摩诃婆罗多 · 章 3.307
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.307.1
गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये ।
चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम् ॥ ३.३०७.१ ॥
那位最优秀的再生者离去后,过了一段时间,少女思量着咒语群的强弱。
3.307.2
अयं वै कीदृशस्तेन मम दत्तो हमात्मना ।
मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिति ॥ ३.३०७.२ ॥
他亲自传给我的这套咒语群究竟如何?我不久便会知道它的力量,她想。
3.307.3
एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया ।
व्रीडिता साऽभवद्बाला कन्याभावे रजस्वला ॥ ३.३०७.३ ॥
她这样思量时,偶然看见了自己的月经;少女在未出嫁时便已经月经来潮,于是感到羞惭。
3.307.4
ततो हर्म्यतलस्था सा महार्हशयनोचिता ।
प्राच्यां दिशि समुद्यन्तं ददर्शादित्यमण्डलम् ॥ ३.३०७.४ ॥
于是她站在宫殿的平台上,习惯于华贵的床榻,看见东方升起的日轮。
3.307.5
तत्र बद्धमनोदृष्टिरभवत्सा सुमध्यमा ।
न चातप्यत रूपेण भानोः सन्ध्यागतस्य सा ॥ ३.३०७.५ ॥
在那里,这位细腰女子的心神与目光都凝注于它;她并未被已入黄昏的太阳之光所灼伤。
3.307.6
तस्या दृष्टिरभूद्दिव्या साऽपश्यद्दिव्यदर्शनम् ।
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम् ॥ ३.३०७.६ ॥
她的目光变得神圣,她看见了容貌神圣、身披铠甲、耳戴耳环的天神。
3.307.7
तस्याः कौतूहरलं त्वासीन्मन्त्रं प्रति नराधिप ।
आह्वानमकरोत्साऽथ तस्य देवस्य भामिनी ॥ ३.३०७.७ ॥
人主啊,她对咒语产生了好奇。于是这位光彩照人的女子召唤了那位天神。
3.307.8
प्राणानुपस्पृश्य तदा ह्याजुहाव दिवाकरम् ।
आजगाम ततो राजंस्त्वरमाणो दिवाकरः ॥ ३.३०७.८ ॥
国王啊,她当时触碰呼吸,召唤了日神;随后日神急速而来,国王啊。
3.307.9
मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव ।
अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव ॥ ३.३०७.९ ॥
如蜜般金黄,大臂,颈如螺贝,仿佛在微笑,戴着臂钏,束着冠冕,仿佛照亮四方。
3.307.10
योगात्कृत्वा द्विधाऽऽत्मानमाजगाम तताप च ।
आबभाषे ततः कुन्तीं साम्ना परमबल्गुना ॥ ३.३०७.१० ॥
他以瑜伽使自身化为两身,前来并放出光辉;随后以最温和悦耳的言语对贡蒂说话。
3.307.11
आगतोस्मि वशं भद्रे तव मन्त्रबलात्कृतः ।
किं करोमि वशो राज्ञि ब्रूहि कर्ता तदस्मि ते ॥ ३.३०७.११ ॥
善良的女子啊,我因你的咒语之力而被降服前来。王后啊,我听你的吩咐;我该做什么?请说吧,我将为你做那件事。
3.307.12
गम्यतां भगवंस्तत्र यत एवागतो ह्यसि ।
कौतूहलात्समाहूतः प्रसीद भगवन्निति ॥ ३.३०७.१२ ॥
世尊啊,请回到你来的地方去吧。我只是出于好奇才召唤你。世尊啊,请息怒施恩。
3.307.13
गमिष्येऽहं यथा मा त्वं ब्रवीषि तनुमध्यमे ।
न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा ॥ ३.३०७.१३ ॥
纤腰的女子啊,你所说的我会照做;但召唤神明却白白遣回,是不合理的。
3.307.14
तवाभिसन्धि सुभगे रसूर्यात्पुत्रो भवेदिति ।
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च ॥ ३.३०७.१४ ॥
吉祥的女子啊,依你的心愿,将从我而生一子,他在世上勇力无双,披戴铠甲,耳垂耳环。
3.307.15
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि ।
उत्पत्स्यति हि पुत्रस्ते यथासंकल्पमङ्गने।
अथ गच्छाम्यहं भद्रे त्वया संगम्य सुस्मिते ॥ ३.३०७.१५ ॥
