.२ ॥
见到澄澈天空中被planets、星宿与群星伴随而行、以兔为标记的无瑕明月,那斩杀敌人者……
3.283.3
कुमुदोत्पलपद्मानां गन्धमादाय वायुना ।
महीधरस्थः शीतेन सहसाप्रतिबोधितः ॥ ३.२८३.३ ॥
风携带着睡莲、青莲与莲花的芬芳,以清凉之气使站在山上的他骤然醒来。
3.283.4
प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः ।
सीतां संस्मृत् यधर्मात्मा रुद्धां राक्षसवेश्मनि ॥ ३.२८३.४ ॥
黎明时分,心怀忧戚,这位守正之人对英雄罗什曼那说话,想起被困于罗刹宅中的悉多。
3.283.5
गच्छ लक्ष्मण जानीहि किष्किंदायां कपीश्वरम् ।
प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् ॥ ३.२८३.५ ॥
罗什曼那,去吧,在基什坎陀探明那猴王的情况——他沉溺于世俗之乐,忘恩负义,精于自身私利。
3.283.6
योसौ कुलाधमो मूढो मया राज्येऽभिषेचितः ।
सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै ॥ ३.२८३.६ ॥
我所立为王的那个出身卑贱、愚痴的人——所有猴子、牛尾猿和熊都侍奉他。
3.283.7
यदर्थं निहतो बाली मया रघुकुलोद्वह ।
त्वया सहमहाबाहो किष्किन्धोपवने तदा ॥ ३.२८३.७ ॥
啰怙族的承担者啊,大臂者啊!那时在钦钵山的园林中,我与你一同杀死波利,正是为了那件事,
3.283.8
कृतघ्नं तमहं मन्ये वानरापशदं भुवि ।
यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण ॥ ३.२८३.८ ॥
啊,罗什曼那!我认为那个忘恩负义者,乃地上猴族中最卑贱之徒。他愚昧无知,至今竟不认得处于此境的我。
3.283.9
असौ मन्ये न जानीते समयप्रतिपालनम् ।
कृतोपकारं मां नूनमवमत्याल्पया धिया ॥ ३.२८३.९ ॥
我想他不懂得守约。想必他以浅薄的心智轻视了我对他的恩惠,才这样做。
3.283.10
यदितावदनुद्युक्तः शेते कामसुखात्मकः ।
नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया ॥ ३.२८३.१० ॥
若他仍不努力,耽于欲乐而躺卧,你就应当循波利的道路,将他送往一切众生的归宿。
3.283.11
अथापि घटतेऽस्माकमर्ते वानरपुङ्गवः ।
तमादायैव काकुत्स्थ त्वरावान्भव माचिरम् ॥ ३.२८३.११ ॥
然而,若没有那位猴中之雄,我们的事也能成,那么,啊,迦古特斯塔之后裔!你就带上他,快些行动,不要拖延。
3.283.12
इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः ।
प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः ॥ ३.२८३.१२ ॥
兄长如此吩咐,罗什曼那勤于遵从长者之言,便取过装有箭和弓弦的精美弓,踏上了征途。
3.283.13
किष्किन्धाद्वारमासाद्यप्रविवेशानिवारितः ।
सक्रोध इतितं मत्वाराजा प्रत्युद्ययौ हरिः ॥ ३.२८३.१३ ॥
他到达吉什金陀门口,无人阻拦便进入。猴王以为他愤怒,便迎上前去。
3.283.14
तं सदारोविनीतात्मा सुग्रीवः प्लवगाधिपः ।
पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया ॥ ३.२८३.१४ ॥
猴王须羯利婆谦逊有德,与妻子一同以礼相迎。见他受到应有的尊敬,他心中欢喜。
3.283.15
तमब्रवीद्रामवचः सौमित्रिरकुतोभयः ।
स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः ॥ ३.२८३.१५ ॥
无畏的苏弥特利(罗什曼那)把罗摩的话告诉他。须羯利婆全部听完后,合掌低头行礼。
3.283.16
सभृत्यदारो राजेन्द्रसुग्रीवो वानराधिपः ।
इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् ॥ ३.२८३.१६ ॥
猴王须羯利婆与随从和妻子一同,心中欢喜,对人中象王罗什曼那说了这番话。
3.283.17
नास्मि लक्ष्मण दुर्मेधा नाकृतज्ञो न निर्घृणः ।
श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः ॥ ३.२८३.१७ ॥
罗什曼那啊,我既不愚蠢,也不忘恩,更不冷酷。请听我为寻找悉多所做的努力。
3.283.18
दिशः प्रस्थापिताः सर्वेविनीता हरयो मया ।
सर्वेषां च कृतः कालो मासेऽभ्यागमने पुनः ॥ ३.२८३.१८ ॥
我已将训练有素的猴子派往四方,并为所有人定下一个月的期限归来。
3.283.19
यैरियं सवना साद्रिः सपुरा सागराम्बरा ।
