摩诃婆罗多 · 章 3.293
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.293.1
एवमेतन्महाबाहो रामेणामिततेजसा ।
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा ॥ ३.२९३.१ ॥
大臂者啊,如此,无量光辉的罗摩往昔因林中流放而遭受了极其可怕的灾难。
3.293.2
मा शुचः परुषव्याघ्र क्षत्रियोसि परंतप ।
बाहुवीर्याश्रयेमार्गे वर्तसे दीप्तनिर्णये ॥ ३.२९३.२ ॥
人中虎啊,不要悲伤。你是刹帝利,灼烧敌人者;依靠臂力,你行走在炽烈决心的道路上。
3.293.3
न हि ते वृजिनं किंचिद्दृश्यते परमण्वपि ।
अस्मिन्मार्गे निपीदेयुः सेन्द्रा अपि सुरासुराः ॥ ३.२९३.३ ॥
在这条路上,对你而言,哪怕极微的灾祸也看不见;在这条路上,即便因陀罗与诸神、阿修罗也可能被压倒。
3.293.4
संहत्य निहतोवृत्रो मरुद्भिर्वज्रपाणिना ।
नमुचिश्चैवदुर्धर्षो दीर्गजिह्वा चराक्षसी ॥ ३.२९३.४ ॥
众风神与持金刚杵的因陀罗合力一击,杀死了弗栗多;难以战胜的那牟其与长舌罗刹女也被杀死。
3.293.5
सहायवति सर्वार्थाः सतिष्ठन्तीह सर्वशः ।
किंनु तस्याजितं सङ्ख्ये यस् भ्राता धनंजयः ॥ ३.२९३.५ ॥
有助手的人,在此一切目标都完全稳固;兄长是财神(阿周那)的人,在战斗中还有什么会不被征服呢?
3.293.6
अयं च बलिनांश्रेष्ठो भीमो भीमपराक्रमाः ।
युवानौ च महेष्वासौ वीरौ माद्रवतीसुतौ ॥ ३.२९३.६ ॥
这位怖军是有力者中最优秀者,勇武可怖;而这两位年轻人,是伟大的弓箭手与英雄,乃摩德丽之子。
3.293.7
एभिः सहायैः कस्मात्त्वं विषीदसि परंतप ।
य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम् ॥ ३.२९३.७ ॥
征服敌人者啊,有这样的助手,你为何沮丧?他们能够战胜持金刚者(因陀罗)的军队,连同风神众。
3.293.8
त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः ।
विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ ॥ ३.२९३.८ ॥
你也将与这些大弓箭手、形如天神的助手一起,在战斗中战胜所有敌人,婆罗多族中的雄牛。
3.293.9
इतश्च त्वमिमां पश्यसैन्धवेन दुरात्मना ।
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः ॥ ३.२९३.९ ॥
从此处看她:她被这些大德者(般度五子)夺回,而之前是恶心的、强大而因勇力自负的信度王所掳走。
3.293.10
आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम् ।
जयद्रथं च राजानं विजितं वशमागतम् ॥ ३.२९३.१० ॥
完成了极其艰难的事迹,德罗波蒂·克利什那被带回,国王阇衍陀罗也被征服,降服归顺。
3.293.11
असहायेन रामेण वैदेही पुनराहृता ।
हत्वासङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम् ॥ ३.२९३.११ ॥
罗摩独自一人,在战场上杀死了威力可怖的罗刹十首王(罗波那),并把悉多重新迎回。
3.293.12
यस् शाखामृगामित्राण्यृक्षाः कालमुखास्तथा ।
जात्यन्तरगता राजन्नेतद्बुद्ध्याऽनुचिन्तय ॥ ३.२९३.१२ ॥
国王啊,请以智慧思考此事:那些猴子与熊,面如死神、化为异类的(罗摩的盟友)。
3.293.13
तस्मात्सर्वं कुरुश्रेष्ठ मा शुचो भरतर्षभ ।
त्वद्विधा हि महात्मानो न शोचन्ति परंतप ॥ ३.२९३.१३ ॥
因此,库卢之最,巴拉塔之牛,莫为任何事而悲伤。灭敌者啊,像你这样的大德之人不悲伤。
3.293.14
एवमाश्वासितो राजामार्कण्डेयेन धीमता ।
त्यक्त्वा दुःखमदीनात्मा पुनरप्येनमब्रवीत् ॥ ३.२९३.१४ ॥
智者摩尔坎德耶如此安慰之后,国王舍弃悲伤,心志不屈,再次对他说道。