步态如象的女子啊,你就把自己奉献给我吧;女子啊,依你的心愿,你将生一子。吉祥的、微笑甜美的女子啊,与你结合之后,我现在要走了。
3.307.16
यदि त्वंवचनं नाद्य करिष्यसि मम प्रियम् ।
शप्स्ये कन्येऽन्यथा क्रुद्धो ब्राह्मणं पितरं च ते ॥ ३.३०७.१६ ॥
少女啊,如果你今天不照我这令人喜悦的话去做,我将震怒,咒诅你、那婆罗门和你的父亲。
3.307.17
त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः ।
पितरं चैव ते मूढं यो न वेत्ति तवानयम् ॥ ३.३०७.१७ ॥
因为你的缘故,我必将他们全部焚毁,毫无疑问;还有你那愚昧的父亲,他不知道你的这过失。
3.307.18
तस् च ब्राह्मणस्याद्य योसौ मन्त्रमदात्तव ।
शीलवृत्तमविज्ञाय धास्यामि विनयं परम् ॥ ३.३०७.१८ ॥
至于那位把咒语传给你的婆罗门,因不知你的品行和操守,我将给予他最严厉的惩罚。
3.307.19
एते हि विबुधाः सर्वेपुरंदरमुखा दिवि ।
त्वया प्रलब्धं पश्यन्ति स्मयन्त इव मां शुभे ॥ ३.३०७.१९ ॥
吉祥的女子啊,以因陀罗为首的这些天神都在天上看到你欺骗了我,他们带着笑意看着我。
3.307.20
पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते ।
पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम् ॥ ३.३०७.२० ॥
看看这些天神之众吧。这只天眼是我先前赐给你的,你因此才见到了我。
3.307.21
ततोऽपश्यत्रिदशान्राजपुत्री ।
सर्वानव स्वेषु धिष्ण्येषु खस्थान्।
प्रभावन्तं भानुमन्तं महान्तं ।
यथाऽऽदित्यं रोचमानांस्तथैव ॥ ३.३०७.२१ ॥
于是公主看见天上站立于各自居所的所有三十位天神,他们威严、光明、伟大,如太阳般闪耀。
3.307.22
सा तान्दृष्ट्वा त्रिदशानेव बाला ।
सूर्यं देवी वचनं प्राह भीता।
गच्छ त्वं वै गोपते स्वं विमानं ।
कन्याभावाद्दुःख एवापचारः ॥ ३.३०७.२२ ॥
那位如女神般的少女见到这些天神,惊惧地对太阳说:“光明之主啊,请回到你的车辇去吧。因为我是未出嫁的少女,这只会是过错和痛苦。”
3.307.23
पिता माता गुरवश्चैवयेऽन्ये ।
देहस्यास्य प्रभवन्ति प्रदाने।
नाहं धर्मं लोपयिष्यामि लोके ।
स्त्रीणां वृत्तं पूज्यते देहरक्षा ॥ ३.३०७.२३ ॥
父亲、母亲、师长以及其他人,对此身的给予有权力。我不会在世上破坏法;女子的行为,就是守护此身。
3.307.24
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो ।
बाल्याद्बालेति तत्कृत्वा क्षन्तुमर्हसि मे विभो ॥ ३.३०७.२४ ॥
我召唤你是为了了解咒语的力量。啊,毗婆娑,啊,大能者,因我年幼无知,请你把我当作孩子,宽恕我。
3.307.25
बालेति कृत्वाऽनुनयं तवाहं ।
ददानि नान्यानुनयं लभेत।
आत्मप्रदानं कुरु कुन्तिकन्ये ।
शान्तिस्तवैवं हि भवेच्च भीरु ॥ ३.३०७.२५ ॥
我把你当作孩子,答应你的恳求;我不会答应别人的恳求。啊,贡蒂之女,请献出你自己;啊,胆怯的人,这样你才会得到平安。
3.307.26
न चापि गन्तुं युक्तं हि मया मिथ्याकृतेन वै ।
असमेत्य त्वया भीरु मन्त्राहूतेन भामिनि ॥ ३.३०७.२६ ॥
被欺骗而回去也是不合适的。啊,胆怯的人,啊,光彩照人的女子,被咒语召来,我不该未与你相见就离去。
3.307.27
गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम् ।
गच्छेयमेव सुश्रोणि गतोऽहं वै निराकृतः।
सर्वेषां विबुधानां च वक्तव्यः स्यां तथा शुभे ॥ ३.३०७.२७ ॥
啊,肢体无瑕的女子,世人将嘲笑我;啊,臀部美好的女子,我将被拒绝而离去。啊,吉祥的女子,我必须在诸神面前这样说。
3.307.28
सा त्वं मया समागच्छ पुत्रं लप्स्यसि माध्शम् ।
विशिष्टा सर्वलोकेषु भविष्यसि न संशय ॥ ३.३०७.२८ ॥
所以你与我结合吧;你将得到一个属于我的儿子,你将在所有世界中出类拔萃,毫无疑问。