विचेतव्या मही वीर सग्रामनगराकरा ॥ ३.२८३.१९ ॥
由他们搜寻这片以海洋为衣、拥有山脉与城市的大地,英雄啊,包括村庄、城镇与矿场。
3.283.20
स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति ।
ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् ॥ ३.२८३.२० ॥
那一个月应在五夜之内圆满。那时,你将与罗摩一同听到极其令人欣喜的消息。
3.283.21
इत्युक्तो लक्ष्मणत्तेन कवानरेनद्रेण धीमता ।
त्यक्त्वारोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् ॥ ३.२८३.२१ ॥
罗什曼那如此说后,智慧的猴王舍弃愤怒,以不沮丧的心敬奉了须羯哩婆。
3.283.22
सरामं सहसुग्रीवो माल्यवत्पुष्ठमास्थितम् ।
भिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् ॥ ३.२८३.२२ ॥
须羯哩婆与罗摩一同立于摩利耶湾山的山脊上,走近前来,向他报告了那件事的结果。
3.283.23
इत्येवंवानरेनद्रास्ते समाजन्मुः सहस्रशः ।
दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः ॥ ३.२८३.२३ ॥
如此,猴王们成千上万地聚集而来,搜寻了三个方向;但那些前往南方的,却不在其中。
3.283.24
आचख्युस्तत्र रामाय महीं सागरमेखलाम् ।
विचितां न तु वैदेह्या दर्शनं रावणस् वा ॥ ३.२८३.२४ ॥
他们在那里向罗摩报告:以海为腰带的大地已被搜遍,但未见到毗提诃,也未见到罗波那。
3.283.25
गतास्तु दक्षिणामाशां ये वै वानरपुङ्गवाः ।
आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽभ्यधारयत् ॥ ३.२८३.२५ ॥
那些前往南方的猴中之雄,罗摩(迦古特斯塔之后)满怀希望,忍着痛苦,维系着生命。
3.283.26
द्विमासोपरमे काले व्यतीते प्लवगास्ततः ।
सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् ॥ ३.२८३.२६ ॥
两个月过去之后,猴群急忙走近须羯里婆,说出了这些话。
3.283.27
रक्षितंवालिना यत्तत्स्फीतं मधुवनं महत् ।
त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः ॥ ३.२८३.२७ ॥
那片由筏林守护的广大丰饶的蜜林,如今由你——猴中之最,以及风神之子享用。
3.283.28
वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः ।
विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया ॥ ३.२८३.२८ ॥
筏林之子安伽达,以及其他猴中雄牛,都是你,大王,派往南方寻找的。
3.283.29
तेषामपनयं श्रुत्वा मेने सकृतकृत्यताम् ।
कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् ॥ ३.२८३.२९ ॥
听到他们的所作所为,他认为任务已经完成,因为目的已达成的仆从便是如此行事。
3.283.30
स तद्रामाय मेधावी शशंस प्लवगर्षभः ।
रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् ॥ ३.२८३.३० ॥
那位智慧的猴中之最将此事禀告罗摩,罗摩也依推测认为悉多已被找到。
3.283.31
हनुमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवङ्गमाः ।
अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसन्निधौ ॥ ३.२८३.३१ ॥
以哈努曼为首的猴众休息之后,在罗摩与罗什曼那面前走向那位猴王。
3.283.32
गतिं च मुखवर्णं च दृष्ट्वारामो हनूमतः ।
अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत ॥ ३.२८३.३२ ॥
罗摩看到哈努曼的步态与面色,再次确信悉多已被找到,婆罗多之子啊。
3.283.33
हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः ।
प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा ॥ ३.२८३.३३ ॥
以哈努曼为首的猴众心意满足,依礼向罗摩、须羯里婆和罗什曼那致敬。
3.283.34
तानुवाचानतान्रामः प्रगृह्य सशरं धनुः ।
अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता ॥ ३.२८३.३४ ॥
罗摩手持弓箭,对躬身的猴众说:“你们能使我复生吗?你们的使命也能成就吗?”
