マハーバーラタ · 章 3.287
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.287.1
ततः प्रहस्तः सहसा समभ्येत्य विभीषणम् ।
गदया ताडयामास विनद्य रणकर्कशम् ॥ ३.२८७.१ ॥
その時プラハスタは突然ヴィビーシャナに襲いかかり、戦場で猛々しく吠えて棍棒で彼を打った。
3.287.2
स तयाऽभिहतो धीमान्गदया भीमवेगया ।
नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः ॥ ३.२८७.२ ॥
恐ろしい勢いの棍棒に打たれても、その賢明な大腕の英雄は揺るがず、ヒマラヤのように揺るぎなく立っていた。
3.287.3
ततः प्रगृह्यविपुलां शतघण्टां विभीषणः ।
अनुमन्त्र्य महाशक्तिं चिक्षेपास् शिरः प्रति ॥ ३.२८७.३ ॥
するとヴィビーシャナは、シャタガンタという巨大な神槍を取り、マントラで加持して、その頭めがけて投げつけた。
3.287.4
पतन्त्या स तया वेगाद्राक्षसोऽशनिवेगया ।
हृतोत्तामङ्गो ददृशे वातरुग्ण इव द्रुमः ॥ ३.२८७.४ ॥
雷のような速さで落ちてきたその槍によって、羅刹の頭は断ち切られ、彼は風に折れた木のように見えた。
3.287.5
तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम् ।
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन् ॥ ३.२८७.५ ॥
戦場で殺された夜行の羅刹プラハスタを見て、ドゥームラークシャは猛烈な速さで猿どもに襲いかかった。
3.287.6
तस् मेघोपमं सैन्यमापतद्भीमदर्शनम् ।
दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः ॥ ३.२८७.६ ॥
雲のように、見るも恐ろしい軍勢が襲いかかってくるのを見ただけで、戦場の勇猛な猿の大将たちは突然散り散りになった。
3.287.7
ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुङ्गवान् ।
निर्ययौ कपिशार्दूलो हनूमान्मारुतात्मजः ॥ ३.२८७.७ ॥
そのとき、猿の中の勇者たちが突然散り散りになるのを見て、猿の虎、風の子ハヌマーンが進み出た。
3.287.8
तं दृष्ट्वाऽवस्थितं सङ्ख्ये हरयः पवनात्मजम् ।
महत्या त्वरया राजत्संन्यवर्तन्त सर्वशः ॥ ३.२८७.८ ॥
戦場に揺るがず立つ風の子を見て、王よ、猿たちはみな大急ぎで引き返した。
3.287.9
ततः शब्दो महानासीत्तुमुलो रोमहर्षणः ।
रामरावणसैन्यानामन्योन्यमभिधावताम् ॥ ३.२८७.९ ॥
そのとき、ラーマとラーヴァナの軍勢が互いに襲いかかり、身の毛もよだつ大きな喧騒が起こった。
3.287.10
तस्मिन्प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे ।
क्षूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः ॥ ३.२८७.१० ॥
血の泥濘と化したその恐ろしい戦いが始まると、クシューマラークシャは矢で猿の軍勢を敗走させた。
3.287.11
तं स रक्षोमहामात्रमापतन्तं सपत्नजित् ।
प्रतिजग्राह हनुमांस्तरसा पवनात्मजः ॥ ३.२८७.११ ॥
羅刹の大臣が襲いかかってくるのを見て、敵を打ち破る風の子ハヌマーンはすぐさまこれを迎え撃った。
3.287.12
तयोर्युद्धमभूदधोरं हरिराक्षसवीरयोः ।
जीगीषतोर्युधाऽन्योन्यमिन्द्रप्रह्लादयोरिवं ॥ ३.२८७.१२ ॥
互いに勝利を望んだ猿の英雄と羅刹の英雄の間に、インドラとプラフラーダの戦いのような恐ろしい戦いが起こった。
3.287.13
कगदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम् ।
कपिश्च जघ्निवान्रः सस्कन्धविटपैर्द्रुमैः ॥ ३.२८७.१३ ॥
羅刹は石と鉄の棍棒で猿を打ち、猿も枝や幹のついた木々で彼を打ち返した。
3.287.14
ततस्तमतिकोपेन साश्वं सरथसारथिम् ।
धूम्राक्षमवधीत्क्रुद्धो हनूमान्मारुतात्मजः ॥ ३.२८७.१४ ॥
そこで風神の子ハヌマーンは激怒し、馬・戦車・御者もろとも ダゥームラークシャを殺した。
3.287.15
ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम् ।
हरयो जातविश्रम्भा जघ्नुरन्ये च सैनिकान् ॥ ३.२८७.१५ ॥
最も優れた羅刹ダゥームラークシャが殺されたのを見て、自信を得た猿たちは他の兵士をも打ち倒した。
