摩诃婆罗多 · 章 3.301
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.301.1
यत्तत्तदा महद्ब्रह्मँल्लोमशो वाक्यमब्रवीत् ।
इन्द्रस्य वचनादेव पाण्डुपुत्रं युधिष्ठिरम् ॥ ३.३०१.१ ॥
婆罗门啊,那时罗摩舍奉因陀罗之命,对般度之子坚战说了什么伟大的话?
3.301.2
यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित् ।
तच्चाप्यपहरिष्यामि धनंजय इतो गते ॥ ३.३०१.२ ॥
你那强烈的恐惧,你从不提起的,待财主(阿周那)离开此地后,我也将为你除去。
3.301.3
किंनु रतज्जपतांश्रेष्ठ कर्णं प्रति महद्भयम् ।
आसीन्न च स धर्मात्मा कथयामास कस्यचित् ॥ ३.३०१.३ ॥
诵读者中的最优者啊,那么关于迦尔纳的那大恐惧究竟是什么?那位正直之人从未告诉过任何人。
3.301.4
अहं ते राजशार्दूल कथयामि कथामिमाम् ।
पृच्छतो भरतश्रेष्ठ शुश्रूषस्व गिरं मम ॥ ३.३०१.४ ॥
君中之虎啊,婆罗多中最优者啊,既然你问,我便将此事讲给你听;请专心听我的话。
3.301.5
द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे ।
पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः ॥ ३.३०१.५ ॥
十二年已过,第十三年到来时,为般度之子谋利的帝释天决定向迦尔纳乞求布施。
3.301.6
अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः ।
कुण्डलार्थे महाराज सूर्यः कर्णमुपागतः ॥ ३.३०१.६ ॥
大王啊,毗婆娑(太阳)得知摩希因陀罗的意图,为耳环之故来到迦尔纳身边。
3.301.7
महार्हे शयने वीरं स्पर्द्ध्यास्तरणसंवृते ।
शयानमतिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् ॥ ३.३०१.७ ॥
在珍贵的床榻上,覆盖着令人艳羡的毯子,英雄躺着,全然信任,敬重婆罗门,言语真实。
3.301.8
स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान् ।
कृपया परयाऽऽविष्टः पुत्रस्नेहाच्च भारत ॥ ३.३०१.८ ॥
王中之王啊,婆罗多之后!夜将尽时,光芒四射者在梦中显现,被至高的慈悲与对儿子的爱所感动。
3.301.9
ब्राह्मणो वेदविद्भूत्वा सूर्यो योगर्द्धिरूपवान् ।
हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः ॥ ३.३०१.९ ॥
化作精通吠陀的婆罗门,以瑜伽神通之形的太阳,为了迦尔纳的利益,先以安慰之语说了这些话。
3.301.10
कर्ण मद्वचनं तात शृणु सत्यभृतांवर ।
ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम् ॥ ३.३०१.१० ॥
迦尔纳啊,听我的话,亲爱的孩子,持守真理者中最优秀的,大臂者!今日出于友谊,我要对你说最高的利益。
3.301.11
उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया ।
ब्राह्मणच्छद्मना कर्ण कुण्डलोपजिहीर्षया ॥ ३.३०१.११ ॥
因陀罗为了般度五子的利益,将以婆罗门的伪装来到你这里,迦尔纳啊,他想夺取你的耳环。
3.301.12
विदितं तेन शीलं ते सर्वस्य जगतस्तथा ।
यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे ॥ ३.३०१.१२ ॥
他知道你的品性,整个世界也知道:当善人向你乞求时,你便施与;你自己却从不乞求。
3.301.13
त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितम् ।
वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कस्यचित् ॥ ३.३०१.१३ ॥
亲爱的孩子,你必定把婆罗门所求的给予,凡被称为财富或其他之物,你从不拒绝任何人。
3.301.14
त्वां तु चैवंविधं ज्ञात्वा स्वयं वै पाकशासनः ।
आगन्ता रकुण्डलार्थाय कवचं चैव भिक्षितुम् ॥ ३.३०१.१४ ॥
他知道你是这样的人,帕卡的惩罚者因陀罗自己将前来乞求耳环,也乞求铠甲。
3.301.15
तस्मै प्रयाचमानाय न देये कुण्डले त्वया ।
अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम् ॥ ३.३०१.१५ ॥
即使他乞求,你也不应把耳环给他;应竭尽你的力量安抚他,因为这才是你的至善。
3.301.16
कुण्डलार्थेऽब्रुवंस्तात कारणैर्बहुभिस्त्वया ।
अन्यैर्बहुविधैर्वित्तैः सन्निवार्यः पुनःपुनः ॥ ३.३०१.१६ ॥
亲爱的孩子,关于耳环,他会以许多理由对你说;应以各种其他财富,一次又一次地阻止他。
3.301.17
रत्नैः स्त्रीभिस्तथा गोभिर्धनैर्बहुविधैरपि ।
निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः ॥ ३.३०१.१७ ॥
用珠宝、女子、同样还有牛群、各种财富,以及许多例子,渴望耳环的破城者因陀罗,将设法诱惑你。
3.301.18
यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे ।
आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपैष्यसि ॥ ३.३०१.१८ ॥
迦尔纳啊,如果你把与生俱来的吉祥耳环给出去,你将走向寿命的终结,落入死亡的掌控。
3.301.19
कवचेन समायुक्तः कुण्डलाभ्यां च मानद ।
अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम ॥ ३.३०१.१९ ॥
啊,赐予尊荣者!你若身披甲胄并佩戴耳环,便将在战场上不为敌人所杀;请记住我的话。
3.301.20
अमृतादुत्थितं ह्येतदुभयं रत्नसंमितम् ।
तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव ॥ ३.३०१.२० ॥
这两件从甘露中生出,犹如宝石;因此,迦尔纳啊,若你珍惜自己的性命,就应当守护它们。
3.301.21
को मामेवं भवान्प्राह दर्शयन्सौहृदं परम् ।
कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक् ॥ ३.३०१.२१ ॥
你显示至高的友情如此对我说话,你是谁?尊贵者啊,请说明你是谁,你身为婆罗门的装扮是为何?