3.283.35
अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः ।
निहत्यसमरे शत्रूनाहृत्यजनकात्मजाम् ॥ ३.२८३.३५ ॥
我在战场上杀死敌人,迎回遮那克之女之后,难道还能在阿逾陀重新建立王国吗?
3.283.36
अमोक्षयित्वावैदेहीमहत्वा च रणे रिपून् ।
हृतदारोऽवधूतश्चनाहं जीवितुमुत्सहे ॥ ३.२८३.३६ ॥
若我不救回维德黑,又不在战场上杀死敌人,妻子被夺而蒙受耻辱的我,便没有勇气活下去。
3.283.37
इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः ।
प्रियमाख्यामि ते राम दृष्टा सा जानकी मया ॥ ३.२८३.३७ ॥
说完这番话后,风之子对罗摩说:“罗摩,我给你带来一个好消息:我已见到了悉多。”
3.283.38
विचित्य दक्षिणामाशां सपर्वतवनाकराम् ।
श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहां ॥ ३.२८३.३८ ॥
我们在南方搜寻,那里有山脉、森林和矿藏。时间流逝,我们已疲惫不堪,才看见一个大山洞。
3.283.39
प्रविशामो वयं तां तु बहुयोजनमायताम् ।
अन्धकारां सुविपिनां गहनां कीटसेविताम् ॥ ३.२८३.३९ ॥
我们走进那个山洞,它长达许多由旬,充满黑暗,有茂密的森林,幽深,且有许多昆虫出没。
3.283.40
गत्वा सुमहदध्वानमादित्यस् प्रभां ततः ।
दृष्टवन्तः स्म तत्रैवभवनं दिव्यमन्तरा ॥ ३.२८३.४० ॥
走了很长的路之后,我们看见了太阳的光芒;就在那里面,我们又看见了一座神圣的宅第。
3.283.41
गयस् किल दैत्यस् तदा सद्वेश्म राघव ।
तत्रप्रभावती नाम तपोऽतप्यत तापसी ॥ ३.२८३.४१ ॥
罗怙之子啊,据说那时这是一名名叫伽耶的罗刹的住所;在那里,一位名叫毗婆伐蒂的苦行女修行了苦行。
3.283.42
तया दत्तानि भोज्यानिपानानिविविधानि च ।
भुकत्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः ॥ ३.२८३.४२ ॥
我们吃了她所给的各种食物和饮料,恢复了力气,便依照她所指的路继续前行。
3.283.43
निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः ।
समीपे सह्यमलयौ दर्दुरं च महागिरिम् ॥ ३.२८३.४३ ॥
我们离开那片地区,在咸水海附近看到了萨希亚山、马拉亚山,以及名为达度罗的大山。
3.283.44
ततो मलयमारुह्य पश्यन्तो वरुणालयम् ।
कविषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् ॥ ३.२८३.४४ ॥
随后我们登上马拉亚山,望着水神伐楼那的居所(大海),心中极度沮丧、痛苦、疲惫,对生命完全绝望。
3.283.45
अनेकशतविस्तीर्णं योजनानां महोदधिम् ।
तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः ॥ ३.२८३.४५ ॥
思念着这广阔的大海——它绵延数百由旬,是鲸鱼、摩竭鱼与鱼类的居所——我们深感悲痛。
3.283.46
तत्रानशनसंकल्पं कृत्वाऽऽसीना वयं तदा ।
ततः कथान्ते गृध्रस्य जटायोरभवत्कथा ॥ ३.२८३.४६ ॥
我们在那里坐下,发誓绝食。那时谈话结束之际,便引出了秃鹫迦吒游的故事。
3.283.47
ततः पर्वतशृङ्गाभं घोररूपं भयावहम् ।
पक्षिणं दृष्टवन्तः स्म वैनतियेमिवापरम् ॥ ३.२८३.४७ ॥
于是我们看见一只鸟,形如山峰,相貌可怖,令人生畏,仿佛是另一个毗娜提亚(迦楼罗)。
3.283.48
सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत् ।
भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् ॥ ३.२८३.४८ ॥
他想要吃掉我们;随后走近,说道:“喂!是谁在讲述我兄弟迦吒游的故事?”