3.287.16
ते वध्यमाना हरिभिर्बलिभिर्जितकाशिभिः ।
राक्षसा भग्नसंकल्पा लङ्कामभ्यपतन्भयात् ॥ ३.२८७.१६ ॥
勝者の様子を見せる力強い猿たちに打たれた羅刹たちは、意気沮喪して恐れてラン カーへ逃げた。
3.287.17
तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः ।
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ॥ ३.२८७.१७ ॥
都に入った敗残の夜行者たちは、起こったことすべてをありのままにラーヴァナ王へ報告した。
3.287.18
श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि ।
धूम्राक्षं च महेष्वासं ससैन्यं सहराक्षसैः ॥ ३.२८७.१८ ॥
彼らからプラハスタが戦いで殺され、大弓の射手ダゥームラークシャが軍勢と羅刹たちとともに殺されたと聞いて、ラーヴァナは……
3.287.19
सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात् ।
उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः ॥ ३.२८७.१९ ॥
長く深いため息をつき、上座から立ち上がって、クンバカルナに言った。「行動の時が来た。」
3.287.20
इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः ।
शयानमतिनिद्रालुं कुम्भकर्णमबोधयत् ॥ ३.२८७.२० ॥
こう言うと、様々な楽器の大音響によって、深く眠り込んでいたクンバカルナを起こした。
3.287.21
प्रबोध्य महता चैनं यत्नेनाऽऽगतसाध्वसः ।
स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः।
ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम् ॥ ३.२८७.२१ ॥
大変な努力で彼を起こすと、恐れに襲われていたが、今は落ち着いて平静に目覚めて座る羅刹王、十頭の王は、大力のクンバカルナに語った。
3.287.22
धन्योसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी ।
य इदं दारुणं कालं न जानीषे महाभयम् ॥ ३.२८७.२२ ॥
クンバカルナよ、お前はそのような眠りを持つとは幸いだ。だがお前はこの恐ろしい時、大いなる危険を知らないのだ。
3.287.23
एष तीर्त्वाऽर्णवं रामः सेतुना हरिभिः सह ।
अवमत्येह नः सर्वान्करोति कदनं महत् ॥ ३.२८७.२३ ॥
このラーマは猿たちと共に橋を渡って海を越え、ここで我々全員を侮り、大虐殺を行っている。
3.287.24
मया त्वपहृता भार्या सीता नामास्य जानकी ।
तां नेतुं स इहायातो बद्ध्वा सेतुं महार्णवे ॥ ३.२८७.२४ ॥
私は彼の妻、シーターというジャーナキーを奪い去った。彼女を取り戻すため、彼は大海に橋を架けてここに来たのだ。
3.287.25
तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः ।
तस्य नान्यो निहन्ताऽस्ति त्वामृतेशत्रुकर्शन ॥ ३.२८७.२५ ॥
彼によってプラハスタらわが一族の大勢が殺された。敵を砕く者よ、君以外に彼を殺す者はいない。
3.287.26
सदंशितोऽभिनिर्याहि त्वमद्य बलिनांवर ।
रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम ॥ ३.२८७.२६ ॥
甲冑をつけ、今日出陣せよ、力ある者の中の最上者よ。戦いでラーマらすべての敵を打ち倒せ、敵を制する者よ。
3.287.27
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ ।
तौ त्वां बलेन महता सहितावनुयास्यतः ॥ ३.२८७.२७ ॥
ドゥーシャナの弟たち、ヴァジュラヴェーガを砕く二人も、大軍を伴ってあなたに従うでしょう。
3.287.28
इत्युक्त्वा राक्षुसपतिः कुम्भकर्णं तरस्विनम् ।
संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ ॥ ३.२८७.२८ ॥
こう言うとラークシャサの王は、俊足のクンバカルナと、ヴァジュラヴェーガを砕く二人に、なすべきことを命じた。
3.287.29
तथ्त्युक्त्वा युतौ वीरौ रावणं दूषाणानुजौ ।
कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात् ॥ ३.२८७.२९ ॥
「承知した」と言って、ラーヴァナに従う二人の英雄、ドゥーシャナの弟たちは、クンバカルナを先頭に立て、すぐさま都城から出ていった。