摩诃婆罗多 · 章 3.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.3.1
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिः ।
प्रणम्य द्विजशार्दूलं पूज्यवाक्यं सुभाषितम्।
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीषिदम् ॥ ३.३.१ ॥
首陀迦如此说罢,昆提之子坚战向再生者中的俊杰行礼,走近自己的家传祭司,在兄弟们中间说了这番话。
3.3.2
प्रस्थिताननुयातारो ब्राह्मणा वेदपारनाः ।
न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः ॥ ३.३.२ ॥
已精通吠陀的婆罗门跟随着离去的人;我无力供养他们,我深受重重苦难。
3.3.3
परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे ।
कथमत्र मया कार्यं तद्बूहि भगवन्मम ॥ ३.३.३ ॥
我既不能舍弃他们,也无施舍之力。尊者啊,请告诉我此时我该如何做。
3.3.4
मुहूर्तमिव स ध्यात्वा धर्मेणान्वीक्ष्य तां गतिम् ।
युधिष्ठिरमुवाचैदं धौम्यो धर्मभृतां वरः ॥ ३.३.४ ॥
他沉思片刻,以法之眼审视那条道路,持守法者中的俊杰达乌摩便对坚战说了这些话。
3.3.5
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् ।
ततोऽनुकम्पंयां तेषां सविता स्वपिता यथा ॥ ३.३.५ ॥
往昔所造的众生极度饱受饥饿之苦;于是萨维特利出于怜悯,如同他们自己的父亲一般。
3.3.6
गत्वोत्तसयणं तेजो रसानुद्धृत्य रश्मिभिः ।
दक्षिणायनमावृत्तो महीं वर्षति वारिणा ॥ ३.३.६ ॥
他行至北行之路,以光辉借光线吸取精华;转向南行之路后,便以水降雨于大地。
3.3.7
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीयतिः ।
रवेस्तेजः समुद्धृत्य जनयामास वारिणा ॥ ३.३.७ ॥
于是,在那成为田地的大地上,他汲取太阳的热力与水一同升起,使草药生长。
3.3.8
निषिक्तश्चन्द्रतेजोभिः सूयते जगतो रविः ।
ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ॥ ३.३.८ ॥
被月光浸润,太阳为世界而生;六味的神圣草药,便是大地上众生的食物。
3.3.9
एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् ।
नाथोऽयं सर्वभूतानां तस्मात्तं शरणं व्रज ॥ ३.३.९ ॥
如此,由太阳所成的食物维持众生的生命;此人是一切众生之主,因此你应当归依于他。
3.3.10
राजानो हि महात्मानो योनिकर्मविशोधिताः ।
उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ॥ ३.३.१० ॥
因为,出身与行为皆得清净的伟大君王,修习圆满的苦行,能提拔所有的臣民。
3.3.11
भौमेन कार्तवीर्येण वैन्येन नहुषेण च ।
तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ॥ ३.३.११ ॥
薄摩、迦尔塔维利耶、吠因亚与那呼沙,安住于苦行、瑜伽与三昧之中,救拔了陷于灾难的臣民。
3.3.12
तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः ।
तप आस्थाय धर्मेण द्विजातीन्भर भारत ॥ ३.३.१२ ॥
你也是如此,正法之心者,已因行为而清净,应修习苦行,依正法扶养再生者,婆罗多之后裔啊。
3.3.13
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः ।
ततस्त्वध्यापयामास मन्त्रं सर्वार्थसाधकम्।
अष्टाक्षरं परं मन्त्रमार्तस्य सततं प्रियम् ॥ ३.३.१३ ॥
德弥耶如此说后,他听到了切合时宜的话语。随后他传授了成就一切目标的咒语,即八音节的最高咒语,常为苦恼者所喜爱。
3.3.14
विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः ।
धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ॥ ३.३.१४ ॥
安住于定中,远离婆罗门的陪伴,自制其心,坚守誓愿,心灵清净的法王开始了至高的苦行。
3.3.15
पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् ।
सोऽवगाह्य जलं राजा देवस्याभिमुखोऽभवत् ॥ ३.३.१५ ॥
以花供和祭品礼敬太阳后,国王入水沐浴,面向神明而立。
3.3.16
गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान् ।
शुचिः प्रयतवाग्भूत्वा स्तोत्रमारब्धवांस्ततः ॥ ३.३.१६ ॥
以恒河水漱口,屏息而立,身心清净、言语收敛之后,他便开始诵唱赞歌。
3.3.17