3.283.49
संपातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः ।
अन्योन्यस्पर्धया रूढावावामदित्यसत्पदम् ॥ ३.२८३.४९ ॥
我是他的长兄,鸟王桑帕提。因为彼此争胜,我们二人向太阳的高位飞去。
3.283.50
ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः ।
तस्मान्मे चिरदृष्टः स भ्राता गृध्रपतः प्रियः ॥ ३.२८३.५० ॥
那时我的两翼被焚,而迦吒由的翅膀未被焚毁。因此我那亲爱的兄弟、禿鹫之王,许久不曾见到了。
3.283.51
निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ ।
द्रष्टुं वीरं न शक्नोमि भ्रातरं वै जटायुषम् ॥ ३.२८३.५१ ॥
双翼已被焚毁,我坠落在这座大山上,无法再见到英勇的兄弟迦吒由。
3.283.52
तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः ।
व्यसनं भवतश्चेदं संक्षेपाद्वै निवेदितम् ॥ ३.२८३.५२ ॥
他正这样说话时,我们告知你们的兄弟已被杀害;你们的这场灾祸已简要地向你们陈述。
3.283.53
स सम्पातिस्तदा राजञ्श्रुत्वासुमहदप्रियम् ।
विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम ॥ ३.२८३.५३ ॥
那时,大王啊,桑帕提听到这极其不幸的消息,心中沮丧,敌人的征服者啊,又向我们发问。
3.283.54
कः सरामः कथं सीता जटायुश्च कथं हतः ।
इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः ॥ ३.२८३.५४ ॥
谁与罗摩同在?悉多如何?迦吒由又是如何被杀的?我想听闻这一切,猴中之杰啊。
3.283.55
तस्याहं सर्वमेवैतद्भवतो व्यसनागमम् ।
प्रायोपवेशने चैवहेतुं विस्तरशोऽब्रुवम् ॥ ३.२८३.५५ ॥
我把你遭难的经过以及绝食至死的原因,都详细地告诉了他。
3.283.56
सोऽस्मानाश्वासयामास वाक्येनानेन पक्षिराट् ।
रावणो विदितो मह्यं लङ्का चास्य महापुरी ॥ ३.२८३.५६ ॥
这位鸟王以这些话安慰了我们。罗波那我是认识的,他的大城楞伽我也知道。
3.283.57
दृष्टापारे समुद्रस्य त्रिकूटगिरिकन्दरे ।
भवित्री तत्र वैदेही न रमेऽस्त्यत्रविचारणा ॥ ३.२८३.५७ ॥
在无边的大海彼岸,三峰山的一个洞穴里,毗提诃女必定在那里。我并不欢喜;此事不容置疑。
3.283.58
इतितस्य वचः श्रुत्वा वयमुत्थाय सत्वराः ।
सागरक्रमणे मन्त्रं मन्त्रयामः परंतप ॥ ३.२८३.५८ ॥
我们听了他的话,急忙起身商议渡过大海之策,哦,灼烧敌人的英雄。
3.283.59
नाध्यवास्यद्यदा कश्चित्सागरस्य विलङ्घनम् ।
ततः पितरमाविश्य पुप्लुवेऽहंमहार्णवम्।
शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् ॥ ३.२८३.५९ ॥
当无人敢于跨越大海时,我祈求父亲相助,纵身跃过这片宽达百由旬的大海,并杀死了水中的罗刹女。
3.283.60
उपवासतपःशीला भर्तृदर्शनलालसा ।
