摩诃婆罗多 · 章 3.296
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.296.1
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् ।
समानित्ये च तत्सर्वंभाण्डं वैवाहिकं नृपः ॥ ३.२९६.१ ॥
于是国王专心思虑嫁女之事,并聚集了婚礼所需的一切物品。
3.296.2
ततो वृद्धान्द्विजान्सर्वानृत्विक्सभ्यपुरोहितान् ।
समाहूय दिने पुण्ये प्रययौ सह कन्यया ॥ ३.२९६.२ ॥
随后,他召集了所有年长的婆罗门、祭司、议会成员和家族祭司,在吉日与女儿一同出发。
3.296.3
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः ।
पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ॥ ३.२९६.३ ॥
国王来到圣林,与婆罗门们徒步抵达了光明军的隐修处,并走近那位王仙。
3.296.4
तत्रापश्यन्महाभागं सालवृक्षमुपाश्रितम् ।
कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ॥ ३.२९६.४ ॥
他在那里看见那位极有福德的国王,双目失明,坐在吉祥草席上,倚着娑罗树。
3.296.5
स राजा तस्य राजर्षेः कृत्वापूजां यथाऽर्हतः ।
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥ ३.२९६.५ ॥
那位国王如礼敬重那位王仙,言语谨慎,自我介绍。
3.296.6
तस्यार्ध्यमासं चैव गां चावेद्यस धर्मवित् ।
किमागमनमित्येवं राजा राजानमब्रवीत् ॥ ३.२९६.६ ॥
精通法度的王仙向他奉上迎宾水、座位和一头牛,然后问国王:“您前来的原因是什么?”
3.296.7
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम् ।
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ॥ ३.२९६.७ ॥
他将自己的全部意图和应采取的行动,就萨提耶瓦特一事向对方全部禀告。
3.296.8
सावित्री नाम राजर्षे कन्येयं मम शोभना ।
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥ ३.२९६.८ ॥
王中仙人啊,这是我美丽的女儿,名叫萨维特丽。精通法义的人啊,请依你自己的法,将她收为你的儿媳吧。
3.296.9
च्युताः स्म राज्याद्वनवासमाश्रिता-
श्चराम धर्मं नियतास्तपस्विनः।
कथं त्वनर्हा वनवासमाश्रमे ।
सहिष्यति क्लेशमिमं सुता तव ॥ ३.२९६.९ ॥
我们已失去王国,在森林中寻求庇护,遵循法度过着苦行者的生活。那么,不适应林中生活的你的女儿,将如何在修道院中忍受这种苦难呢?
3.296.10
सुखं च दुःखं च भवाभवात्मकं ।
यदा विजानाति सुताऽहमेव च।
न मद्विधे युज्यतेवाक्यमीदृशं ।
विनिश्चयेनाभिगतोस्मि ते नृप ॥ ३.२९६.१० ॥
当我的女儿和我自己都明白,由有与无构成的苦乐本就如此时,像我这样的人说出这样的话是不合适的。国王啊,我怀着坚定的决心来到你面前。
3.296.11
आशां नार्हसि मे हन्तुं सौहृदात्प्रणतस्य च ।
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न माऽर्हसि ॥ ३.२९६.११ ॥
我因友情而向你俯首,你不应摧毁我的希望。我怀着爱意从四面八方来到你这里,你也不应拒绝我。
3.296.12
अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च ।
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतस्ततः ॥ ३.२९६.१२ ॥
你与我相配且值得,我也与你相配。因此,请将我的女儿收为萨提耶瓦特的妻子,作为你的儿媳。
3.296.13
पूर्वमेवाभिलवितः संबन्धो मे त्वया सह ।
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ॥ ३.२९६.१३ ॥
我早已希望与你结成姻亲;但因我已失去王国,此事便被再三考虑。
3.296.14
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः ।
स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ॥ ३.२९६.१४ ॥
愿我早已所愿之事今日便能成就;因为你正是我所期望的人,也是我的客人。
3.296.15
ततः सर्वान्समानाय्य द्विजानाश्रमवासिनः ।
यथाविधि समुद्वाहं कारयामासतुर्नृपौ ॥ ३.२९६.१५ ॥
于是,召集了住在修行处的所有再生者,两位国王便依法举行了婚礼。
3.296.16
दत्त्वा सोऽश्वपतिः कन्यां यथार्हं सपरिच्छदम् ।
ययौ स्वमेव भवनं युक्तः परमया मुदा ॥ ३.२९६.१६ ॥
阿湿婆跋提以相称的嫁妆与随从将女儿交付,满怀至上的喜悦,回到自己的府邸。
3.296.17
सत्यवानपि तां भार्यां लब्ध्वा सर्वगुणान्विताम् ।
मुमुदे सा रच रतं लब्ध्वा भर्तारं मनसेप्सितम् ॥ ३.२९६.१७ ॥
萨提耶瓦特得到这位具备一切美德的妻子,也十分欢喜;她得到心中所愿的丈夫,也十分欢喜。
3.296.18
गते पितरि सर्वाणि संन्यस्याभरणानि सा ।
जगृहेवल्कलान्येव वस्त्रं काषायमेव च ॥ ३.२९६.१८ ॥
父亲离去后,她摒弃了所有饰物,只穿树皮衣和赭色的布衣。
3.296.19
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च ।
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे ॥ ३.२९६.१९ ॥
她以侍奉、德行、谦逊与克制,并满足所有人的一切愿望,使众人都感到满意。
3.296.20
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः ।
श्वशुरं देवसत्कारैर्वाचः संयमनेन च ॥ ३.२९६.२० ॥
她以照料身体、衣物等一切事物令婆婆欢喜,以如敬神般的尊敬与谨慎的言语令公公欢喜。
3.296.21
तथैव प्रियवादेन नैषुणेन शमेन च ।
रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ॥ ३.२९६.२१ ॥
她同样以温言、机敏、平和,以及私下里的殷勤侍奉,令丈夫完全满意。
3.296.22
एवं तत्राश्रमे तेषां तदा निवसतां सताम् ।
कालस्तपस्यतां कश्चिदपाक्रामत भारत ॥ ३.२९६.२२ ॥
就这样,在那座净修林中,这些修行的善人生活着,过了一段时间,婆罗多之子啊。
3.296.23
सावित्र्याग्लायमानायास्तिष्ठन्त्यास्तु दिवानिशम ।
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥ ३.२९६.२३ ॥
萨维特丽日夜站立而不疲倦,她心中仍记着那泥萨扬纳罗陀所说的话。