त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम् ।
त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावतां ॥ ३.३.१७ ॥
光明之主啊,你是世界之眼,你是一切有身者的自我。你是一切众生的根源,你是行动者的品行。
3.3.18
त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम् ।
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ॥ ३.३.१८ ॥
你是一切数论者的归宿,是瑜伽行者的至高皈依。你是门闩未闭的门扉,你是求解脱者的归宿。
3.3.19
त्वया संधार्यते लोकस्त्वया लोकः प्रकाश्यते ।
त्वयापवित्रीक्रियते निर्व्याजं पाल्यते त्वया ॥ ३.३.१९ ॥
世界由你维持,世界由你照亮。由你使其清净;无欺地,由你守护它。
3.3.20
त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः ।
स्वशाखाविहितैर्मन्त्रैरर्चन्त्यृषिगणार्चित ॥ ३.३.२० ॥
精通吠陀的婆罗门在适当的时候来到你面前,以各自传承(支派)中规定的咒语礼拜你;哦,受诸仙众尊崇者。
3.3.21
तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः ।
सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः ॥ ३.३.२१ ॥
当你的神车前行时,求取恩惠的悉陀、遮罗那与乾闼婆,以及夜叉、隐秘者与龙蛇随之而行。
3.3.22
त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः ।
सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वासिद्धिमागताः ॥ ३.३.२२ ॥
三十三天神、空行诸众,连同优般陀罗与摩诃因陀罗,皆因祭祀你而获得成就。
3.3.23
उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः ।
दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः ॥ ३.३.२३ ॥
崇拜你之后,愿望已成就的诸位最胜持明者,手持天界曼陀罗花鬘,迅速来到你面前。
3.3.24
गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः ।
ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम् ॥ ३.३.२४ ॥
七群隐秘的祖灵,无论是天界还是人间的,都只因礼拜你而迅速获得至高地位。
3.3.25
वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः ।
वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः ॥ ३.३.२५ ॥
诸婆苏、摩噜多、楼陀罗、萨陀耶、饮日光者、缚罗希利耶及其他悉陀,已在众生中获得尊贵。
3.3.26
सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च ।
न तद्भूतमहं मन्ये यदर्कादतिरिच्यते ॥ ३.३.२६ ॥
即使在包括梵天界在内的七界以及一切世界中,我也认为没有任何存在能超过太阳。
3.3.27
सन्ति चान्यानि सत्वानिवीर्यवन्ति महान्ति च ।
न तु तेषां तथा दीप्तिः प्रभावो वायथा तव ॥ ३.३.२७ ॥
还有其他强大伟大的生灵,但他们没有你那样的光辉与威力。
3.3.28
ज्योतीषित्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः ।
त्वयिसत्त्वं च सत्त्वं च सर्वेभावाश्च सात्त्विकाः ॥ ३.३.२८ ॥
一切光明皆在你之中,你是一切光明之主。你之中有本质、善性,以及一切悉多性的存在状态。
3.3.29
त्वत्तेजसा कृतंचक्रं सुनाभं विश्वकर्मणा ।
देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ॥ ३.३.२९ ॥
借你的光辉,毗首羯磨造出名为苏那婆的轮,持沙尔狼弓者以此摧毁了诸天之敌的傲慢。
3.3.30
त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम् ।
सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि ॥ ३.३.३० ॥
你在炎夏以光线摄取一切有身生灵的热力,在雨季又将一切草药的汁液重新释放。
3.3.31
तपन्त्यन्ते दहन्त्यन्ये गर्जन्त्यन्ये तथा घनाः ।
विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः ॥ ३.३.३१ ॥
你的光线有的在傍晚灼热,有的燃烧,云也随之轰鸣;在雨季,你的光芒闪耀并降下雨水。
3.3.32
न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः ।
शीतवातार्दितं लोकं यथा तव मरीचयः ॥ ३.३.३२ ॥
火焰、斗篷或毯子都不能像你的光线那样,使被寒风折磨的世界感到欢喜。
3.3.33