जटिला मलदिग्धाङ्गीकृश दीना तपस्विन ॥ ३.२८३.६० ॥
她专心于禁食与苦行,渴望见到丈夫,头发纠结成束,身上沾满污垢,消瘦而憔悴,是一位苦行女。
3.283.61
निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः ।
उपसृत्याब्रवं चार्यामभिगम्य रहोगताम् ॥ ३.२८३.६१ ॥
我凭种种迹象认出了那位悉多。走近她,我对独坐在僻静处的贤妻说道。
3.283.62
सीते रामस्य दूतोऽहंवानरोमारुतात्मजः ।
त्वद्दर्शनमभिप्रप्सुरिह प्राप्तो विहायसा ॥ ३.२८३.६२ ॥
悉多啊,我是罗摩的使者,一只猴子,风神之子。因想见你,我从空中来到这里。
3.283.63
राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ ।
सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ ॥ ३.२८३.६३ ॥
两位王子,兄弟罗摩与罗什曼那,安好无恙,并受到诸猴族之主须羯哩婆的庇护。
3.283.64
कुशलंत्वाब्रवीद्रामःसीते सौमित्रिणा सह ।
सखिभावाच् सुग्रीवः कुशलं त्वाऽनुपृच्छति ॥ ३.२८३.६४ ॥
罗摩与罗什曼那一同问候了你的安好,悉多啊;须羯哩婆出于友情,也询问你的安好。
3.283.65
क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह ।
प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः ॥ ३.२८३.६५ ॥
你的夫君很快就会与诸猴族一同到来。女神啊,请相信我:我是猴子,不是罗刹。
3.283.66
मुहूर्तमिवच ध्यात्वा सीता मां प्रत्युवाच ह ।
अवैमि त्वांहनूमन्तमविन्ध्यवचनादहम् ॥ ३.२८३.६६ ॥
悉多沉思片刻,回答我说:“由于阿文底耶的话,我知道你是哈努曼。”
3.283.67
अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः ।
कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः ॥ ३.२८३.६७ ॥
啊,大臂者,受长者尊敬的罗刹阿文底耶说起了被像你这样的大臣们环绕的须羯哩婆。
3.283.68
गम्यतामिति चोक्त्वा मां सीता पादादिमं मणिम् ।
घारिता येन वैदेही कालमेतमनिन्दिता ॥ ३.२८३.६८ ॥
悉多说了一声“去吧”,便把这颗宝石给了我;这位无瑕的毗提诃公主曾长久地戴在脚上。
3.283.69
प्रत्ययार्थं कथां चेमां कथयामास जानकी ।
क्षिप्तामिषीकां काकाय चित्रकूटे महागिरौ ॥ ३.२८३.६९ ॥
作为凭证,耆那吉还讲述了这个故事:在大山奇特罗古吒上,有人向一只乌鸦投掷了一根草茎。
3.283.70
भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् ।
एकाक्षिविकलः काकः सुदुष्टात्मा कृतश्चवै ॥ ३.२८३.७० ॥
人中之虎啊,为了作为辨认的标记,那只乌鸦确实被你弄成了独眼,且极为恶毒。
3.283.71
ग्राहयित्वाऽहमात्मानं ततो दग्ध्वाच तां पुरीम् ।
संप्राप्त इतितं रामः प्रियवादिनमार्चयत् ॥ ३.२८३.७१ ॥
我先表明了身份,接着焚毁了那座城市,然后返回。罗摩听后,尊敬了这位说好话的人。