3.301.22
अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये ।
कुरुष्वैतद्वयो मे त्वमेतच्छ्रेयः परं हि ते ॥ ३.३०१.२२ ॥
孩子,我是千光者(太阳);出于友情我向你显明此事。请照我的话去做,因为这对你是至高的善。
3.301.23
श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः ।
प्रवक्ताऽद्य हितान्वेषी शृणु चेदं वचो मम ॥ ३.३०१.२३ ॥
对我而言,我的主宰是光线之主太阳,这确实是至上的善。今日为我的利益而说话的你,请听;也请听我这句话。
3.301.24
प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम् ।
न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः ॥ ३.३०१.२४ ॥
赐予恩惠者啊,我恳请您,出于深情而说:如果我是您所爱的,就请不要使我放弃这一誓愿。
3.301.25
व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नं विभावसो ।
यथाऽहं द्विजमुख्येभ्यो दद्यां प्राणानपिध्रुवम् ॥ ३.३०१.२५ ॥
威婆娑啊,这个世界完全知道我的誓愿:我必定会把性命也施予最优秀的婆罗门。
3.301.26
यद्यागच्छति मां शक्रो ब्राह्मणच्छद्मना वृतः ।
हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् ॥ ३.३०१.२६ ॥
啊,天空飞行者中最优秀的,如果帝释天化作婆罗门来向我乞求,为了般度之子的利益——
3.301.27
दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् ।
न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता ॥ ३.३०१.२७ ॥
诸神中最优秀的啊,我将施予耳环与上好的铠甲,使我在三界中闻名的荣誉不会消失。
3.301.28
मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम् ।
युक्तं हि यशसा युक्तं मरणं लोकसंमतम् ॥ ३.३०१.२८ ॥
对于像我这样的人,保全性命是不光彩且不妥的;与荣誉相配的,是为世人所认可的死亡。
3.301.29
सोहमिन्द्राय दास्यामि कुण्डले सह वर्मणा ।
यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति ॥ ३.३०१.२९ ॥
因此,若那强大的斩杀弗栗多者因陀罗来向我乞求布施,我将把耳环与铠甲一并施予他。
3.301.30
हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम् ।
तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति ॥ ३.३०१.३० ॥
为了般度之子的利益,愿他来乞求我的耳环;这将为我在世间带来荣誉,而他将蒙受耻辱。
3.301.31
वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन् ।
कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति ॥ ३.३०१.३१ ॥
光明者啊,在此世间,我宁愿以生命换取荣誉。有荣誉者得上天,无荣誉者则灭亡。
3.301.32
कीर्तिर्हि पुरुषं लोके संजीवयति मातृवत् ।
अकीर्तिर्जीवितं हन्ति जीवतोपि शरीरिणः ॥ ३.३०१.३२ ॥
在此世间,荣誉如母亲般使人重生;污名则即使在人活着时也毁灭有形者的生命。
3.301.33
अयंपुराणः श्लोको हि स्वयं गीतो विभावसो ।
धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य ह ॥ ३.३०१.३३ ॥
毗婆娑啊,这首古老的诗句正是世界之主造物主亲自所唱:人的荣誉即是他的寿命。
3.301.34
पुरुषस्य परे लोके कीर्तिरेव परायणम् ।
इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी ॥ ३.३०१.३४ ॥
人在来世,唯有荣誉是最高的依归;而在此世,纯净的荣誉增益人的寿命。
3.301.35
सोहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् ।
दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि ॥ ३.३०१.३५ ॥
因此,我将施舍生于我身之物,获得永恒的荣誉;并依法向婆罗门布施。
3.301.36
हुत्वा शरीरं रसंग्रामे कृत्वा कर्म सुदुष्करम् ।
विजित्य च परानाजौ यशः प्राप्स्यामि केवलम् ॥ ३.३०१.३६ ॥
我在战场上以身体为祭品,完成极为艰难的事业,并在战斗中战胜敌人,将唯独获得荣耀。
3.301.37
भीतानामभयं दत्त्वा संग्रामे जीवितार्थिनाम् ।
वृद्धान्वालान्द्विजातींश्च मोक्षयित्वा महाभयात् ॥ ३.३०१.३७ ॥
在战斗中,为那些恐惧并渴望生存的人赐予无畏,并将老人、孩童和再生者从大恐惧中解救出来。
3.301.38
प्राप्स्यामि परमं लोके यशः स्वर्ग्यमनुत्तमम् ।
जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्वि मे व्रतम् ॥ ३.३०१.३८ ॥
在此世间,我将获得至高、通往天界、无与伦比的名声。我的名誉应比生命更受守护;须知此即我的誓愿。
3.301.39
सो हं दत्त्वा मघवते भिक्षामेतामनुत्तमाम् ।
ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् ॥ ३.३०१.३९ ॥
我,哦神,将此无上的布施献给化作婆罗门的摩ghavan之后,将抵达至高之境。