त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् ।
त्रयाणामपि लोकानां हितायैकः प्रवर्तसे ॥ ३.३.३३ ॥
你以光线照亮拥有十三洲的大地;为了三界的福祉,唯有你独自运行。
3.3.34
तव यद्युदयो न स्यादन्धं जगदिदं भवेत् ।
न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः ॥ ३.३.३४ ॥
若没有你的升起,这个世界将成为盲目的,智者也不会致力于法、利与欲。
3.3.35
आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः ।
त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः ॥ ३.३.३५ ॥
点燃圣火、献祭牲畜、伊斯提祭、咒语祭与苦行等仪式,因你的恩典而由婆罗门、刹帝利、吠舍等群体所成就。
3.3.36
यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसंमितम् ।
तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः ॥ ३.३.३६ ॥
梵天之日据说等于千个由时,你是它的开端与终结,这是知时者所宣告的。
3.3.37
मनूनां मनुपुत्राणां जगतोऽमानवस्य च ।
मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ॥ ३.३.३७ ॥
您是诸摩奴、摩奴之子、世界与非人的主宰,也是一切摩晚多罗与诸主的主宰。
3.3.38
संहारकाले संप्राप्ते तव क्रोधविनिःसृतः ।
संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते ॥ ३.३.३८ ॥
当毁灭之时来临,从您的愤怒中发出的劫火,将三界化为灰烬后仍然矗立。
3.3.39
त्वद्दीधितिसमुत्पन्ना नानावर्ण महाघनाः ।
सैरावताः साशनयः कुर्वन्त्याभूतसंप्लवम् ॥ ३.३.३९ ॥
由您的光芒所生、色彩各异的巨大云团,如同爱罗婆多象,伴着雷电,造成众生毁灭的大洪水。
3.3.40
कृत्वा द्वादशधाऽऽत्मानं द्वादशादित्यतां गतः ।
संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः ॥ ३.३.४० ॥
您化身为十二份,成为十二位阿迪底耶;将一切收敛于一片大海,然后以光芒将其烤干。
3.3.41
त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः ।
त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्मशाश्वतं ॥ ३.३.४१ ॥
人们称您为因陀罗;您是楼陀罗,您是毗湿奴,您是生主;您是火神,您是微妙之心,您是主宰,您是永恒的梵。
3.3.42
त्वं हंसः सविता भानुरंशुमाली वृषाकपिः ।
विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च ॥ ३.३.४२ ॥
您是天鹅、萨维特里、婆努、光鬘、毗湿陀迦毗;您也是毗婆娑、弥希罗、普鲁善、弥多罗和法。
3.3.43
सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः ।
मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा ॥ ३.३.४३ ॥
你是千道光芒者,阿底提之子阿迪底耶,灼热者;你是牛(光线)的主宰。你也被称为摩呾陀、阿迦、罗毗、苏利耶、舍罗尼耶,以及造日者。
3.3.44
दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः ।
आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे ॥ ३.३.४४ ॥
你被称为昼作者、七马者、光发者、毗卢遮那、疾行者、除暗者,以及黄马者。
3.3.45
सप्तम्यागथवा षष्ठ्यां भक्त्या पूजां करोति यः ।
अनिर्विण्णोऽनहंकारी तं लक्ष्मीर्भजते नरम् ॥ ३.३.४५ ॥
在第七日或第六日以虔诚供奉、不气馁、无傲慢之人,吉祥天女便眷顾此人。
3.3.46
न तेषामापदः सन्ति नाधयो व्याधयस्तथा ।
ये तवानन्यमनसा कुर्वन्त्यर्चनवन्दनम् ॥ ३.३.४६ ॥
对于以专一之心供奉、礼敬你的人,既无灾祸,也无心苦,亦无身病。
3.3.47
सर्वरोगैर्विरहिताः सर्वपापाविवर्जिताः ।
त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः ॥ ३.३.४७ ॥
信奉你之本性的人,免除一切疾病,远离一切罪过,安乐而长寿。
3.3.48
त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः ।
अन्नमन्नपते दातुमभितः श्रद्धयाऽर्हसि ॥ ३.३.४८ ॥
食之主啊,我愿向你尽全部待客之礼,你应当以信心赐我食物。
3.3.49
येच तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः ।
माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान् ॥ ३.३.४९ ॥
我敬拜所有在你足下寻求庇护的随从——摩陀罗、阿鲁那、檀达等,以及如雷霆般的克输跋。
3.3.50
क्षुभया सहिता मैत्री याश्चान्या भूतमातरः ।
ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ॥ ३.३.५० ॥
我敬拜与克输跋同在的慈心,以及其余诸众生之母;愿她们都护佑我这前来寻求庇护的人。
3.3.51
कण्ठदघ्ने जले स्थित्वा मन्त्रैः स्तोत्रैश्च तोषितः ।
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम्।
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ॥ ३.३.५१ ॥
他站在及颈的水中,以咒语和颂歌使其欢喜;于是日神(昼日主)欢喜,以自身之形显现于般度子,光明如祭火燃烧。
3.3.52
यत्तेऽभिलषितं किंचित्तत्त्वं सर्वमवाप्स्यसि ।
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ॥ ३.३.५२ ॥
凡你所愿,你都将获得。我将给你食物,为期七年又五年。
3.3.53
गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप ।
यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत ॥ ३.३.५३ ॥
王中之主,请接受我所赠的这只铜器;善誓者啊,只要般遮利用此器维持生活。
3.3.54
फलमूलामिषं शाकं संस्कृतं यन्महानसे ।
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति।
इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि ॥ ३.३.५४ ॥
果实、根茎、肉食与蔬菜——凡在厨房中烹制的,这四类食物与饮食对你将永不耗尽。从此起,在第十四年,你将重新获得王国。
3.3.55
एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत ॥ ३.३.५५ ॥
世尊如此说完,便在那里消失了。
3.3.56
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् ।
जग्राह पादौ धौम्यस्य भ्रातॄंश्च परिषस्वजे ॥ ३.३.५६ ॥
得到恩赐后,精通法的贡蒂之子从水中起身,抱住驮摩的双脚,并拥抱了诸位兄弟。
3.3.57
द्रौपद्या सह-संगम्य पश्यमानोऽपयात्प्राभुः ।
महानसे तदान्नं तु साधयामास पाण्डवः ॥ ३.३.५७ ॥
主神与德罗跋提相会并观看之后便离去了;随后般度之子在厨房中烹制了那些食物。
3.3.58
संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम् ।
अक्षय्यं वर्धते चान्नं तेनाभोजयत द्विजान् ॥ ३.३.५८ ॥
煮好的少量四种食物会增长;不竭的食物不断增多,他用它款待了再生者。
3.3.59
भुक्तवत्सु च विप्रेषु भोजयित्वाऽनुजानपि ।
शेषं विघससंज्ञं तुपश्चाद्भुङ्क्ते युधिष्ठिरः ॥ ३.३.५९ ॥
婆罗门进食之后,幼弟也已被供养,剩下的称为“毗伽萨”,之后由坚战食用。
3.3.60
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती ।
द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च ॥ ३.३.६० ॥
喂饱坚战之后,般遮罗之女食用剩余的食物;当德罗跋提进食时,那食物便减少。
3.3.61
एवं दिवाकरात्प्राप्य दिवाकरसमप्रभः ।
कामान्मनोभिलषितान्ब्राह्मणेभ्योऽददात्प्रभुः ॥ ३.३.६१ ॥
如此,他从太阳处得到此物后,这位光辉如太阳的君主,把心中所愿的诸般欲望施予婆罗门。
3.3.62
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु ।
इज्यार्थे संप्रवर्तन्ते विधिमन्त्रप्रमाणतः ॥ ३.३.६२ ॥
在домашние 祭司带领下,于月日、星宿与节日,依仪轨、咒语与经典权威而举行祭祀。
3.3.63
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः ।
द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम् ॥ ३.३.६३ ॥
随后,在完成吉祥祝福的仪式后,般度五子与达乌米亚一同,在婆罗门众的簇拥下,前往迦ミヤカ森林。
3.3.64
पुष्पोपहारबलिभिर्बहुशश्च यथाविधि ।
सर्वात्मभूतं संपूज्य यतप्राणो जितेन्द्रियः ॥ ३.३.६४ ॥
依照仪轨,多次以花、供物与祭品,恭敬供养一切众生之自我,克制呼吸,调伏诸根。
3.3.65
स्तवेन केन विप्रर्षे स तु राजा युधिष्ठिरः ।
विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ॥ ३.३.६५ ॥
婆罗门仙人啊,那位国王坚战为了婆罗门,用什么赞歌礼拜了威力非凡的太阳?
3.3.66
मयि स्नेहोऽस्ति चेद्ब्रह्मन्यद्यनुग्रहभागहम् ।
भगवन्नास्ति चेद्गुद्यं तच्च मे ब्रूहि सांप्रतम् ॥ ३.३.६६ ॥
婆罗门啊,若您对我有慈爱,若我堪受恩惠,尊者啊,若有秘密,现在就请告诉我。
3.3.67
शृणुष्वांवहितो राजञ्शुचिर्भूत्वा समाहितः ।
क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ॥ ३.३.६७ ॥
国王啊,请净心专注地倾听。王中之王啊,请稍加留意;我将告诉你一个对你有益的秘密。
3.3.68
धौम्येन तु यथाप्रोक्तं पार्थाय सुमहात्मने ।
नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ॥ ३.३.६८ ॥
正如陀乌米亚所说,神圣的一百零八个名号传授给了大德的普利塔之子。国王啊,请听。
3.3.69
सूर्योऽर्यभा भगस्त्वष्टा पूषाऽर्कः सविता रविः ।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ ३.३.६९ ॥
太阳、阿利耶跋、薄伽、特瓦湿多、普莎、阿迦、萨维塔、罗毗、伽婆私底曼、不生者、时间、死亡、创造者与光明创造者。
3.3.70
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ ३.३.७० ॥
地、水、火、空、风以及至高的归依处;还有月神苏摩、木星布里哈斯帕蒂、金星输迦罗、水星钵陀,以及火星安伽罗迦。
3.3.71
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः ।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ ३.३.७१ ॥
因陀罗、毗婆娑婆、放光者、清净者、慈护、土星沙尼、梵天、毗湿奴与楼陀罗、室建陀、毗沙门天,以及阎摩。
3.3.72
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।
धर्मध्वजो वेदकर्ता वेगाङ्गो वेदवाहनः ॥ ३.३.७२ ॥
生于闪电者、居于腹中者,即火神;生于薪柴者;光明之主;法之旗帜;吠陀的创作者;迅疾肢体者;以吠陀为乘骑者。
3.3.73
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।
कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ॥ ३.३.७३ ॥
克利多、特列塔、德瓦帕拉与迦利,是一切不死者的庇护;迦腊、迦湿陀、牟呼栗多、半月、月份以及季节亦然。
3.3.74
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ ३.३.७४ ॥
造年者、阿湿婆陀树、时轮、光明者;永恒的补鲁沙、瑜伽士、显与不显、永久者。
3.3.75
लोकाध्यक्षः सुराध्यक्षो विश्वकर्मा तमोनुदः ।
वरुणः सागरोंशश्च जीमूतो जीवनोऽरिहा ॥ ३.३.७५ ॥
世界之主、诸天之主、毗首羯摩、驱除黑暗者;伐楼那、大海之分、云、生命之赐予者、敌人之杀灭者。
3.3.76
भूताश्रयो भूतपति- सर्वभूतनिषेवितः ।
मणिः सुवर्णो भूतात्मा कामदः सर्वतोमुखः।
स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः ॥ ३.३.७६ ॥
众生之依止、众生之主、一切众生所侍奉者;摩尼宝、金色者、众生之我、满足欲望者、面向一切方向者;创造者、毁灭者、火、一切之始、无贪者。
3.3.77
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।
जयो विशालो वरदः सर्वधातुनिषेचिता ॥ ३.३.७७ ॥
无尽者、迦毗罗、太阳、满足欲望者、面向一切方向者;胜利者、广大者、赐恩者、被一切元素灌注者。
3.3.78
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः ।
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ ३.३.७८ ॥
意、善翅者、众生之始、迅捷者、持命者;持国医王、彗星、原始天神、提提之子。
3.3.79
द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ ३.३.७९ ॥
他具十二形,眼如莲花,是父,是母,是祖父;他是天界之门,子嗣之门,解脱之门,三界。
3.3.80
देवकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः ॥ ३.३.८० ॥
他是诸神的创造者,寂静的自我,宇宙的自我,面向四方;他是动与不动之物的自我,微妙的自我,具有友善之形。
3.3.81
एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः ।
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥ ३.३.८१ ॥
这是值得称颂、光辉无量的太阳的一百零八个圣名,由大德帝释天所说。
3.3.82
शक्राच्च नारदः प्राप्तो धौम्यश्च तदन्तरम् ।
धौम्याद्युधिष्ठरः प्राप्य सर्वान्कमानवाप्तवान् ॥ ३.३.८२ ॥
从帝释天处,那罗陀获得;其后达乌米亚获得;从达乌米亚处,坚战获得后,得到了一切所愿。
3.3.83
सुरगणपितृयक्षसेवितं ।
ह्यसुरनिशाचरसिद्धवन्दितम्।
वरकनकहुताशनप्रभं ।
त्वमपि मनस्यभिधेहि भास्करम् ॥ ३.३.८३ ॥
诸神、祖灵与夜叉所侍奉,阿修罗、夜行者与悉陀所礼敬,光辉如上等金与祭火,太阳——你也在心中诵念他。
3.3.84
सूर्योदये यः सुसमाहितः पठे-
त्त पुत्रदारान्धनरत्नसंचयान्।
लभेत जातिस्मरतां नरः सदा ।
धृतिं च मेधां च स विन्दते पुमान् ॥ ३.३.८४ ॥
人若在日出时专注诵读此经,便能获得子嗣、妻室、财富与珍宝的积聚;他常得宿世忆念,并获得坚定与智慧。
3.3.85
इमं स्तवं देववरस्य यो नरः ।
प्रकीर्तयेच्छुचिसुमनाः समाहितः।
स मुच्यते शोकदवाग्निसागरा-
ल्लभेत कामान्मनसा यथेप्सितान् ॥ ३.३.८५ ॥
人若心地清净、专注,诵念此赞歌以赞颂诸神中最优者,便能脱离忧愁的森林大火与苦海,并在心中获得所愿的诸般欲望。
3.3.86
इमं स्तवं प्रयतमनाः समाधिना ।
पछेदिहान्योऽपि वरं समर्थयन्।
तत्त्स्य दद्याच्च रविर्मनीषितं ।
तदाऽऽप्नुयाद्यद्यपि तत्सुदुर्लभम् ॥ ३.३.८६ ॥
若此处另有人以调伏的心、专注地诵读此赞歌并祈求恩赐,太阳便会赐予他所愿;即使极难得到,他也能获得。
3.3.87
यश्चेदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्।
विद्यार्थी लभते विद्यां पुरुषोप्यथवा स्त्रियः ॥ ३.३.८७ ॥
无论男女,若常常记诵此赞或反复聆听:求子者得子,求财者得财,求学者得学。
3.3.88
उभे संध्ये पठेन्नित्यं नारी वा पुरुषो यदि ।
आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् ॥ ३.३.८८ ॥
无论男女,若于晨昏两时常常诵念此赞,即使陷入灾难也能脱困;被缚者也能脱离束缚。
3.3.89
संग्रामे च जयेन्नित्यं विपुलं चाप्नुयाद्वसु ।
मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति ॥ ३.३.८९ ॥
于战阵中常常获胜,并得丰厚财富;他脱离一切罪业,往生太阳之界。